________________
३०२
आचाराङ्ग सूत्रम् 9/10/८/२६३ कुतोऽयमाकस्मिकः पुरुषो दुर्लभमेतद्रव्यं प्रभूततरमेवंभूते क्षेत्रे काले भावे च दद्यात् ?, एवं द्रव्यादिनिरूपणया देवमायां बुध्यस्व इति, तथा देवाङ्गना वा यदि दिव्यं रूपं विधाय प्रार्थयेत् तामपि बुध्यस्वेति, 'माहणे'त्ति साधुः 'सर्वम्' अशेषं नूमति कर्म मायां वा तत्तां वा 'विधूय' अपनीय देवादिमायां बुध्यस्वेति क्रिया ।।किंचमू. (२६४) सबढेहिं अमुच्छिए, आउकालस्स पारए।
तितिक्खं परमं नचा, विमोहन्नयरं हियं तिबेमि॥ वृ.सर्वेचतेऽर्थाश्च सर्वार्थाः-पञ्चप्रकाराः कामगुणास्तत्सम्पादकावा द्रव्यनिचयास्तैस्तेषु वाअमूर्छितः-अनध्युपपन्नः आयुःकालस्य यावन्मात्रं कालमायुः संतिष्ठतेअसौआयुःकालस्तस्य पारम्-आयुष्कपुद्गलानां क्षयो भरणं तद्गच्छतीति पारगः, यथोक्तविधिना पादपोपगमनव्यवस्थितः प्रवर्द्धमानशुभाध्यवसायः स्वायुःकालान्तगः स्यादिति । तदेवं पादपोपगमनविधि परिसमापय्योपसंहारद्वारेण त्रयाणामपिमरणानांकालक्षेत्रपुरुषावस्थाश्रयणात्तुल्यकक्षतांपश्चार्द्धन दर्शयति-तितिक्षा-परीषहोपसर्गापादितदुःखविशेषसहनं ।
तत्रयाणामपि परम-प्रधानमस्तीति ‘ज्ञात्वा' अवधार्य 'विमोहान्यतरंहित मिति विगतो मोहो येषु तानि विमोहानि-भक्तपरिज्ञेङ्गितमरणपादपोपगमनानि तेषामन्यतरत्कालक्षेत्रादिकमाश्रित्य तुल्यफलत्वाद्धितं अभिप्रेतार्थसाधनादतो यथाशक्ति त्रयाणामन्यतरतुल्यबलत्वाद्ययावसरंविधेयं, इतिअधिकारपरिसमाप्तीब्रवीमीतिपूर्ववत्, नयविचारादिकमनुगतं वक्ष्यमाणं च द्रष्टव्यमि
अध्ययन- ८ उद्देशकः- ८ समाप्तः
अध्ययन-८ समाप्तम् मुनि दीपरत्नसागरेण संशोधिता-सम्पादिता शीलाचार्येण चिरविता प्रथम श्रुतस्कन्धस्य अश्मअध्ययनटीका परिसमासा.
(अध्ययन-९ - उपधान श्रुतम् । वृ. उक्तमध्ययनमष्टमं, साम्प्रतं नवममारभ्यते, अस्य चायमभिसम्बन्धः-इहानन्तराध्ययनेष्वष्टसुयोऽर्थोऽभिहितः सतीर्थकृतावीरवर्द्धमानस्वामिनास्वतएवाचीर्णइत्येतनवमेऽध्ययने प्रतिपाद्यते, अनन्तराध्ययनसम्बन्धस्त्वयम्-इहाभ्युद्यतमरणंत्रिप्रकारमभिहितं, तत्रान्यतरस्मिन्नपि व्यवस्थितोऽष्टाध्ययनार्थविधायिनमतिघोरपरीषहोपसर्गसहिष्णुमाविष्कृत-सन्मार्गावतारंतथा घातितघातिचतुष्टयाविभूतान्तातिशयाप्रमेयमहाविषयस्वपरावभासककेवलज्ञानं भगवन्तं श्रीवर्द्धमानस्वामिनंसमवसरणस्थंसत्त्वहितायधर्मदेशनांकुर्वाणंध्यायेदित्येतप्रतिपादनार्थमिदमध्ययनमुच्यते, इत्यनेन सम्बन्धेनायातस्यास्याध्ययनस्य चत्वार्यनुयोगद्वाराणि भवन्ति, तत्रोपक्रमेऽधिकारो द्वेधा-अध्ययनार्थाधिकार उद्देशार्थाधिकारश्च, तत्राध्ययनार्थाधिकारो लेशतोऽभिहितस्तमेव नियुक्तिकारः स्पष्टतरं बिभणिषुराहनि. [२७६] जो जइया तित्थयरोसो तइया अप्पणो यतित्यम्मि।
वण्णेइ तवोकम्मं ओहाणप्पुर्यमि अन्झयणे।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org