________________
श्रुतस्कन्धः - १, अध्ययनं - १, उद्देशक : 9
२७
सूत्रे यत्पदं तत्र जाणणत्ति ज्ञानमुपात्तं भवति, 'मतिज्ञाने' मननं मतिरितिकृत्वा, तच्च किंभूतमिति दर्शयति- 'अवधिमनः पर्यायकेवलजातिस्मरणरूपं' मिति, तत्रावधिज्ञानी संख्येयानसंख्येयान्वा भवान् जानाति, एवं मनः पर्यायज्ञान्यपि केवली तु नियमतोऽनन्तान्, जातिस्मरणस्तु नियमतः संख्येया निति, शेषं स्पष्टम् । अत्र च सहसम्मत्यादिपरिज्ञाने सुखप्रतिपत्त्यर्थं त्रयो दृष्टान्ताः प्रदर्शयन्ते, तद्यथा
वसन्तपुरे नगरे जितशत्रू राजा, धारणी नाम महादेवी, तयोर्द्धर्म्मरुच्यभिधानः सुतः, स च राजाऽन्यदा तापसत्वेन प्रव्रजितुमिच्छुर्द्धर्मरुचिं राज्ये स्थापयितुमुद्यतः, तेन च जननी पृष्ठाकिमिति तातो राज्यश्रियं त्यजति ?, तयोक्तम्- किमनया चपलया नारकादिसकलदुःखहेतुभूतया स्वर्गापवर्गमार्गार्गलया अवश्यमपायिन्या परमार्थत इहलोकेऽप्यभिमानमात्रफलयेत्यतो विहायैनां सकलसुखसाधनं धर्मं कर्तुमुद्यतः, धर्मरुचिस्तदाकर्ण्योकतवान्-यद्येवं किमहं तातस्यानिष्टये ? येनैवंभूतां सकलदोषाश्रयिणीं मयि नियोजयति, सकलकल्याणहेतोर्द्धर्मात्प्रच्यावयतीत्यभिधाय पित्राऽनुज्ञातस्तेन सह तापसाश्रममगात्, तत्र च सकलास्तापसक्रिया यथोक्ताः पालयन्नास्ते, अन्यदाऽमावास्यायाः पूर्वाह्णे केनचित्तापसेनोद्दृष्टम् - यथा भो भोः तापसाः ! श्वोऽनाकुट्टिर्भविता, अतोऽधैव समित्कुसुमकुशकन्दफलमूलाद्याहरणं कुरुत, एतच्चाकर्ण्य धर्मरुचिना जनकः पृष्टःतात ! केयमनाकुट्टिरिति तेनोक्तम्- पुत्र ! कन्दफलादीनामच्छेदनं तद्वयमावास्यादिके विशिष्टे पर्वदिवसे न वर्त्तते, सावद्यत्वाच्छेदनादिक्रियायाः, श्रुत्वा चैतदसावचिन्तयत्-यदि सर्वदाऽनाकुट्टिः स्याच्छोभनं भवेद्, एवमध्यवसायिनस्तस्यामावास्यायां तपोवनासन्नपथेन गच्छतां साधूनां दर्शनमभूत्, ते च तेनाभिहिताः किमद्य भवतामनाकुट्टिन सञ्जाता ? येनाटवी प्रस्थिताः, तैरप्यभिहितम्-‘यथाऽस्माकं यावज्जीवमनाकुट्टि' रित्यभिधायातिक्रान्ताः साध्वः, तस्य च तदाक
हापोहविमर्शेन जातिस्मरणमुत्पन्नं यथाऽहं जन्मान्तरे प्रव्रज्यां कृत्वा देवलोकसुखमनुभूयेहागत इति, एवं तेन विशिष्टदिगागमनं स्वमत्या जातिस्मरणरूपया विज्ञातं, प्रत्येकबुद्धश्च जातः, एवमन्येऽपि वल्कलचीरिश्रेयांसप्रभृतयोऽत्र योज्या इति ।
परव्याकरणे त्विदमुदाहरणम्- गौतमस्वामिना भगवान्वर्द्धमानस्वामी पृष्टो भगवन्! किमिति मे केवलज्ञान नोत्पद्यते ?, भगवता व्याकृतं भो गौतम ! भवतोऽतीव ममोपरि स्नेहोऽस्ति, तद्वशात् तेनोक्तम्- 'भगवन्नेवमेवं, किंनिमित्तः पुनरसौ मम भगवदुपरि स्नेहः ?, ततो भगवता तस्य बहुषु भवान्तरेषु पूर्वसम्बन्धः समावेदितः 'चिरसंसिद्धोऽसि मे परिचिओऽसि मे गोयमे' त्येवमादि, तच्च तीर्थकृद्वयाकरणमाकर्ण्य गौतमस्वामिनो विशिष्टदिगागमनादिविज्ञानमभूदिति । अन्यश्रवणे त्विदमुदाहरणम्-मल्लिस्वामिना षण्णां राजपुत्राणा- मुद्वाहार्थमागतानामवधिज्ञानेन तत्प्रतिबोधनार्थं यथा जन्मान्तरे सहितैरेव प्रवज्या कृता, यथा च तत्फलं देवलोके जयन्ताभिधानविमानेऽनुभूतं तथाऽऽख्यातं तच्चाकर्ण्य ते लघुकर्म्मत्वाप्रतिबुद्धा विशिष्टदिगागमनविज्ञानं च सञ्जतं, उक्तंच
11911
'किंथ तयं पम्हु ज च तया भो ! जयंतपवरंभि । वुच्छा समयनिबद्धं देवा ! तं संभरह जातिं ॥
इति गाथात्रयतात्पय्यारथः । साम्प्रतं प्रकृतमनुयिते-यो हि सोऽहमित्यनेनाहङ्कारज्ञाने
For Private & Personal Use Only
Jain Education International
2
www.jainelibrary.org