________________
२९८
आचाराङ्गसूत्रम् 9/-1८/८/२५० अङ्गानङ्गप्रविष्टात्मनं भावयन्धर्मशुक्लध्यानान्यतरोपेतः ‘आयुःकालस्य' मृत्युकालस्य पारगः' पारगामी स्यात्-यावदन्त्या उच्छ्वासनिश्वासास्तावत्तद्विदध्याद्, एतन्मरणविधानकारी सिद्धिं त्रिविष्टपं वा प्राप्नुयादिति गतं भक्तपरिज्ञामरणं।
साम्प्रतमिङ्गितमरणं श्लोकार्द्धदिनोच्यते तद्यथा-'प्रगृहीततरकं चेदं' प्रकर्षण गृहीततरं प्रगृहीततरं तदेव प्रगृहीततरकम्, 'इद'मिति वक्ष्यमाणमिङ्गितमरणम्, एतद्धि भक्तप्रत्याख्यानात्सकाशानियमेनचतुर्विधाहारप्रत्याख्यानादिङ्गितप्रदेशसंस्तारकमात्रविहाराभ्युपगमाच्च विशिष्ट तरघृतिसंहननाद्युपेतेन प्रकर्षण गृह्यत इति, कस्यैतद्भवति? -द्रव्यं-संयमः स विद्यते यस्यासी द्रविकस्तस्य 'विजानतो' गीतार्थस्य जघन्यतोऽपि नवपूर्वविशारदस्य भवति, नान्यस्येति, अत्रापिङ्गितमरणे यत्संलेखनातृणसंस्तारा दिकभिहितं तत्सर्वं वाच्यम् । मू. (२५१) अयं से अवरे धम्मे, नायपुत्तेण साहिए।
आयवजं पडीयारं, विजहिजा तिहा तिहा।। वृ.अयमपरो विधिरित्याह-'अयंस' इति सोऽयम् अपरः' अन्योभक्तप्रत्याख्यानामिन्न् इङ्गितमरणस्य धर्मोविशेषो ज्ञातपुत्रेण वीरवर्धमानस्वामिनासुश्ठ्वाहितः-उपलब्धः स्वाहितः, अस्य चानन्तरं वक्ष्यमाणत्वात्प्रत्यक्षासन्नवाचिनेदमाऽभिधानं, अत्रापी गतमरणे प्रव्रज्यादिको विधिः संलेखनाचपूर्ववद्रष्टव्या, तथोपकरणादिकं हित्वा स्थण्डिलं प्रत्युपेक्ष्यालोचितप्रतिक्रान्तः पञ्चमहाव्रतारूढश्चतुर्विधमाहारं प्रत्याख्याय संस्तारके तिष्ठति,।
____ अयमत्र विशेषः-आत्मवर्जप्रतिचारम्-अङ्गव्यापारं विशेषेण जह्यात्-त्यजेत् 'त्रिविधत्रिविधेने ति मनोवाक्कायैः कृतकारितानुमतिभिः स्वव्यापारव्यतिरेकेण परित्यजेत्, स्वयमेव चोद्वर्तनपरिवर्तनं कायिकायोगादिक विधत्ते सर्वथा प्राणिसंरक्षणं पौनःपुन्येन विधेयमिति दर्शयितुमाहम. (२५२) हरिएसुन निवजिजा, थण्डिलं मुणिया सए।
बिओसिज अनाहारो, पुट्ठो तत्थऽहियासए। वृ.हरितानि-दूर्वाङ्कुरादीनितेषुनशयीतस्थण्डिलं मत्वाशयीत तथासबाह्याभ्यन्तरमुपधिं व्युत्सृज्य-त्यकत्वाऽनाहारः सन् स्पृष्टः परीषहोपसर्गः 'तत्र' तस्मिन् संस्तारके व्यवस्थितः सन् सर्वमध्यासयेद्-अधिसहेत ॥ मू. (२५३) इन्दिएहिं गिलायन्तो, समियं आहरे मुणी।
तहावि से अगरिहे, अचले जे समाहिए। वृ. किं च - स ह्यनाहारतया मुनिग्लायमान इन्द्रियैः शमिनो भावः शमिता-समता तां साम्यवाआत्मन्याहारयेद्-व्यवस्थापयेत्नार्तध्यानोपगतो भूयादिति, यथासमाधानमास्ते, तद्यथासङ्कोचनिर्विण्णो हस्तादिकंप्रसारयेत्तेनापि निर्विण्ण उपविशेत्यथेङ्गितदेशे सञ्चरेद्वा, तथाप्यसौ स्वकृतचेष्टत्वादगहर्य एव, किंभूत इति दर्शयति
___अचलो यः समाहितः, यद्यप्यसाविङ्गितप्रदेशे स्वतः शरीरमात्रेण चलति तथाप्यभ्युद्यतमरणान्नचलतीत्यचलः सम्यगाहितं व्यवस्थापितं धर्मध्यानेशुक्लध्यानेवामनोयेनससमाहितः, भावाचलितश्चेगितप्रदेशे चङक्रमणादिकमपि कुर्यादिति।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org