________________
आचाराङ्ग सूत्रम् 9/19/9/४
स्वकीयया मत्या स्वमत्येति, तत्र भिन्नमप्यश्वादिकं स्वकीयं दृष्टमतः सहशब्दविशेषणं, सहशब्दश्चासमस्त इति, सत्यपि चात्मनः सदा मतिसन्निधाने प्रबलज्ञानावरणावृतत्वान्न सदा विशिष्टोऽवबोध इति, सा पुनः सन्मतिः स्वमतिर्वा अवधिमनःपर्यायकेवलज्ञानजातिस्मरणभेदाच्चतुर्विधाज्ञेया, तत्रावधिमनःपर्यायकेवलानांस्वरूपमन्यत्र विस्तेरणोक्तं, जातिस्मरणं त्वाभिनिबोधिकविशेषः, तदेवं चतुर्विधया मत्याऽऽत्पनः कश्चिद्विशिष्टदिग्गत्यागती जानाति, कश्चिच्च परः-तीर्थकृत्सर्वज्ञः,
तस्यैव परमार्थतः परशब्दवाच्यत्वात्परत्वं, तस्य तेन वा व्याकरणम्-उपदेशस्तेन जीवांस्तभेदांश्च-पृथिव्यादीन्तद्गत्यागतीचजानाति, अपरः पुनः ‘अन्येषां' तीर्थकरव्यतिरिक्तानामतिशयज्ञानिनामन्तिके श्रुत्वाजानातीति, यच्च जानाति तत्सूत्रावयवेनदर्शयति-तद्यथापूर्वस्या दिश आगतोऽहमस्मि, एवं दक्षिणस्याः पश्चिमायाः उत्तरस्या ऊर्ध्वदिशोऽधोदशोऽन्यतरस्या दिशोऽनुदिशो वाऽऽगतोऽहमस्मीत्येवमेकेषां विशिष्टक्षयोपशमादिमतां तीर्थकरान्यातिशयज्ञानिबोधितानां च ज्ञानं भवति, तथा प्रतिविशिष्टदिगागमनपरिज्ञानानन्तरमेषामेतदपि ज्ञानं भवतियथा अस्ति मेऽस्य शरीर कस्याधिष्ठाता ज्ञानदर्शनोपयोगलक्षण 'उपपादुको' भवान्तरसंक्रातिभाग असर्वगतो भोक्ता मूतिर हेतोऽविनाशी शरीरमात्रव्यापीत्यादिगुणवानात्मेति । स च द्रव्यकषाययोगोपयोगज्ञानदर्शनचारित्रवीर्यात्मभेदादष्टधा, तत्रोपयोगात्मना वाहुल्येनेहाधिकारः, शेषास्तुतदंशतयोपयुज्यन्त इति उपन्यस्ताः । तथा अस्ति चममात्मा, योऽमुष्या दिशोऽनुदिशश्च सकाशाद् ‘अनुसञ्चरति' गतिप्रायोग्यकर्मोपादानादनुपश्चात् सञ्चरत्यनुसञ्चरति, पाठान्तरं वा 'अणुसंसरइत्ति दिग्विदिशां गमनं भावदिगागमनं वा स्मरतीत्यर्थः । साम्प्रतंसूत्रावयवेन पूर्वसूत्रोक्तमेवार्थमुपसंहरति-सर्वस्या दिशः सर्वस्याश्चानुदिशो यआगतोऽनुसञ्चरति अनुसंस्मरतीति वासः 'अह' मित्यात्मोल्लेखः, अहंप्रत्ययग्राह्यत्वादात्मनः, अनेन पूर्वाद्याः प्रज्ञापकदिशः सर्वा गृहीताः भावदिशश्चेति । इममेवा) नियुक्तिकृद्दर्शयितुमना गाथात्रितयमाहनि. [६४] जाणइ सयं मईए अन्नेसिं वावि अन्तिए सोचा।
जाणगजणपण्णविओजीवंतह जीवकाए वा॥ नि. [६५] इत्थ य सह संमइअत्तिजं एअंतत्य जाणणा होई।
ओहीमणपश्चनाणकेवले जाइसरणे य॥ नि. [६६] परवइ वागरणं पुण जिणवागरणं जिणा परं नस्थि ।
अण्णेसिं सोचंतिय जिणेहि सव्वो परो अण्णो।। वृ. कश्चिदनादिसंसृतौ पर्यटनवध्यादिकया चतुर्विधया स्वकीयया मत्या जानाति । अनानुपूर्वीन्यायप्रकटनार्थं पश्चादुपात्तमप्यमन्येषामित्येतत्पदं तावदाचष्टे – 'अन्येषां वा' अतिशयज्ञानिनामन्तिके श्रुत्वाजानाति, तथा 'जाणगजणपण्णविओ' इत्यनेन परव्याकरणमुपात्तं, तेनायमों-ज्ञापकः-तीर्थकृत्तप्रज्ञापितश्चजानाति, यज्जानाति तत्स्वतएव दर्शयति-सामान्यतो 'जीव'मिति, अनेन चाधिकृतोद्देशकस्यार्थाधिकारमाह, तथा 'जीवकायांश्च' पृथ्वीकायादीन् इत्यनेन चोत्तरेषां षण्णामप्युद्देशकानां यथाक्रममधिकारार्थमाहेति, अत्र च ‘सह सम्मइए'त्ति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org