________________
श्रुतस्कन्धः- १, अध्ययनं - ९, उद्देशक: मू. (२८५) अप्पं तिरियं पेहाए अर्पि पिडओ पेहाए।
अप्पं बुइएउपडिभाणी पंथपेहि चरेजयमाणे ॥ वृ. अल्पशब्दोऽभावे वर्तते, अल्पं तिर्यक्-तिरश्चीनं गच्छन् प्रेक्षते, तथाऽल्पं पृष्ठतः स्थित्वोठोक्षते, तथा मार्गादि केनचित्पृष्टः सन्नप्रतिभाषी सन्नल्पंब्रूते, मौनेन गच्छत्येव केवलमिति दर्शयति-पथिप्रेक्षी 'चरेद्' गच्छेद्यतमानः-प्राणिविषये यलवानिति। मू. (२८६) सिसिरंसि अद्धपडिवन्ने तं बोसिजं वत्थमनगारे।
- पसारित्तु बाहुं परक्कमे नो अवलम्बियाण कंधमि ।। किंच-अध्वप्रतिपन्ने शिशिरे सति तदेवदूष्यं वस्त्रं व्युत्सृज्यानगारो भगवान्प्रसार्यबाहू पराक्रमते, नतु पुनः शीतार्दितः सन् सङ्कोचयति, नापि स्कन्धेऽवलम्ब्य तिष्ठती ति। मू. (२८७) एस विही अणुक्छन्तो माहणेण मईमया।
बहुसो अपडिन्नेण भगवया एवं रियति ।।-त्तिबेमि वृ. साम्प्रतमुपसञ्जिहीर्षुराह-एष चर्याविधिरनन्तरोक्तोऽनुक्रान्तः-अनुचीर्णः माहणेण'त्ति श्रीवर्द्धमानस्वामिना मतिमता' विदितवेद्येन बहुशः' अनेकप्रकारमप्रतिज्ञेन-अनिदानेन भगवता' एश्वर्यादिगुणोपेतेन, एवम्' अनेन पथा भगवदनुचीर्णेनान्ये मुमुक्षवोऽशेषकर्मक्षयाय साधवो 'रीयन्ते' गच्छन्तीति । इतिरधिकारपरिसमाप्तौ, ब्रवीमीति पूर्ववद् ।
अध्ययन-९ उद्देशकः १ समाप्तः
अध्ययनः ९-उद्देशकः२:वृ. उक्तः प्रथमोद्देशकः, साम्प्रतं द्वितीय आरभ्यते, अस्य चायमभिसम्बन्धःइहानन्तरोद्देशके भगवतश्चर्याऽभिहिता, तत्र चावश्यं कयाचिच्छय्यया-वसत्या भाव्यमतस्तप्रतिपादनायायमुद्देशकः प्रक्रम्यते इत्यनेन सम्बन्धेनायातस्यास्योद्देशकस्यादि सूत्रम्मू. (२८८) चरियासणाई सिज्जाओ एगइआओ जाओ बुइआओ।
आइक्ख ताई सयणासणाइंजाइंसेवित्था से महावीरे वृ. चर्यायामवश्यंभावितया यानि शय्यासनान्याभिहितानि सामायातानि तानि शयनासनानि-शय्याफलकादीन्याचक्ष्व सुधर्मस्वामी जम्बूनाम्नाऽभिहितो यानि सेवितवान् महावीरो-वर्द्धमनस्वामीति, अयं च श्लोकश्चिरन्तरनटीकाकारेण न व्याख्यतः, तत्र किं सुगमत्वादुताभावात्, सूत्रपुस्तकेषु तु दृश्यते, तदभिप्रायं च वयं न विद्म इति ॥ मू. (२८९) आवेसणसभापवासु पणियसालासु एगया वासो।
अदुवा पलियठाणेसु पलालपुजेसुएगया वासो॥ वृ. प्रश्नप्रतिवचनमाह-भगवतो ह्याहाराभिग्रहवत् प्रतिमाव्यतिरेकेण प्रायशो न शय्याऽभिग्रह आसीत्, नवरं यत्रैव चरमपौरुषी भवति तत्रैवानुज्ञाप्य स्थितवान्, तद्दर्शयतिआ-समन्ताद्विशन्ति यत्र तदावेशनं-शून्यगृहं सभा नाम ग्रामनगरादीनां तद्वासिलोकास्थायिकार्थमागन्तुकशयनार्थं च कुड्याद्याकृतिः क्रियते, 'प्रपा' उदकदानस्थानम् आवेशनं च सभा च प्रपा च आवेशनसमाप्रपास्तासु, तथा 'पण्यशालासु' आपणेषु 'एकदा' कदाचिद्वासो भगवतोऽथवा 'पलियन्ति कर्म तस्य स्थानं कर्मस्थानं-अयस्कारवर्द्धकिकुड्यादिकं, तथा पलालपुलेषु मोपरि व्यवस्थितेष्वधो, न पुनस्तेष्वेव, झुषिरत्वादिति ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org