SearchBrowseAboutContactDonate
Page Preview
Page 298
Loading...
Download File
Download File
Page Text
________________ श्रुतस्कन्धः - १, अध्ययनं ८, उद्देशकः ७ - २९५ इत्यवि समए कायं च जोगंच इरियंच पच्चक्खाइजा, तं सच्चं सच्चावाई ओए तिने छिन्नकहंकहे आइयट्टे अणाईए चिच्चाणं भेउरं कायं संविहुणिय विरूवरूवे परीसहोवसग्गे अस्सि विस्संभणाए भैरवमणुचिन्ने तत्थवि तस्स कालपरियाए, सेवि तत्थ विअन्तिकारए, इच्छेयं विमोहाययणं हियं सुहं खमं निस्सेसं आणुगामिय- त्तिबेमि । वृ. णमिति वाक्यालङ्कारे, यस्य भिक्षोरेवंभूतो वक्ष्यमाणोऽभिप्रायो भवति, तद्यथा ग्लायामि खल्वहमित्यादि यावत्तृणानि संस्तरेत्, संस्तीर्य च तृणानि यदपरं कुर्यात्तदाह- अत्रापि समयेअवसरे न केवलमन्यत्रननुज्ञाप्य संस्तारकमारुह्यसिद्धसमक्षं स्वत एव पञ्चमहाव्रतारोपणं करोति, ततश्चतुर्विधमप्याहारं प्रत्याचष्टे, ततः पादपोपगमनाय कायं च शरीरं प्रत्याचक्षीत, तद्योगं चआकुञ्चनप्रसारणोन्मेनिषमेषादिकम्, तथेरणमीर्या तां च सूक्ष्मां कायवाग्गतां मनोगतां वाऽप्रशस्तां प्रत्याचक्षीत, तच सत्यं सत्यवादीत्यद्यनन्तरोद्देशकवन्नेयम् । इतिब्रवीमिशब्दावपि क्षुण्णार्थावित् अध्ययनं -८, उद्देशकः- ७ समाप्तः - -: अध्ययनं ८, उद्देशक:- ८ : वृ. उक्तः सप्तमोद्देशक, साम्प्रतमष्टम आरभ्यते, अस्य चायमभिसम्बन्धः - इहानन्तरोद्देशकेषु रोगादिसम्भवे कालपर्यायागतं परिज्ञेङ्गितमरणपादपोपगमनविधानमुक्तम्, इह तु तदेवानुपूर्वीविहारिणां कालपर्यायागतमुच्यते इत्यनेन सम्बन्धेनायातस्यास्योद्देशकस्यादिसूत्रमुच्यतेभू. (२४०) अनुपुव्वेण विमोहाई, जाईं धीरा समासज्ज । वसुमन्तो मइमन्तो, सव्वं नच्चा अनेलिसं ॥ वृ. आनुपूर्वी क्रमः, तद्यथा- प्रव्रज्याशिक्षासूत्रार्थग्रहणपरिनिष्ठितस्यैकाकिविहारित्वमित्यादि, यदिवा आनुपूर्वी-संलेखनाक्रमश्ञ्चत्वारि विकृष्टानीत्यादि तया आनुपर्व्या यान्यभिहितानि कानि पुनस्तानि ? - 'विमोहानि' विगतो मोहो येषु येषां वा येभ्यो वा तानि तथा भक्तपरिज्ञेङ्गितमरण-पादपोपगमनानि यान्येवंभूतानि यथाक्रममायातानि धीराः - अक्षोभ्याः समासाद्य-प्राप्य वसु-द्रव्यं संयमस्तद्वन्तो वसुमन्तः, तथा मननं मतिः- हेयोपादेयहानोपादानाध्यवसायस्तद्वन्तो मतिमन्तः, तथा 'सर्वं' कृत्यमकृत्यं च ज्ञात्वा यद्यस्य वा भक्तपरिज्ञानादिकं मरणविधानमुचितं धृतिसंहन- नाद्यपेक्षयाऽनन्यसदृशम्-अद्वितीयम्, सर्वं ज्ञात्वा समाधिमनुपालयेदिति सू. (२४१) दुविहंपि विइत्ता णं, बुद्धा धम्मस्स पारगा । अनुपुब्बीइ समाए, आरम्भाओ तिउट्टई ।। वृ. किं च द्वे विधे प्रकारावस्येति द्विविधं तपो बाह्यमभ्यन्तरं च, तद्विदित्वा - आसेव्य यदिवा मोक्षाधिकारे विमोक्तव्यं द्विविधं, तदपि बाह्यं शरीरोपकरणादि आन्तरं रागादि, तध्येयतया विदित्वा त्यक्त्वेत्यर्थः, हेयपरित्यागफलत्वात् ज्ञानस्य, 'ण' मिति वाक्यालङ्कारे, के विदित्वा ? - 'बुद्धा' अवगततत्त्वा धर्म्मस्य श्रुतचारित्राख्यस्य पारगाः सम्यग्वेत्तारः, ते बुद्धा धर्म्मस्वरूपवेदिनः 'आनुपूर्व्या' प्रव्रज्यादिक्रमेण संयममनुपाल्य मम जीवतः कश्चिद्गुणो नास्तीत्यतः शरीरमोक्षावसरः प्राप्तः तथा कस्मै भरणायालमहमित्येवं 'संख्याय' ज्ञात्वा, आरम्भणमारम्भ:शरीरधारणायान्नपानाद्यन्वेषणात्मकस्तस्मात् त्रुट्यति - अपगच्छतीत्यर्थः, सुब्व्यत्ययेन पञ्चम्यर्थे For Private & Personal Use Only www.jainelibrary.org Jain Education International
SR No.003335
Book TitleAgam Sutra Satik 01 Aachar AngSutra 01
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages468
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 01, & agam_acharang
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy