________________
श्रुतस्कन्धः - १, अध्ययनं ८, उद्देशक - ८
२९७
ततस्तस्यैव संलेखनाकालस्य मध्येऽव्याकुलितमतिः क्षिप्रमेव भक्तपरिज्ञानादिकं शिक्षेत आसेवेत पण्डितो - बुद्धिमानिति । मू. (२४६)
गामे वा अदुवा रण्णे, थंडिलं पडिलेहिया । अप्पापाणं तु वित्राय, तणाई संथरे मुणि ॥।
वृ. संलेखना शुद्धकायश्च मरणकालं समुपस्थितं ज्ञात्वा किं कुर्यादित्याह-ग्रामः प्रतीतो, ग्रामशब्देन चात्र प्रतिश्रय उपलक्षितः, प्रतिश्रय एव स्थण्डिलं संस्तारकभुवं प्रत्युपेक्ष्य, तथा अरण्ये वेत्यनेन चोपाश्रयाद्वहरित्येतदुपलक्षितम्, उद्याने गिरिगुहायामरण्ये वा स्थण्डिलं प्रत्युपेक्ष्य विज्ञाय चाल्पप्राणं प्राणिरहितम्, ग्रामादियाचितानि प्रासुकानि दर्भादिमयानि तृणानि संस्तरेत् 'मुनिः ' यथोचितकालस्य वेत्तेति । मू. (२४७)
अनाहारो तुयट्टिज्जा, पुट्टो तत्थऽहियासए । नाइवेलं उवचरे, माणुस्सेहिं विपुट्ठवं ॥
वृ. संस्तीर्य च तृणानि यत्कुर्यात्तदाह-न विद्यते आहारोऽस्येत्यनाहारः तत्र यथाशक्ति यथासमाधानं च त्रिविधं चतुर्विधं वाऽऽहारं प्रत्याख्यायारोपितपञ्चमहाव्रतः क्षान्तःक्षामितसमस्तप्राणिगणः समसुखदुःखः आवर्जितपुण्यप्राग्भारतया मरणादविध्यत् संस्तारके त्वग्वर्त्तनं कुर्यात्, तत्र च स्पृष्टः परीषहोपसर्गैस्त्यक्तदेहता सम्यक्तानध्यासयेद्-अधिसहेत, तत्र मानुष्यैरनुकूल प्रतिकूलैः परीषहोपसर्गैः स्पृष्टथे-व्याप्तो नातिवेलमुपचरेत्-न मर्यादोल्लङ्घनं कुर्यात्, पुत्रकलत्रादिसम्बन्धान्नार्तध्यानवशगो भूयात्, प्रतिकूलैर्वा परीषहोपसर्गैर्न क्रोधनिन्घः स्यादिति एतदेव दर्शयितुमाहयू. (२४८)
संसप्पगा य जे पाणा, जे य उडूढमहाचरा । भुञ्जन्ति मंससोणियं, न छणे न पमज्जए ॥
वृ. संसर्पन्तीति संसकाः - पिपीलिकाकोष्ट्रादयो ये प्राणाः प्राणिनो ये चोध्र्वचरा - गृध्रादयो ये चाधश्चराः बिलवासित्वात्सपदियस्त एवंभूता नानाप्रकाराः 'भुञ्जन्ते' अभ्यवहरन्ति मांसं सिंहव्याघ्रादयः तथा शोणितं मशकादयः, तांश्च प्राणिन आहारार्थिनः समागतानवन्तिसुकुमारवद्धस्तादिभिर्भ क्षणुयात् न हन्यात् न च भक्ष्यमाणं शरीरावयवं रजोहरणादिना प्रमार्जयेदिति पू. (२४९) पाणा देहं विहिंसन्ति, ठाणाओ न विउब्यमे । आसवेहिं विवित्तहिं, तिप्पमाणोऽहियासए ||
बृ. किं च प्राणाः प्राणिनो देहं मम (वि) हिंसन्ति, न तु पुनर्ज्ञानदर्शनचारित्राणीत्यतस्त्यक्तदेहाशिनस्तानन्तरायभयान्न निषेधयेत्, तस्माच्च स्थानान्नप्युद्ममेत् नान्यत्रयायात्, किंभूतः सन् ? - आश्रवैः प्राणातिपातादिभिर्विषयकषायादिभिर्वा 'विविक्तैः पृथग्भूतैरविद्यमानैः शुभाध्यवसायी तैर्भक्ष्यमाणोऽप्यमृतादिना तृप्यमाण इव सम्यक्तत्कृतां वेदनां तैस्तप्यमानो वाऽध्यासयेद् - अधिसहेत । मू. (२५०)
गंथेहिं विवित्तेहिं, आउकालस्स पारए । पग्गहियतरगं चेयं, दवियस्स वियाणओ
वृ. किं च-ग्रन्यैः सबाह्याभ्यन्तरैः शरीररागादिभिः 'विविक्तैः ' त्यक्तैः सद्भिर्ग्रन्यैर्वा
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International