________________
३१४
मू. (२९०) आगन्तारे आरा मागारे तह य नगरे व एगया वासो । सुसाणे सुन्नगारे वा रुक्खमूले व एगया वासो ।
वृ. किं च - प्रसङ्गायाता आआगत्य वा यत्र तिष्ठन्ति तदागन्तारं तत्पुनर्ग्रामान्नगराद्वा बहिः स्थानं तत्र, तथा अरामेऽगारं गृहमारामागारं तत्र वा तथा नगरे वा एकदा वासः, तथा श्मशाने शून्यागारे वा, आवेशन शून्यागारयोर्भेदः सकुड्यकृतो, वृक्षमूले वा एकदा वास इति । मू. (२९१) एएहिं मुणी सयणेहिं समणे आसि पतेरसवासे । राई दिवंपि जयमाणे अपमत्ते समाहिए झाइ ।।
आचाराङ्ग सूत्रम् १/-/९/२/२९०
·
वृ. किं च 'एतेषु' पूर्वोक्तेषु 'शयनेषु' वसतिषु स 'मुनिः' जगत्त्रयवेत्ता ऋतुबद्धेषु वर्षासु वा 'श्रमणः' तपस्युद्युक्तः समना वाऽऽसीत् निश्चलमना इत्यर्थः कियन्तं कालं यावदिति दर्शयति- 'पतेलसवासे' त्ति प्रकर्षेण त्रयोदशं वर्षं यावत्समस्तां रात्रिं दिनमपि यतमानः संयमानुष्ठान उद्युक्तवान् तथाऽप्रमत्तो- निद्रादिप्रमादरहितः 'समाहितमनाः' विस्रोतसिकारहितो धर्म्मध्यान शुक्लध्यानं वा ध्यायतीति ॥ किं च
-
मू. (२९२)
निद्दपि नो पगामाए, सेवइ भगवं उट्ठाए । जग्गावइ य अप्पाणं इसिं साई य अपडिने ।।
वृ. निद्रामप्यसावरपरप्रमादरहितो न प्रकामतः सेवते, तथा च किल भगवतो द्वादशसु संवत्सरेषु मध्येऽस्थिकग्रामे व्यन्तरोपसर्गान्ते कायोत्सर्गव्यवस्थितस्यैवान्तर्मुहूर्त्त यावत्स्वप्नदर्शनाध्यासिनः सकृन्निद्राप्रमाद आसीत्, ततोऽपि चोत्थायात्मानं 'जागरयति' कुशलानुष्ठाने प्रवर्त्तयति, यत्रापीषच्छय्याऽऽसीत् तत्राप्यप्रतिज्ञः प्रतिज्ञारहितो, न तत्रापि स्वापाभ्युपगमपूर्वकं शयति इत्यर्थः । पू. (२९३)
संबुज्झमाणे पुनरवि आसिंसु भगवं उडाए । निक्खम्म एगया राओ बहि चंकमिया मुहुत्तागं ।।
बृ. किं च स मुनिर्निद्राप्रमादाद् व्युत्थितचित्तः 'संबुध्यमानः' संसारपातायायं प्रमाद इत्येवमवगच्छन् पुनरप्रमत्तो भगवान् संयमोत्थानेनोत्थाय यदि तत्रान्तर्व्यवस्थितस्य कुतश्चित्रिद्राप्रमादः स्यात् ततस्तस्मान्निष्क्रम्यैकदा शीतकालरात्रादी बहिश्चङ्क्रम्य मुहूर्तमात्रं निद्राप्रमादापनयनार्थं ध्याने स्थितवानिति ।
मू. (२९४)
सयणेहिं तत्थुवसग्गा भीमा आसी अनेगरूवा । संसप्पगाय जे पाणा अदुवा जे पक्खिणो उवचरन्ति ॥
वृ. किंच - शय्यते - स्थीयते उत्कुटुकासनादिभिर्येष्विति शयनानि - आश्रयस्थानानि तेषु तैर्वा तस्य भगवत उपसर्गा 'भीमा' भयानका आसन् अनेकरूपाश्च शीतोष्णादिरूपतयाऽनुकूलप्रतिकूलरूपतया वा, तथा संसर्पन्तीति संसर्पकाः शून्यगृहादावह्निकुलादयो ये प्राणिनः 'उपचरन्ति' उप-सामीप्येन मांसादिकमश्नन्ति अथवा श्मशानादौ पक्षिणो गृध्रादय उपचरन्तीति वर्त्तते ।
मू. (२९५)
Jain Education International
अदु कुचरा उवचरन्ति गामरक्खा य सत्तिहत्था य । अदुगामिया उवसग्गा इत्थी एगइया पुरिसा य ।।
For Private & Personal Use Only
www.jainelibrary.org