SearchBrowseAboutContactDonate
Page Preview
Page 311
Loading...
Download File
Download File
Page Text
________________ आचाराणसूत्रम् 9/-/९/१/२६५ अध्ययन-९-उद्देशक:-१:मू. (२६५) अहासुयं वइस्सामिजहा से समणे भगवं उठाए। संखाए तंसि हेमंते अहुणो पब्वइए रीइत्या ।। वृ.आर्यसुधर्मस्वामी जम्बूस्वामिने पृच्छते कथयति, यथाश्रुतं यथासूत्रं वा वदिष्यामि, तद्यथा-सश्रमणो भगवान् वीरवर्द्धमानस्वाम्युत्थाय-उद्यतविहारं प्रतिपद्य सर्वालङ्कारंपरित्यज्य पञ्चमुष्टिकं लोचं विधायैकेन देवदूष्येणेन्द्रक्षिप्तेन युक्तः कृतसामायिकप्रतिज्ञ आविर्भूतमनःपर्यायज्ञानोऽष्टप्रकारकर्मक्षयार्थं तीर्थप्रवर्तनार्थ चोत्थाय 'संख्याय' ज्ञात्वा तस्मिन् हेमन्ते मार्गशीर्षदशम्यांप्राचीनगामिन्यांछायायांप्रव्रज्याग्रहणसमनन्तरमेव रीयतेस्म' विजहार, तया चकिल कुण्डग्रामान्मुहूर्तशेषेदिवसेकर्मारग्राममाप,तत्रचभगवानित आरभ्यनानाविधाभिग्रहोपेतो घोरान्परीषहोपसर्गानधिसहमानोमहासत्त्वतयाम्लेच्छानप्युपशमनयन्द्वादशवर्षाणिसाधिकानि छद्मस्थो मौनव्रतीतपश्चचार,अत्रचसामायिकारोपणसमनन्तरमेव सुरपतिनाभगवदुपरिदेवदूष्यं चिक्षिपे, तत् भगवताऽपि निःसङ्गाभिप्रायेणैव धर्मोपकरणमृते न धर्मोऽनुष्ठातुं मुमुक्षुभिरपरैः शक्यत इति कारणापेक्षयामध्यस्थवृत्तिनातथैवावधारितं, नपुनस्तस्य तदुपभोगेच्छाऽस्तीति।। मू. (२६६) नोचेविमेण वत्येण पिहिस्सामितंसि हेमंते।। से पारए आवकहाए, एयंखु अनुपम्मियं तस्स ।। दृ. एतद्दर्शयितुमाह-न चैवाहमनेन वस्त्रेणेन्द्रप्रक्षिप्तेनात्मानं पिधास्यामि-स्थगयिष्यामि तस्मिन् हेमन्तेतद्वा वस्त्रंत्वक्त्राणीकरिष्यामि, लज्जापच्छादनंवा विधास्यामि, किंभूतोऽसाविति दर्शयति-'स भगवान्प्रतिज्ञायाः परीषहाणांसंसारस्यवापारंगच्छतीतिपारगः,कियन्तंकालमिति दर्शयति-यावत्कथं यावज्जीवमित्यर्थः, किमर्थं पुनरसौ बिभर्तीति चेद्दर्शयति-खुरवधारणे स च भिन्नक्रमः, एतद्वावज्ञाधारणं तस्य भगवतोऽनु-पश्चाद्धार्मिकमनुधार्मिकमेवेति, अपरैरपि तीर्थकृद्मिः समाचीर्णमित्यर्थः, तथा चागमः “से बेमिजेय अईयाजेय पडुप्पन्ना जेयआगमेस्सा अरहंता भगवन्तो जेयपव्वयन्ति जे अपब्वइस्सन्ति सव्वे ते सोवही धम्मो देसिअव्वोत्तिकट्ट तित्यधम्मयाए एसाऽणुधम्मिगत्ति एगं देवदूसमायाए पव्वइंसु वा पव्वयंति वा पव्व इस्सन्ति द"त्ति, अपि च 'गरीयस्त्वात्सचेलस्य, धर्मास्यान्यैस्तथागतैः । शिष्यस्य प्रत्ययाचैव, वस्त्रंदजेन लज्जया॥" मू. (२६७) चत्तारि साहिए मासे बहवे पाणजाइया आगम्म। ___ अभिरुज्झ कायं विहरिंस, आरुसियाणंतत्य हिसिंस।। वृ.इत्यादि ।तथा भगवतः प्रव्रजतो ये दिव्याः सुगन्धिपटवासा आसंस्तद्गन्धाकृष्टाश्च भ्रमरादयः समागत्य शरीरमुपतापयन्तीति, एतद्दर्शयितुमाह-चतुरः समधिकान् मासान् बहवः प्राणिजातयो-भ्रमरादिकाः समागत्य आरुह्य च 'कायं शरीरं' "विजड्डः' काये प्रविचारं चक्रुः:, तथामांसशोणितार्थितयाऽऽरुह्य तत्र' काये णमितिवाक्यालकारे, हिसिंसुइतश्चेतश्चविलुम्पन्ति स्मेत्यर्थः॥ मू (२६८) संवच्छसाहियं मासंजंन रिकासि वत्यगंभगवं। अचेलए तओ चेइ तं वोसिज वत्यमनगारे।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003335
Book TitleAgam Sutra Satik 01 Aachar AngSutra 01
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages468
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 01, & agam_acharang
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy