________________
३०४
आचारागसूत्रम् १/-1९/-/- [नि. २८३] तपो भावोपधानमुच्यते इत्याहनि. [२८३] जह खलु मइलं वत्यं सुज्झइ उदगाइएहिं दव्वेहिं ।
एवं भावुवहाणेण सुज्झए कम्ममट्टविहं॥ वृ. 'यथे'त्युदाहरणोपन्यासार्थः यथतत्तथाऽन्यदपिद्रष्टव्यमित्यर्थः, खलुशब्दोवाक्यालङ्कारे, यथामलिनंवस्त्रमुदकादिभिर्द्रव्यैः शुद्धिमपयातिएवंजीवस्यापिभावोपधानभूतेनसबाह्याभ्यन्तरेण तपसाअटप्रकारकर्मशुद्धिमुपयातीति। अस्यचकर्मक्षयहेतोस्तपसउपधानश्रुतत्वेनात्रोपात्तस्य 'तत्त्वभेदपर्यायाख्ये तिकृत्वापर्यायदर्शनायाह-यदिवातपोऽनुष्ठानेनापादिता अवधूननादयः कपिगमविशेषाः सम्भवन्तीत्यतस्तान् दर्शयितुमाहनि. [२८४] ओधूणण धुणण नासण विणासणंझवण खवण सोहिकरं।
छेयण भेयण फेडणडहणं धुवणंच कम्माणं॥ वृ.तत्रावधूननम्-अपूर्वकरणेनकर्मग्रन्थेर्मेदापादानं, तच्चतपोऽन्यतरभेदसामर्थ्याभवतीत्येषा क्रिया शेषेष्वप्येकादश सु पदेष्वायोज्या, तथा “धूननं भिन्नग्रन्थेरनिवर्तिकरणेन सम्यकत्वावस्थानं, तथा नाशनं कर्मप्रकृतेःस्तिबुकसङक्रमेण प्रकृत्यन्तरगमनं,तथा 'नाशनं' शैलेश्यवस्थायां सामस्त्येन काभावापादनं, तथा ध्यापनम्-उपशमश्रेण्यां कानुदयलक्षणं विध्यापनं, तथा 'क्षपणम्' अप्रत्याख्यानादिप्रक्रमेण क्षपकश्रेण्या मोहाद्यभावापादनं, तथा 'शुद्धिकर' मित्यन्तानुबन्धिक्षयप्रक्रमेण क्षायिकसम्यकत्वापादानं,
तथा 'छेदनम् उत्तरोत्तरशुभाध्यवसायारोहणात्स्थितिहा जननं, तथा 'भेदनं' बादरसम्परायावस्थायां सजवलनलोभस्य खण्डशो विधानं, तथा 'फेडणन्ति अपनयनं चतुःस्थानिकादीनामशुभप्रकृतीनारसतस्त्र्यादिस्थानापादनं, तथा दहन केवलिसमुद्घातध्यानाग्निना वेदनीयस्य भस्मसात्करणं, शेषस्य च दग्धरज्जुतुल्यत्वापादनं, तथा 'धावनं' शुभाध्यवसायान्मिथ्यात्वपुद्गलानांसम्यकत्वमावसंजननमिति, एताश्चकर्मणोऽवस्थाःप्रायश उपशमश्रेणिक्षपकश्रेणिकेवलिसमुद्घातशैलेश्यवस्थाप्रकटनेन प्रभूता आविर्भाविता भवन्तीत्यतस्तप्रकटनाय प्रक्रम्यते,
तत्रोपशमश्रेण्यामादावेवानन्तानुबन्धिनामुपशमनातावत्कथ्यते, इहासंयतसम्यग्दृष्टिदेशविरतप्रमत्ताप्रमत्तानामन्यतरोऽन्यतरयोगे वर्तमान आरम्भको भवति, तत्रापि दर्शनसप्तकमेकेनोपशमयति, तद्यथा-अनन्तानुब्धिनश्चतुरः, उपरितनलेश्यात्रिके च विशुद्धे साकारोपयोग्यन्तःकोटीकोटीस्थितिसत्कर्मा परिवर्त्तमानाः शुभप्रकृतीरेव बध्नन् प्रतिसमयमशुभप्रकृतीनामनुभागमनन्तगुणहान्याहासयन्शुभानांचानन्तगुणवृद्धयाऽनुभागंव्यवस्थापयन् पल्योपमासङ्ख्येयभागहीनमुत्तरोत्तरंस्थितिबन्धंकुर्वन्करणकालादपिपूर्वमन्तर्मुहूर्तविशुध्यमानः करणत्रयं विधत्ते, तच प्रत्येकमान्तर्मीहर्तिकं, तद्यथा
___ यथाप्रवृत्तकरणमपूर्वकरणमनिवृत्तिकरणंचेति, चतुर्युपशान्ताद्धा, तत्रयथाप्रवृत्तकरणे प्रतिसमयमनन्तगुणवृद्धया विशुद्धिमनुभवति, न तत्र स्थितिघातरसघातगुणश्रेणीगुणसङ्कमाणामन्यतमोऽपिविद्यते, तथा द्वितीयमपूर्वकरणं, किमुक्तं भवति? -अपूर्वामपूर्वाक्रियां गच्छतीत्यपूर्वकरणं, तत्र च प्रथमसमय एव स्थितिघातरसघातगुणश्रेणिगुणसङक्रमा अन्यश्च
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org