________________
श्रुतस्कन्धः - १, अध्ययनं - ९, उपोद्घात :
३०५
स्थितिबन्ध इत्येते पञ्चाप्यधिकारा यौगपद्येन पूर्वम् प्रवृत्ताः प्रवर्त्तन्त इत्यपूर्वकरणं, तथाऽनिवृत्तिकरणमित्यन्योऽन्यं नातिवर्त्तन्ते परिणामा अस्मिन्नित्यनिवृत्तिकरणं, एतदुक्तं भवति
प्रथमसमयप्रतिपन्नानां तत्करणमसुमतां सर्वेषां तुल्यः परिणामः, एवं द्वितीयादिष्वप्यायोज्यं, अत्रापि पूर्वोक्ता एव स्थितिघातादयः पञ्चाप्यधिकारा युगपत्प्रवर्त्तन्त इति, तत एभिस्त्रिभिरपि करणैर्यथोक्तक्रमेणानन्तानुबन्धिनः कषायानुपशमयति, उपशमनं नाम यथा धूलिरुदकेन सिक्ता द्रुघणादिभिर्हता न वाय्वादिभिः प्रसर्पाणादिविकारभाग्भवति, एवं कर्म्मधूल्यपि विशुद्धयुदकाद्रकृता अनिवृत्तिकरणक्रियाहता सत्युदयोदीरणसङ्क्रमनिद्यत्तनिकाचनाकरणानामयोग्या भवति, तत्रापि प्रथमसमयोपशान्तं कर्म्मदलिकं स्तोकं द्वितियादिषु समयेष्वसङ्घयेयगुणवृद्धयोपशम्यमान- मन्तर्मुहूर्त्तेन सर्वमप्युपशान्तं भवति एवमेकीयमतेनानन्तानुबन्धिनामुपशमोऽभिहितः, अन्ये त्वन्तानुबन्धिनां विसंयोजनामेवाभिदधति, तद्यथा
क्षायोपशमिकसम्यग्दृष्टयश्चतुर्गतिका अप्यनन्तानुबन्धिनां विसंयोजकाः, तत्र नारका देवा अविरतसम्यग्दृष्टयस्तिर्यञ्चोऽविरतदेशविरता मनुष्या अविरतदेशविरतप्रमत्ताप्रमत्ताः, एते सर्वेऽपि यथासम्भवं विशोधिविवेकेन परिणता अनन्तानुबन्धिविसंयोजनार्थं प्रागुक्तं करणत्रयकुर्वन्ति, तत्राप्यनन्तानुबन्धिनां स्थितिमपवर्त्तयन्त्रपवर्तयन् यावत्पल्योपमासङ्घयेयभागमात्रा तावद्विधत्ते, तमपि पल्योपमासङ्क्रयेयभागं बध्यमानासु मोहप्रकृतिषु प्रतिसमयं सङ्क्रामयति, तत्रापि प्रथमसमये स्तोकं द्वितीयादिष्वसङ्क्र येयगुणं एवं यावञ्चरमसमये सर्वसङ्क्रामेणावलिकागतं मुक्त्वा सर्वं सङ्क्रामयति, आवलिकागतमपि स्तिबुकसङ्क्रमेण वेद्यमानास्वपरप्रकृतिषु सङ्क्रामयति, एवमनन्तानुबन्धिनो विसंयोजिता भवन्ति ।
इदानीं दर्शनत्रिकोपशमना भण्यते तत्र मिथ्यात्वस्योपशमको मिध्यादृष्टिर्वेदकसम्यग्धष्टिर्वा सम्यकत्वसम्यग्मिथ्यात्वयोस्तु वेदक एवोपशमकः, तत्र मिथ्यात्वस्योपशमं कुर्वंस्तस्यान्तरं कृत्वा प्रथमास्थितिं विपाकेनानुभूयोपशान्तमिध्यात्वः सनुपशमसम्यग्दृष्टिर्भवतीति । साम्प्रतं वेदकसम्यग्धष्टिरुपशमश्रेणि प्रतिपद्यमानोऽनन्तानुबन्धिनो विसंयोजय संयमे वर्त्तमानो दर्शनत्रिकमुपशमयत्यनेन विधिना, तत्र यथाप्रवृत्तादीनि प्राग्वत्रीणि करणानि कृत्वाऽन्तरकरणं कुर्वन् वेदकसम्यकत्वस्य प्रथमस्थितिमान्तर्मौहूर्त्तिकीं करोति, इतरां त्वावलिकामात्रां, ततः किञ्चिन्यूनमुहूर्त्तमात्रां स्थितिं खण्डयित्वा बध्यामानानां प्रकृतीनां स्थितिबन्धमात्रेण कालेन तत्कर्म्मदलिकं सम्यकत्वप्रथमस्थिती प्रक्षिपन्नेत्येवमनया प्रक्रियया सम्यकत्वबन्धाभावादन्तरं क्रियमाणं कृतं भवति, मिथ्यात्वसम्यग्मिथ्यात्वप्रथमस्थितिदलिकमावलिकामात्रपरिमाणं सम्यकत्वप्रथमस्थिती स्तिबुकसङ्क्रमेण सङ्क्रमयति, तस्यामपि सम्यकत्वप्रथमस्थितौ क्षीणायां सत्यामुपशान्तदर्शनत्रिको भवतीति ।
तदजनन्तरं चारित्रमोहनीयमुपशमयन् पूर्ववत् करणत्रयं करोति, नवरं यथाप्रवृत्तकरणमप्रमत्तगुणस्थान एव भवति, द्वितीयं त्वपूर्वकरणमष्टममेव गुणस्थानकं, तस्य च प्रथमसमय एव स्थितिघातरसघातगुणश्रेणिगुणसङ्क्रमापूर्वस्थितिबन्धा यौगपद्येन पञ्चाप्यधिकाराः प्रवर्त्तन्ते, तत्रापूर्वकरणसङ्ख्येयभागे गते निद्राप्रचलयोर्बन्धव्यवच्छेदो भवति, ततोऽपि बहुषु
120
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org