________________
आचाराङ्ग सूत्रम् १/-/९//- [नि. २८३] स्थितिकण्डकसहेषु गतेषु सत्सु परभविकनाम्नां चरमसमये त्रिंशतो नाम प्रकृतीनां बन्धव्यवच्छेदं विद्यते, ताश्चेमाः- देवगतिस्तदानुपूर्वी पञ्चेन्द्रियजातिवैक्रि याहारकशरीरतदङ्गोपाङ्गानि तैजर्सकार्मणशरीरे चतुरस्रसंस्थानं वर्णगन्धरसस्पर्शागुरुलघूपघातपराघातोच्छ्वासप्रशस्तविहायोगतित्रसबाद रपर्यायप्तकप्रत्येकस्थिरमशुभसुभगसुस्वरादेयनिर्माणतीर्थकरनामान चेति,
ततोऽपूर्वकरणचरमसमये हास्यरतिभयजुगुप्सानां बन्धव्यवच्छेदः, हास्यादिषट्कस्य तूदयव्यवच्छेदश्च सर्वकर्म्मणामप्रशस्तोपशमनानिधत्तनिकाचनाकरणानि च व्यवच्छिद्यन्ते, तदेवमसंयतसम्यग्ध्ष्टयादिष्वपूर्वकरणान्तेषु सप्त कर्माण्युपशान्तानि लभ्यन्ते, तत ऊध्वमनिवृत्तिकरणं, स च नवमो गुणः, तत्र व्यवस्थित एकविंशतीनां मोहप्रकृतीनामन्तरं कृत्वा नपुंसकवदमुपशमयति, तदनन्तरं स्त्रीवेदं, ततो हास्यादिषट्कं पुनः पुंवेदस्य बन्धोदयव्यवच्छेदः, तत ऊर्ध्वं समयोनावलिकाद्वयेन पुंवेदोपशमः, ततः क्रोधद्वयस्य पुनः सञ्जवलनक्रोधस्यैवं मानत्रिकस्य मायात्रिकस्य च ततः सञ्जवलनलोभं सूक्ष्मखण्डानि विधत्ते, तत्करणकालचरमसमये लोभद्वयमुपशमयति, एवं चानिवृत्तिकरणान्ते सप्तविंशतिरुपशान्ता भवति, ततः सूक्ष्मखण्डान्यनुभवन् सूक्ष्मसम्परायो भवति,
तदन्ते ज्ञानान्तरायदशकदर्शनावरणचतुष्कयशः कीर्त्यच्चैर्गौत्राणां बन्धव्यवच्छेदः, तदेवमष्टाविंशतिमोहप्रकृत्युपशमे सत्युपशान्तवीतरागो भवति, स च जघन्यत एकं समयमुत्कृष्टतोऽन्तर्मुहूर्तत, तव्यतिपातश्च भवक्षयेणाद्धाक्षयेण वा स्यात्, स च यथाऽऽरूढो बन्धादिव्यच्छेदं च यथा कृतवांस्तथैव प्रतिपतन्विधत्ते, कश्चिच्च मिध्यात्वमपि गच्छेदिति, यस्तु भवक्षयेण प्रतिपतति तस्य प्रथमसमय एव सर्वकरणानि प्रवर्त्तन्ते, एकभव एव कश्चिद् वारद्वयमुपशमं विदध्यादिति ।
साम्प्रतं क्षपक श्रेणिर्व्यावर्ण्यते अस्याश्च मनुष्य एवाष्टवर्षोपरि वर्त्तमान आरम्भको भवति, सच प्रथममेव करणत्रयपूर्वकमनन्तानुबन्धिनो विसंयोजयति, ततः करणत्रयपूर्वकमेव मिथ्यात्वं तच्छेषं च सम्यग्मिथ्यात्वे प्रक्षिपन् क्षपयति, एवं सम्यग्मिध्यात्वं, नवरं तच्छेषं सम्यकत्वे प्रक्षिपति, एवं सम्यकत्वमपि तच्चरमसमये च वेदकसम्यग्दृष्टिर्भवति, तत ऊर्ध्वं क्षायिकसम्यग्धष्टिरिति एताश्च सप्तापि कर्म्मप्रकृतीरसंयतसम्यग्दृष्ट्याद्यप्रमत्तान्ताः क्षपयन्ति, बद्धायुष्कश्चात्रैवावतिष्ठते, श्रेणिकवद्, अपरस्तुकषायाष्टकं क्षपयितुं करणत्रयपूर्वकमारभते, तत्र यथाप्रवृत्तकरणमप्रमत्तस्यैव, अपूर्वकरणे तु स्थितिघातादिकं प्राग्वन्निद्राद्विकस्य देवगत्यादीनां च त्रिंशतां हास्यादिचतुष्कस्य (च) यथाक्रमं बन्धव्यवच्छेद उपशमश्रेणिक्रमेण वक्तव्यः, अनिवृत्तिकरणे तु स्त्यानर्द्धित्रिकस्य नरकतिर्यग्गतितदानुपूर्व्ये केन्द्रियादिजातिचतुष्टयातपोद्योतस्थावरसूक्ष्मसाधारणानां षोडशप्रकृतीनां क्षयः, ततः कषायाष्टकस्यापि,
३०६
अन्येषां तु मतं पूर्वं कषायाष्टकं क्षप्यते, पश्चात् षोडशेति, ततो नपुंसकवेदं, तदनन्तरं हास्यादिषट्कं, पुनः पुंवेदं, ततः क्रमेण क्रोधादीन् सञ्जवलनान् क्षपयति, लोभं च खण्डशः कृत्वा क्षपयति, तत्र बादरखण्डानि क्षपयन्ननिवृत्तिबादरः सूक्ष्मानि तु सूक्ष्मसम्पराय इति, तदन्ते च ज्ञानावरणीयादीनां षोडशप्रकृतीनां बन्धव्यवच्छेदं विधत्ते, ततः क्षीणमोहोऽन्तर्मुहूर्त्त स्थित्वा तदन्ते द्विचरमसमये निद्राद्वयं क्षपयति, अन्तसमये च ज्ञानान्तरायदशकदर्शनावरणचतुष्कं च
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org