________________
श्रुतस्कन्धः-१, अध्ययनं-९, उद्देशकर
____३१५ वृ. किं च - ‘अथ' अनन्तरं कुत्सितं चरन्तीति कुचराः-चौरपारदारिकादयस्ते च क्वचिच्छून्यगृहादौ 'उपचरन्ति' उपसर्गयन्ति, तथा ग्रामरक्षादयश्च त्रिकचत्वरादिव्यवस्थितं शक्तिकुन्तादिहस्ता उपचरन्तीति, अथ 'ग्रामिका' ग्रामघमाश्रिता उपसर्गा एकाकिनः स्युः, तथाहि-काचित्स्त्री रूपदर्शनाध्युपपन्ना उपसर्गयेत्, पुरुषो वेति । किंचमू. (२९६) इहलोइयाई परलोइयाई भीमाइं अनेगरूवाई।
अवि सुभिदुभिगन्धाइंसद्दाइं अनेगरूवाई।। वृ.इहलोकेभवाऐहलौकिकाः-मनुष्यकृताःकेते?- स्पर्शाः' दुःखविशेषा दिव्यास्तैरश्चाश्च पारलौकिकास्तानुपसर्गापादितान् दुःखविशेषानध्यासयति-अधिसहते, यदिवा इहैव जन्मनिये दुःखयन्ति दण्डप्रहारादयःप्रतिकूलोपसर्गास्तऐहलौकिकाः,तद्विपर्यस्तास्तुपारलौकिकाः, भीमा' भयानका अनेकरूपाः' नानाप्रकाराः,तानेवदर्शयति-अपिसुरभिगन्धाः-प्रक्चन्दनादयो दुर्गन्धाःकुथितकडेवरादयः, तथा शब्दाश्चानेकरूपा वीणावेणुमृदङ्गादिजनिताः, म. (२९७) अहियासए सया समिए फासाइंविरूवरूवाई।
अरईरइंअभिभूय रीयइ माहणे अबहुवाई। वृ.तथाक्रमेलकरसिताद्युत्थापितास्तांश्चाविकृतमना 'अध्यासयति अधिसहते, सदा' सर्वकालं सम्यगितः समितः-पञ्चभिः समितिभिर्युक्तः, तथा स्पर्शान्-दुःखविशेषानरतिं संयमे रति चोपभोगाभिष्वङ्गेऽभिभूयतिरस्कृत्य ‘रीयते' संयमानुष्ठाने व्रजति, 'माहणे'त्ति पूर्ववद् 'अबहुवादी' अबहुभाषी, एकद्विव्याकरणं कचिनिमित्ते कृतवानिति भावः । मू. (२९८) सजणेहिं तत्य पुच्छिसुएगचराविएगया राओ।
अव्वाहिएकसाइत्था पेहमाणे समाहि अपडिन्ने। वृ. 'स' भगवानद्धत्रयोदशपक्षाधिकाःसमा एकाकी विचरन्तत्रशून्यगृहादौ व्यवस्थितः सन् ‘जनैः' लोकैः पृष्टः, तद्यथा-को भवान् ? किमत्र स्थितः ? कुतस्त्यो वेत्येवं पृष्टोऽपि तूष्णींभावमभजत्, तथोपपत्याद्या अप्येकचरा-एकाकिन एकदा-कदाचिद्रात्रावह्नि वा पप्रच्छुः, अव्याहृतेच भगवता कषायिताः ततो ज्ञानावृतष्टियोदण्डमुष्टयादिताडनतोऽनार्यत्वमाचरन्ति, भगवांस्तुतत्समाधि प्रेक्षमाणोधर्मध्यानोपगतचित्तःसन्सम्यक्तितिक्षते, किंभूतः? - 'अप्रतिज्ञो' नास्य वैरनिर्यातनप्रतिज्ञा विद्यत इत्यप्रतिज्ञः। मू(१९९) अयमंतरंसि को इत्य? अहमंसित्ति भिक्खु आहड्ड।
अयमुत्तमे से धम्मे तुसिणीए कसाइए झाइ। पृ.कथंतेपप्रच्छुरितिदर्शयितुमाह-अयमन्तः-मध्येकोऽत्रव्यवस्थितः?,एवं सङ्केत्तागता दुश्चारिणः पृच्छन्ति कर्मकरादयो वा, तत्र नित्यवासिनो दुष्प्रणिहितमानसाः पृच्छन्ति, तत्र चैवं पृच्छतामेषां भगवांस्तूष्णीभावमेव भजते, क्वचिद्बहुतरदोषापनयनाय जल्पत्यपि, कथमिति दर्शयति-अहं भिक्षुरस्मीति, एवमुक्तेयदितेऽवधारयन्तिततस्तिष्ठत्येव, अथाभिप्रेतार्थव्याघातात् कषायितामोहान्धाः साम्प्रतेक्षितयैवंब्रूयः, यथा-तूर्णमस्मात्स्थानानिर्गच्छ, ततो भगवानचियत्तावग्रह इतिकृत्वा निर्गच्छत्येव, यदिवा ननिर्गच्छत्येव भगवान् किंतुसोऽयमुत्तमः प्रधानो धर्म आचार इतिकृत्वास कषायितेऽपितस्मिन् गृहस्थेतूष्णीभावव्यवस्थितोयद्भविष्यत्तयाध्यायत्येव-न ध्यानात्प्रच्यवते।।किंच--
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org