________________
श्रुतस्कन्धः - १, अध्ययनं ९, उद्देशकः १
-
३११
स्म, क्रियाकारकसम्बन्धः, तत्र पृथिवी सूक्ष्मबादरभेदेन द्विधा, सूक्ष्मा सर्वगा, बादराऽपि लक्ष्णकठिनभेदेन द्विधैव, तत्र श्लक्ष्णा शुक्लादिपञ्चवर्णा, कठिना तु पृथ्वीशर्करावालुकादि षट्त्रिंशभेदा शस्त्रपरिज्ञानुसारेण द्रष्टव्या, अप्कायोऽपि सूक्ष्मबादरभेदाद्विधा, तत्र सूक्ष्मः पूर्ववतद्बदरस्तु शुद्धोदकादिभेदेन पञ्चधा, तेजःकायोऽपि पूर्ववत् नवरं बादरोऽङ्गारादि पञ्चधा, वायुरपि तथैव, नवरं बादर उत्कलिकादिभेदेन पञ्चधा, वनस्पतिरपि सूक्ष्मबादरभेदेन द्विधा, तत्र सूक्ष्मः सर्वगो बादरोऽप्यग्रमूलस्कन्धपर्वबीजसम्मूर्छन भेदात्सामान्यतः षोढा, पुनर्द्विधा-प्रत्येकः साधारणश्च तत्र प्रत्येको वृक्षगुच्छादिभेदाद्वादशधा, साधारणस्त्वनेकविध इति, स एवं भेदभिन्नोऽपि वनस्पतिः सूक्ष्मस्य सर्वगतत्वादतीन्द्रियत्वाच्च तद्वयुदासेन बादरो भेदत्वेन संगृहीतः, तद्यथापनकग्रहणेन बीजाङ्कुरभावरहितस्य पनकादेरुल्यादिविशेषापन्नस्य ग्रहणं, बीजग्रहणेन त्वग्रबीजादेरुपादानं, हरितशब्देन शेषस्येत्येतानि पृथिव्यादीनि भूतानि सन्ति' विद्यन्त इत्येवं प्रत्युपेक्ष्य तथा 'चित्तवन्ति' सचेतनान्यभिधाय ज्ञात्वा 'इति' एतत्सङ्ख्याय - अवगम्य स भगवान्महावीरस्तदारम्भं परिवर्ज्य विहृतवानिति ॥
मू. (२७८) अदु थावरा य तसत्ताए, तसा य थावरत्ताए ।
अदुवा सव्वजोणिया सत्ता कम्मुणा कप्पिया पुढो बाला ॥
वृ. पृथिवीकायादीनां जन्तूनां त्रसस्थावरत्वेन भेदमुपदश्य साम्प्रतमेषां परस्परतोऽनुगमनमप्यस्तीत्येतद्दर्शयितुमाह- 'अथ' आनन्तर्ये 'स्थावराः' पृथिव्यप्तेजोवा- युवनस्पतयः ते 'त्रसतया' द्वीन्द्रियादितया 'विपरिणमन्ते' कर्म्मवशाद् गच्छन्ति, चशब्द उत्तरापेक्षया समुच्चयार्थः, तथा 'त्रसजीवाश्च' कृम्यादयः 'स्थावरतया' पृथिव्यादित्वेन कर्म्मनिघ्नाः समुत्पद्यन्ते, तथा चान्यत्राप्युक्तम्
“अयण्णं भन्ते ! जीवे पुढविक्वाइयत्ताए जाव तसकाइयत्ताए उववण्णपुव्वे ?, हन्ता गोअमा ! असई अदुवाऽनंतखुत्तो जाव उववण्णपुव्वे 'त्ति, अथवा सर्वा योनयः- उत्पत्तिस्थानानि येषां सत्त्वानां ते सर्वयोनिकाः सत्त्वाः सर्वगतिभाजः, ते च 'बाला' रागद्वेषाकलिताः स्वकृतेन कर्मणा पृथक्तया सर्वयोनिभाक्त्वेन च 'कल्पिताः' व्यवस्थिता इति, तथा चोक्तम्"नत्थि किर सो पएसो लोए वालग्गकोडिमित्तोऽवि । जम्मणमरणाबाहा अनेगसो जत्थ नवि पत्ता "
119 11
( अपि च) - " रङ्गभूमिर्न सा काचिच्छुद्धा जगति विद्यते । विचित्रैः कर्म्मनेपथ्यैर्यत्र सत्त्वैर्न नाटितम् " ( इत्यादि) भगवं च एवमन्नेसिं सोवहिए हु लुप्पई बाले । कम्मं च सव्वसो नचा तं पडियाइक्खे पावगं भगवं ॥
॥२॥
मू. (२७९)
घृ. किं च भगवांश्च - असौ वीरवर्द्धमानस्वाम्येवममन्यत ज्ञातवान् सह उपधिना वर्त्तत इति सोपधिकः-द्रयभावोपधियुक्तः, हुरवधारणे, लुप्यत एव कर्म्मणा क्लेशमनभवत्येव 'अज्ञो' बाल इति, यदिवा हुर्हेतौ यस्मात्सोपधिकः कम्मर्णे लुप्यते बालस्तस्मात्कर्म्म च सर्वशो ज्ञात्वा तत्कर्म्म प्रत्याख्यातवांस्तदुपादानं च पापकमनुष्ठानं भगवान् वर्द्धमानस्वामीति ॥ दुविहं समिच्च मेहावी किरियमक्खायऽ णेलिसं नाणी । आयाण सोयमइवाय सोयं जोगं च सव्वसो नच्चा ॥
मू. (२८०)
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org