________________
श्रुतस्कन्धः - १, अध्ययन,उद्देशक:
॥२॥
तृपितृष्वष्टसुमनावाक्कायप्रदानचतुविधावनयकरणात्, तद्यथा-दवाना विनयंकरोति मनसा वाचा कायेन तथा देशकालोपपन्नेन दानेनेत्येवमादि । एते च विनयादेव स्वर्गापवर्गमार्गमभ्युपयन्ति, नीचैर्वृत्त्यनुत्सेकलक्षणो विनयः, सर्वत्र चैवंविधेन विनयेन देवादिषूपतिष्ठमानः स्वर्गापवर्गभाग् भवति,
उक्तंच॥१॥ “विणया नाणं नाणाओ दंसणं दंसणाहि चरणं च ।
चरणाहिंतो मोक्खो मोक्खे सोखं अणाबाहं॥" __ अत्र च क्रियावादिनामस्तित्वे सत्यपि केषाञ्चित्सर्वगतो नित्योऽनित्यः कर्ताऽकर्ता मूर्तोऽमूर्तः श्यामाकतण्डुलमात्रोऽङ्गुष्ठपर्वमात्रो दीपशिखोपमो हृदयाधिष्ठान इत्यादिकः,अस्ति चौपपातिकश्च, अक्रियावादिनां त्वात्मैव न विद्यते, कुतः पुनरौपपातिकत्वम् ?, अज्ञानिकास्तु नात्मानंप्रतिविप्रतिपद्यन्ते, किन्तुतज्ज्ञानमकिञ्चित्करमेषामिति, वैनयिकानामपिनात्माऽस्तित्वे विप्रतिपत्तिः, किन्त्वन्यन्मोक्षसाधनं विनयाप्ते न सम्भवतीति प्रतिपन्नाः । तत्रानेन सामान्यामास्तित्वप्रतिपादनेनाक्रियावादिनो निरस्ता द्रष्टव्याः, आत्मास्तित्वानभ्युपगमे च॥9॥ “शास्ता शास्त्रं शिष्यः प्रयोजनं वचनहेतुष्टिान्ताः।
सन्ति न शून्यं ब्रुवतस्तदभावाच्चाप्रमाणं स्यात् ।। प्रतिषेधृ प्रतिषेधौ स्तश्चेच्छून्यं कथं भवेत्सर्वम् ?।
तदभावेन तु सिद्धा अप्रतिषिद्धा जगत्यर्थाः ।।" एवं शेषाणामप्यत्रैव यथासम्भवं निराकरणमुद्रप्रेक्ष्यमिति ।। गतमानुषङ्गिक, प्रकृतमनुयिते - तत्रेह ‘एवमेगेसिनो नायंभवइ' इत्यनेन केषाञ्चिदेवसंज्ञानिषेधात्केषाञ्चित्तुभवतीत्युक्तं भवति, तत्र सामान्यसंज्ञायाः प्रतिप्राणि सिद्धत्वात्तत्का-रणपरिज्ञानस्य चेहाकिञ्चित्करत्वाद्विशिष्टसंज्ञायास्तु केषाञ्चिदेव भावात् तस्याश्च भवान्तरगाम्यात्म- स्पष्टप्रतिपादने सोपयोगित्वाद् सामान्यसंज्ञाकारणप्रतिपादनमनात्य विशिष्टसंज्ञायाः कारणं सूत्रकृशयितुमाह -
मू. (४) से जंपुण जाणेज्जा सह संमइयाए परवागरणेणं अन्नेसिं अंतिए वा सोचा तंजहा-पुरस्थिमाओ वा दिसाओ आगओ अहमंसि जाव अन्नयरीओ दिसाओ अनुदिसाओ वा आगओ अहमंसि, एवमेगेसिं जं नायं भवति-अस्थि मे आया उववाइए, जो इमाओ (दिसाओ) अनुदिसाओ वा अनुसंचरइ, सब्बाओ दिसाओ अनुदिसाओ, सोऽहं ।
वृ. 'से जं पुण जाणेज्जत्ति सूत्रं यावत् सोऽह'मिति “से' इति निर्देशो मागधशैल्या प्रथमैकवचनान्तः, स इत्यनेन च यः प्राग्निर्दिष्टो ज्ञाता विशिष्टक्षयोपशमादिमान्सप्रत्यवमृश्यते, यदित्यनेनापियवाग्निर्दिष्टं दिग्विदिगागमनं, तथाकोऽहमभूवमतीतजन्मनिदेवोनारकस्तिर्यग्योनो मनुष्यो वा ? स्त्री पुमान्नपुंसको वा?, को वाऽमुतो मनुष्यजन्मनः प्रभ्रष्टोऽहं प्रेत्य देवादिर्भविष्यामीत्येतत्परामृश्यते, “जानीयाद्' अवगच्छेद्, इदमुक्तं भवति-न कश्चिदनादौ संसृतौ पर्यटनसुमान् दिगागमनादिकंजानीयात्, यः पुनर्जानीयात्स एवं सह सम्मइयाए'त्ति सहशब्दः सम्बन्धवाची, सदितिप्रशंसायां, मतिः-ज्ञानम्, अयमत्रवाक्यार्थ:-आत्मना सह सदायासन्मतिर्वर्तते तया सन्मत्या कश्चिजानीते, सहशब्दविशेषणाच्च सदाऽऽत्मस्वभावत्वं मतेरावेदितं भवति, न पुनर्यथा वैशेषिकाणांव्यतिरिक्ता सती समवायवृत्त्याऽऽत्मनिसमवेतेति।यदि वा 'सम्मइए'त्ति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org