________________
२४
आचाराङ्ग सूत्रम् 91-19/१/३ निर्जरामोक्षाख्याः सप्त पदार्थाः स्वपरभेदद्वयेन तथा कालयद्दच्छानियतिस्वभावेश्वरात्मभिः षड्भिश्चिन्त्यमाना-श्चतुरशीतिविकल्पा भवन्ति, तद्यथा-नास्तिजीवः स्वतः कालतः नास्ति जीवः परतः कालत इति कालेन द्वौ लब्धी, एवं यद्दच्छानियत्यादिष्वपि द्वौ द्वौ भेदी प्रत्येकं भवतः, सर्वेऽपि जीवपदार्थे द्वादश भवन्ति, एवमजीवादिष्वपि प्रत्येकं द्वादशैते, सप्त द्वादशकाश्चतुरशीतिरिति ८४ ।अयमत्रार्थ:- नास्ति जीवः स्वतः कालत इति, इह पदार्थानां लक्षणेन सत्ता निश्चीयते कार्यतो वा ?, न चात्मन- स्तागस्ति किञ्चिल्लक्षणं येन सत्तां प्रतिपद्येमहि, नापि कार्य्यमणूनामिव महीध्राहि सम्भवति, यच्च लक्षणकार्याभ्यां नाभिगम्यते वस्तु तन्नास्त्येव, वियदिन्दीवरवत् तस्मानास्यात्मेति । द्वितीयविकल्पोऽपि यच्च स्वतो नात्मानं बिभर्ति गगनारविन्दादिकंतत्परतोऽपि नास्त्येव, अथवा सर्वपदार्थानामेव परभागादर्शनात्सर्वाग् भागसूक्ष्मत्वाचोभयानुपलब्धेः सर्वानुपलब्धितो नास्तित्वमध्यवसीयते, उक्तंच--“यावद्दृश्यं परस्तावद्भागः स च न दृश्यते' इत्यादि, तथा यद्दच्छातोऽपि नास्तित्वमात्मनः, का पुनर्यद्दच्छा ॥१॥
अनभिसन्धिपूर्वकाऽर्थप्राप्तिर्यच्छा, “अतक्कितोपस्थितमेव सर्वं, चित्रं जनानां सुखदुःखजातम् ।
काकस्य तालेन यथाऽभिधातो, न बुद्धिपूर्वोऽत्र वृथाऽभिमानः॥ ॥२॥ सत्यं पिशाचाः स्मवने वसामो, भेरिं कराग्रैरपि न स्पृशामः ।
यहच्छया सिद्धति लोकयात्रा, भेरी पिशाचाः परिताडयन्ति ।।" यथा काकतालीयमबुद्धिपूर्वकं, न काकस्य बुद्धिरस्ति-मयि तालं पतिष्यति, नापि तालस्याभिप्रायः-काकोपरि पतिष्यामि, अथचतत्तथैव भवति, एवमन्यदप्यतर्कितोपनतमजाकृपाणीयमातुरभेषजीयमन्धकण्टकीयमित्यादि द्रष्टव्यम्, एवंसर्वजातिजरामरणादिकं लोके यादृच्छिक काकतालीयादिकल्पमवसेयमिति । एवं नियतिस्वभावेश्वरात्मभिरप्यात्मा निराकत्तयः ।।
तथाऽज्ञानिकानां सप्तषष्टिर्भेदाः, ते चामी-जीवादयो नव पदार्था उत्पत्तिश्च दशमी सत् असद् सदसत् अवक्तव्यःसदवक्तव्यः असदवक्तव्यः सदसदवक्त्व्य इत्येतैः सप्तभिःप्रकारैर्विज्ञातुं न शक्यन्ते न च विज्ञातैः प्रयोजनमस्ति, भावना चेयम्-सन् जीव इति को वेत्ति ? किं वा तेन ज्ञातेन?, असन् जीव इति को जानाति? किं वा तेन ज्ञातेनेत्यादि, एवमजीवादिष्वपि प्रत्येक सप्त विकल्पाः, नव सप्तकासत्रिषष्टिः, अमी चान्ये चत्वारस्त्रिषष्टिमध्ये प्रक्षिप्यन्ते, तद्यथा-सती भावोत्पत्तिरिति कोजानाति? किं वाऽनया ज्ञातया? एवमसती सदसती अवक्तव्या भावोत्तपत्तिरिति को वेत्ति? किंवाऽनया ज्ञातयेति,शेषविकल्पत्रयमुत्पत्त्युत्तरकालंपदार्थावयवापेक्षमतोऽत्र न सम्भवतीति नोक्तम्, एतच्चतुष्टयप्रक्षेपात्सप्तषष्टिर्भवन्ति । तत्र सन् जीव इति को वेत्ति ? इत्यस्यायमर्थः-कस्यचिद्विशिष्टं ज्ञानमस्ति योऽतीन्द्रियान् जीवादीनवभोत्स्यते, न च तैतिः किञ्चित्फलमस्ति, तथाहि-यदि नित्यः सर्वगतो मूर्तो ज्ञानादिगुणोपेत एतद्गुणव्यतिरिक्तो वा? ततः कतमस्य पुरुषार्थस्य सिद्धिरिति, तस्मादज्ञानमेव श्रेयः ।अपिच-तुल्येऽप्यपराधे अकामकरणे लोके स्वल्पो दोषो, लोकोत्तरेऽपि आकुट्टिकानाभोगसहसाकारादिषु क्षुल्लकभिक्षुस्थविरोपाध्यायसूरीणां यथाक्रममुत्तरोत्तरं प्रायश्चित्तमित्येवमन्येष्वपि विकल्पेष्वायोज्यम् । तथा बैनयिकानां द्वात्रिंशभेदाः, ते चानेन विधिना भावनीयाः-सुरनृपयतिज्ञातिस्थविराधममाJain Education International
For Private & Personal Use Only
www.jainelibrary.org