________________
३०९
श्रुतस्कन्धः-१, अध्ययनं-९, उद्देशकः
वृ. कियन्मानं कालं तद्देवदूष्यं भगवति स्थितमित्येतद्दयितुमाह तदिन्द्रोपाहितं वस्त्रं संवत्सरमेकं साधिकं मासं 'जंन रिकासिति यन्न त्यक्तवान् भगवान् तत्स्थितकल्प इतिकृत्वा, तत ऊध्वं तद्वस्त्रपरित्यागी, व्युत्सृज्य च तदनगारो भगवानचेलोऽभूदिति, तच्च सुवर्णवालुकानदीपूराहतकण्टकावलग्नं धिग्जातिना गृहीतमिति ॥ किंचमू. (२६९) अदु पोरिसिं तिरियं भित्तिं चक्खुमासज्ज अन्तसो झायइ।
अह चक्खुभीया संहिया ते हन्ता हन्ता बहवे कंदिसुं। वृ. 'अथ' आनन्तर्येपुरुषप्रमाणापौरुषी-आत्मप्रमाणावीथीतांगच्छन्ध्यायतीर्यासमितो गच्छति, तदेव चात्र ध्यानं यदीर्यासमितस्य गमनमिति भावः, किंभूतां तां ?-तिर्यग्भित्तिशकटोर्द्धिवदादौ सङ्कटामग्रतोविस्तीर्णामित्यर्थः, कथंध्यायति?,-'चक्षुरासाद्य चक्षुर्दत्त्वाऽन्तःमध्ये दत्तावधानो भूत्वेति, तं च तथा रीयमाणं टष्ट्वाकदाचिदव्यक्तवयसः कुमारादय उपसर्गयेयुरिति दर्शयति-'अथ आनन्तर्येचक्षुःशब्दोऽत्रदर्शनपर्यायो, दर्शनादेवभीता दर्शनभीताः संहिता-मिलितास्ते बहवो डिम्मादयः पांसुमुष्टयादिभिर्हत्वा हत्वा चक्रन्दुः, अपरांश्च चुक्रुशुःपश्यत यूयं नग्नो मुण्डितः, तथा कोऽयं कुतोऽयं किमीयो वा अयमित्येवं हलबोलं चक्रुरिति । मू. (२७०) सयणेहिं वितिमिस्सेहिं इथिओ तत्य से परित्राय।
सागारियं न सेवेइ य, से सयं पवेसिया झाइ ।। वृ. किं च-शय्यत एष्विति शयनानि-वसतयस्तेषु कुतश्चिन्निमित्ताद्व्यतिमिश्रेषु गृहस्थतीर्थिकैः, तत्र व्यवस्थितः सन् यदि स्त्रीभिः प्रार्थ्यते ततस्ताः शुभमार्गार्गला इति ज्ञात्वा ज्ञपरिज्ञया प्रत्याख्यानपरिज्ञया परिहरन् सागारिक-मैथुनंनसेवेत, शून्येषुच भावमैथुनं न सेवेत, इत्येवंस भगवान्स्वयम्-आत्मनावैराग्यमार्गमात्पमा प्रवेश्यधर्मध्यानंशुक्लध्यानंवाध्यायति मू. (२७१) जे के इमे अगारत्था मीसीभावं पहाय से झाई।
पुट्ठो नाभिमासिंसुगच्छइ नाइवत्तइ अंजू वृ. तथा-ये केचन इमेऽगारं-गृहं तत्र तिष्ठन्तीति अगारस्थाः-गृहस्थास्तैर्मिश्रीभावमुपगतोऽपिद्रव्यतोभावतश्च तं मिश्रीभावंप्रहाय-त्यक्त्वास भगवान् धर्मध्यानं ध्यायति, तथा कुतश्चिनिमित्ताद्गृहस्थैः पृष्टोऽपृष्टो वा न वक्ति, स्वकार्याय गच्छत्येव, न तैरुक्तो मोक्षपथमतिवर्तते ध्यानं वा, अंजुत्तिऋजुः ऋजोः संयमस्यानुष्ठानात्, नागार्जुनीयास्तुपठन्ति'पुट्ठो वसोअपुट्ठो व नो अणुनाइ पावगं भगवं' कण्ठयम् मू. (२७२) नो सुकरमेयमेगेसिं नाभिमासे य अभिवायमाणे।
हयपुब्वे तत्थ दण्डेहिं लूसियपुवे अप्पपुण्णेहिं ।। वृ. किं च-नैतद्वक्ष्यमाणमुक्तं वा एकेषाम्-अन्येषां सुकरमेव, नान्यैः “प्राकृतपुरुषैः कर्तुमलं, किंततेन कृतमिति दर्शयति-अभिवादयतो नाभिभाषते, नाप्यनभिवादयम्यः कुप्यति, नापि प्रतिकूलोपसगैरन्यथामावं यातीति दर्शयति- दण्डैहतपूर्वः 'तत्र' अनार्यदशादौ पर्यटन तथा 'लूषितप्रूवो' हिंसितपूर्वः केशलुञ्चनादिभिरपुण्यैः-अनार्यः पापाचारैरिति ।। किंचमू. (२७३) फरुसाइंदुत्तितिक्खाइ अइअच्च मुणी परक्कममाणे ।
आघायनट्टगीयाई दण्डजुद्धाई मुट्ठिजुद्धाई॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org