________________
२९६
आचाराङ्ग सूत्रम् १/-/८/८/२४१
चतुर्थी, पाठान्तरं वा 'कम्मुणाओ तिअट्टई' कर्माष्टभेदं तस्मात् त्रुटयिष्यतीति त्रुट्यति 'वर्त्तमानसामीप्ये वर्त्तमानवद्वे' त्यनेन भविष्यत्कालस्य वर्त्तमानता ।
मू. (२४२)
कसाए पयणू किच्चा, अप्पाहारे तितिक्खए । अह भिक्खू गिलाइजा, आहारस्सेव अन्तियं
वृ. सचाभ्युद्यतमरणायं संलेखनां कुर्वन् प्रधानभूतां भावसंलेखनां कुर्यादित्येतद्दर्शयितुमाहकषः-संसारस्तस्यायाः कषायाः क्रोधादयश्चत्वारस्तान् प्रतनून् कृत्वा ततो यत्किञ्चनाश्नीयात्, तदपि न प्रकाममिति दर्शयति- 'अल्पाहारः' स्तोकाशी षष्ठाष्टमादि संलेखनाक्रमायातं तपः कुर्व्वन् यत्रापि पारयेत्तत्राप्यल्पमित्यर्थः, अल्पाहारतया च क्रोधोद्भवः स्यादतस्तदुपशमो विधेय इति दर्शयति- तितिक्षते - असध्शजनादपि दुर्भाषितादि क्षमते, रोगातङ्क वा सम्यक् सहत इति, तथा च संलेखनां कुर्व्वन्नाहारस्याल्पतया 'अथे' त्यानन्तर्ये भिक्षुः' मुमुक्षुः 'लायेत्' आहारेण विना ग्लानतां व्रजेत्, क्षणे मूर्च्छन्नाहारस्यैवान्तिकं पर्यवसानं व्रजेदिति, चत्वारि विकृष्टानीत्यादि संलेखनाक्रनं विहायाशनं विदध्यादित्यर्थः, यदिवा ग्लानतामुपगतः सन्नाहारस्यान्तिकं समीपं न व्रजेत्, तथाहि आहारयामि तावत्कतिचिद्दिनानि पुनः संलेखनाशेष विधास्येऽहमित्येवं नाहारान्तिक-मियादिति मू. (२४३) जीवियं नाभिकंखिज्जा, मरणं नोवि पत्थए । दुहओऽवि न सज्जिज्जा, जीविए मरणे तहा ॥
खू. किं च-तत्र संलेखनायां व्यवस्थितः सर्वदा वा साधुर्जीवितं प्राणधारणलक्षणं नाभिकाङक्षत् नापि क्षुद्वेदनापरीषहमनधिसहमानो मरणं प्रार्थयेद् 'उभयतोऽपि जीविते मरणे वा न सङ्ग विदध्यात् जीविते मरणे तथा । किं भूतस्तर्हि स्यादित्याहमज्झत्थो निज्जरापेही, समाहिमनुपालए।
पू. (२४४)
अन्तो बहिं विऊस्सिज्ज, अज्झत्यं सुद्धमेसए ॥
वृ. रागद्वेषयोर्मध्ये तिष्ठतीति मध्यस्थः, यदिवा जीवितमरणयोर्निराकाङ्क्षतया मध्यस्थो निर्जरामपेक्षितुं शीलमस्येति निर्जरापेक्षी, स एवंभूतः समाधिं मरणसमाधिमनुपालयेत्जीवितमरणाशंसारहितः कालपर्यायेण यन्मरणमापद्यते तत् समाधिस्थोऽनुपालयेदिति भावः । अन्तः कषायान् बहिरपि शरीरोपकरणादिकं व्युत्सृज्यात्मन्यध्यध्यात्मम्-अन्तःकरणं तच्छुद्धं सकलद्वन्द्वोपरमाद्वितसिकारहितमन्वेषयेत्-प्रार्थयेदिति
मू. (२४५)
जं किंचुवक्कमं जाणे, आऊखेमस्समप्पणो । तस्सेव अन्तरद्धाए, खिप्पं सिक्खिज्ज पण्डिए ।
वृ. किंच- उपक्रमणमुपक्रमः-उपायस्तं यं कञ्चन जानीत, कस्योपक्रमः ? -- 'आयुः क्षेमस्य' आयुषः क्षेमं - सम्यक्पालनं तस्य कस्य सम्बन्धि तदायुः ? - आत्मनः, एतदुक्तं भवति - आत्मायुषो यं क्षेमप्रतिपालनोपायं जानीतं तं क्षिप्रमेव शिक्षेत्-व्यापारयेत् पण्डितो-बुद्धिमान् -
'तस्यैव' संलेखनाकालस्य अन्तरद्धाए' त्ति अन्तरकालेऽर्द्धसंलिखित एव देहे देही यदि कश्चित् वातादिक्षोभात् आतङ्क आशुजीवितापहारी स्यात् ततः समाधिमरणमभिकाङ्क्षन् तदुपशमोपायमेषणीय विधिनाऽभ्यङ्गादिकं विदध्यात्, पुनरपि संलिखेत्, यदिवाऽऽत्मनः आयुः क्षेमस्य जीवितस्य यत्किमप्युपक्रमणम् - आयुः पुद्गलानां संवर्त्तनं समुपस्थितं तज्जानीत,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
-