SearchBrowseAboutContactDonate
Page Preview
Page 313
Loading...
Download File
Download File
Page Text
________________ आचाराङ्ग सूत्रम् १/-/९/१/२७३ वृ. 'परुषाणि' कर्कशानि वाग्दुष्टानि तानि चापरैर्दुःखेन तितिक्ष्यन्त इति दुस्तितिक्षाणि तान्यतिगत्य - अविगणय्य 'मुनिः' भगवान् विदितजगत्स्वभावः पराक्रममाणः सम्यक्तितिक्षते, तथा आख्यातानि च तानि नृत्यगीतानिच आख्यातनृत्यगीतानि तानि उद्दिश्य न कौतुकं विदधाति, नापि दण्डयुद्धमुष्टियुद्धान्याकर्ण्य विस्मयोत्फुल्ललोचन उद्दूषित रोमकूपो भवति, । मू. (२७४) गढिए मिहुकहासु समयंमि नायसुए विसोगे अदक्खु । एयाई से । उरालाई गच्छइ नायपुत्ते असरणयाए । ३१० बृ. तथा 'ग्रथितः' अवबद्धो 'मिथः ' अन्योऽन्यं 'कथासु' स्वैरकथासु समये वा कश्चिदवबद्धस्तं स्त्रीद्वयं वा परस्य कथायां गृद्धमपेक्ष्य तस्मिन्नवसरे 'ज्ञातपुत्रो' भगवान् विशोको विगतहर्षश्च तान्मिथः कथाऽवबद्धान् मध्यस्थोऽद्राक्षीत्, एतान्यन्यानि चानुकूलप्रतिकूलानि परीषहोपसर्गरूपाण्युरालानि दुष्प्रधृष्याणि दुःखान्यस्मरन् 'गच्छति' संयमानुष्ठाने पराक्रमते, ज्ञाताः क्षत्रियास्तेषां पुत्रः - अपत्यं ज्ञातपुत्रः- वीरवर्द्धमानस्वामी स भगवान्नैतद्दुःखस्मरणाय गच्छतिपराक्रमत इति सम्बन्धः, यदिवा शरणं गृहं नात्र शरणमस्तीत्यशरणंः-संयमस्तस्मै अशरणाय पराक्रमत इति, तथाहि -किमत्र चित्रं यद्भगवानपरिमितबलपराक्रमः प्रतिज्ञामन्तरमारूढः पराक्रमते इति ?, स भगवानप्रव्रजितोऽपि प्रासुकाहारानुवत्यासीत्, श्रूयते च किल पञ्चात्वमुपगते मातापितरि समाप्तप्रतिज्ञोऽभूत्, ततः प्रविव्रजिषुः ज्ञातिभिरभिहितो, यथा-भगवन् ! मा कृथाः क्षते क्षारावसेचनमित्येवमभिहितेन भगवताऽवधिना व्यज्ञायि, यथा-मय्यस्मिन्नवसरे प्रव्रजति सति बहवो नष्टचित्ता विगतासवश्च स्युरित्यवधार्य तानुवाच - कियन्तं कालं पुनरत्र मया स्थातव्यमिति ?, ते ऊचुः - संवत्सरद्वयेनास्माकं शोकापगमो भावीति, भट्टारकोऽप्योमित्युवाच, किं त्वाहारादिकं मया स्वेच्छया कार्यं, नेच्छाविघाताय भवद्भिरुपस्थातव्यं, तैरपि यथाकथञ्चिदयं ! तिष्ठत्वितिमत्वा तैः सर्वैस्तथैव प्रतिपेदे ॥ यू. (२७५) अवि साहिए दुवे वासे सीओदं अभुच्चा निक्खन्ते । एगत्तगए पिहियच्चे से अहिन्नायदंसणे सन्ते ।। बृ. ततो भगवांस्तद्वचनमनुचत्त्र्त्यात्मीयं च निष्क्रमणावसरमवगम्य संसारासारतां विज्ञाय तीर्थप्रवर्त्तनायोद्यत इति दर्शयितुमाह-अपि साधिके द्वे वर्षे शीतोदकमभुक्त्वाअनभ्यवहृत्यापीत्वेत्यर्थः, अपरा अपि पादधावनादिकाः क्रियाः प्रासुकेनैव प्रकृत्य ततो निष्कान्तो, यथा च प्राणातिपातं परिहतवान् एवं शेषव्रतान्यपि पालितवानिति, तथा 'एकत्व' मिति तत एकत्वभावनाभावितान्तःकरणः पिहिता - स्थगिताऽर्चा - क्रोधज्वाला येन स तथा, यदिवा पिहिताचोंगुप्ततनुः स भगवान् छद्मस्थकालेऽभिज्ञातदर्शनः सम्यकत्वभावनया भावितः शान्तः इन्द्रियनोइन्द्रियैः । स एवंभूतो भगवान् गृहवासेऽपिसावद्यारम्भत्यागी, किंपुनः प्रव्रज्यायामिति दर्शयितुमाहमू. (२७६) पुढविं च आउकायं च तेडकायं च वाउकायं च । पणगाई बीयहरियाई तसकायं च सव्वसो नच्चा ।। एयाई सन्ति पडिलेहे, चित्तमन्ताइ से अभिन्नाय । परिवज्जिय विहरित्या इय संखाए से महावीरे ॥ मू. (२७७) वृ. श्लोकद्वयस्याप्यसमर्थः एतानि पृथ्व्यादीनि चित्तमन्त्यभिज्ञाय तदारम्भं परिवर्ज विहरति For Private & Personal Use Only www.jainelibrary.org Jain Education International
SR No.003335
Book TitleAgam Sutra Satik 01 Aachar AngSutra 01
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages468
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 01, & agam_acharang
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy