________________
श्रुतस्कन्धः - १, अध्ययनं-९, उपोद्घात :
३०३ वृ. यो यदा तीर्थकृदुत्पद्यते स तदाऽऽत्मीये तीर्थे आचारार्थप्रणयनावसानाध्ययने स्वतपःकर्मव्यावर्णयतीत्ययंसर्वतीर्थकृतांकल्पः, इहपुनरुपधानश्रुताख्यं चरममध्ययनमभूत् अत उपधानश्रुतमित्युक्तमिति ॥ किमेकाकारं केवलज्ञानवत्सर्वतीर्थकृतां तपः कोतान्यथेत्यारेका-व्युदासार्थमाहनि. [२७७] सव्वेसि तवोकम्मं निरुवसगंतु वण्णिय जिणाणं ।
नवरंतु वद्धमाणस्स सोवसग्गंमुणेयव् ॥ नि. [२७८] तित्थयरो चउनाणी सुरमहिओ सिज्झियव्वय धुवम्मि।
अणिगूहियबलविरिओ तवोविहाणंमि उज्जमइ ।। नि. [२७९] किं पुण अवसेसेहिं दुक्खक्खयकारणा सुविहिएहिं ।
होइन उज्जमियव्वं सपच्चवायंमि माणुस्से? ॥ वृ.गाथात्रयमप्युत्तानार्थम् ।।अध्ययनार्थाधिकारप्रतिपाद्योद्देशार्थाधिकारंप्रतिपादयन्नाहनि. [२८०] चरिया १सिजाय २ परीसहाय ३ आयंकिया(ए)चिगिच्छा ४ य ।
तवचरणेणऽहिगारो चउसुद्देसेसु नायव्वो॥ वृ. चरणं चर्यत इति वा चर्या-श्रीवीरवर्द्धमानस्वामिनो विहारः, अयं प्रथमोद्देशकेऽधिकारः १, द्वितीयोद्देशके त्ययमर्थाधिकारः, तद्यथा-शय्या वसतिः साच यादग्भगवत आसीत् तादृग्वक्ष्यते २, तृतीये त्वयमर्थाधिकारः-मार्गाच्यवननिर्जरार्थं परिषोढव्याः परीषहाः, उपलक्षणार्थत्वा-दुपसर्गाश्चानुकूलप्रतिकूला वर्द्धमानस्वामिनो येऽभूवन्तेऽत्र प्रतिपाद्यन्ते ३, चतुर्थे त्वयमाधिकारः, तद्यथा-'आतङ्किते' क्षुत्पीडायामातङ्गोत्पत्तौ विशिष्टाभिग्रहावाप्ताहारेण चिकित्सेदिति ४, तपश्चरणाधिकारस्तु चतुष्वप्युद्देशकेष्वनुयायीति गाथार्थः ।। निक्षेपस्त्रिधा
ओघनिष्पन्नो नामनिष्पन्नः सूत्रालापकनिष्पन्नश्च, तत्रौघनिष्पन्ने निक्षेपेऽध्ययनं, नामनिष्पन्ने तूपधानश्रुतमिति द्विपदं नाम, तत्रोपधानस्य श्रुतस्य च यथाक्रमं निक्षेपः कर्तव्य इति न्यायादुपधाननिक्षेपचिकीर्षयाऽऽह-- नि. [२८१] नामंठवणुवहाणं दव्वे भावेय होइ नायव्वं ।
एमेव य सुत्तस्सवि निक्खेवो चउविहो होइ।। वृ.नामोपधानं स्थापनोपधानंद्रव्योपधानं भावोपधानंच, श्रुतस्याप्येवमेव चतुर्द्धानिक्षेपः, तत्र द्रव्यश्रुतमनुपयुक्तस्ययत् श्रुतं द्रव्यार्थं वा यत् श्रुतं कुप्रावचनिकश्रुतानि चेति द्रव्यश्रुतम्, भावश्रुतं त्वङ्गानङ्गप्रविष्टश्रुतविषयोपयोगः ॥ तत्र सुगमनामस्थापनाव्युदासेनद्रव्याद्युपधानप्रतिपादनायाहनि. [२८२] दबुवहाणं सयणे भावुवहाणं तवो चरित्तस्स ।
तम्हा उ नाणदंसणतवचरणेहिं इहाहिगयं ।। वृ.उप-सामीप्येन धीयते-व्यवस्थाप्यतइत्युपधानंद्रव्यभूतमुपधानं द्रव्योपधानं, तत्पुनः शय्यादौ सुखशयनार्थं शिरोऽवष्टम्भनवस्तु, 'भावोपधान'मिति भावस्योपधानं भावोपधानं, तत्पुननिदर्शनचारित्राणितपोवासबाह्याभ्यन्तरं,तेन हि चारित्रपरिणतभावस्थोपष्टम्मनं क्रियते, यत एवंतस्मात् ज्ञानदर्शनतपश्चरणैरिहाधिकृतमितिगाथार्थः ॥किंपुनःकारणंचारित्रोपष्टम्भकतया
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org