________________
२८६
आचाराङ्ग सूत्रम् १/-/८/४/२२७
एतदध्यवसायी स्यादित्याह
मू. (२२८) जस्स णं भिक्खुस्स एवं भवइ- पुट्ठो खलु अहमंसि नालमहमंसि सीयफासं अहियासित्तए, से वसुमं सव्वसमन्त्रागयपन्नाणेणं अप्पाणेणं केइ अकरणथाए आउट्टे तवस्सिणो हु तं सेयं जमेगे विहमाइए तत्थावि तस्स कालपरियाए, सेऽवि तत्थ विअंतिकारए, इच्छेयं विमोहायतणं हियं सुहं खमं निस्सेसं आणुगामियं -त्तिबेमि
वृ. 'णम्' इति वाक्यालङ्कारे यस्य भिक्षोर्मन्दसंहननतया एवम्भूतोऽध्यवसायो भवति, तद्यथा-स्पृष्टः खल्पहमस्मि रोगातङ्गैः शीतस्पर्शादिभिर्वा स्त्रयाद्युपसर्गैर्वा, ततो ममास्मिन्नवसरे शरीरविमोक्षं कर्तु श्रेयो 'नालं' न समर्थोऽहमस्मि, 'शीतस्पर्श' शीतापादितं दुःखविशेषं भावशीतस्पर्शं वास्त्र्याद्युपसर्गम् 'अध्यासयितुम्' अधिसोदुमित्यतो भक्तपरिज्ञेङ्गितमरणपादपोपगमनमुत्सर्गतः कर्त्तुयुक्तं, न च तस्य ममास्मिन्नवसरेऽवसरो यतो मे कालक्षेपासहिष्णुरुपसर्गः समुत्थितो रोग वेदनां वा चिराय सोढुं नालमतो वेहानसं गार्द्धपृष्ठं वा आपवादिकं मरणमत्र साम्प्रतं, न पुनरुपसर्गितस्तदेवाभ्युपेयादित्याह --
'स' साधुः वसु- द्रव्यं स चात्र संयमः स विद्यते यस्यासौ वसुमान्, सर्वसमन्वागतप्रज्ञानेना त्मना कश्चिदर्द्धकटाक्षनिरीक्षणादुपसर्गसम्भवे सत्यपि तदकरणतया आसमन्ताद्वृत्तो व्यवस्थित आवृत्तो, यदिवा शीतस्पर्शंवातादिजनितं दुःखविशेषमसहिष्णुस्तच्चिकिसाया अकरणतया वसुमान् सर्वसमन्वागतप्रज्ञानेनात्मना आवृत्तो व्यवस्थित इति, स चोपसर्गितो वातादिवेदनां चासहिष्णुः किं कुर्यादित्याह - हुर्हेतौ यस्माच्चिराय वातादिवेदनां सोढुमसहिष्णुः, यदिवा यस्मात् सीमन्तनी उपसर्गयितुमुपस्थिता विषमक्षणोद्बन्धनाद्युपन्यासेनापि न मुञ्चति ततस्तपस्विनः प्रभूततरकालनानाविधोपायोपार्जिततपोधनस्य तदैव श्रेयो यदैकः कश्चिन्निजैः सपत्नीको ऽपवरके प्रवेशितः आरूढप्रणयप्रेयसीप्रार्थितस्तन्निर्गमोपायमलभमान आत्मोदवन्धनाय विहायोगमनं तदाऽ ऽ दद्याद्विषं वा भक्षयेत् पतनं वा कुर्याद् दीर्घकालं वा शीतस्पर्शादिकमसहिष्णुः सुदर्शनवत् प्राणान् जह्यात् । ननु च वेहानसादिकं बालमरणमुक्तं तच्चानर्थाय तत्कथं तस्याभ्युपगमः ?, तथा चागमः - 'इच्चेएणं बालमरणेणं मरमाणे जीवे अनंतेहिं नेरइयभवग्गहणेहिं अप्पाणं संजोएइ जाव अणाइयंच णं अणवयग्गं चाउरंतं संसारकंतारं भुज्जो भुज्जो परियट्टइत्ति, अत्रोच्यते, नैष दोषोऽत्रास्माकमार्हतानां, नैकान्ततः किञ्चिव्यतिषिद्धमभ्युपगतं वा मैथुनमेकं विहाय, अपि तुद्रव्यक्षेत्रकालभावानाश्रित्य तदेव प्रतिषिध्यते तदेव चाभ्युपगम्यते, उत्सर्गेऽप्यगुणायापवादोऽपि गुणाय कालज्ञस्य साधोरिति एतद्दर्शयितुमाह- दीर्घकालं संयमप्रतिपालनं विधाय संलेखनाविधिना कालपर्यायेण भक्तपरिज्ञादिमरणं गुणायेति, एवंविधे त्ववसरे तत्तापि वेहानसगार्द्धप्रष्ठादिमरणे अपि कालपर्याय एव, यद्वत्कालपर्यायमरणं गुणाय एवं वेहानसादिकमपीत्यर्थः, बहुनाऽपि कालपर्यायेणं यावन्मात्रं कर्मासौ क्षपयति तदसावल्पेनापि कालेन कर्म्मक्षयमवाप्नोतीति दर्शयति'सोऽपि ' वेहानसादेर्विधाता, न केवलमानुपूर्व्या भक्तपरिज्ञादेः कर्तेत्यपिशब्दार्थः, 'तत्र' तस्मिन् वेहानसादिमरणे 'विअंतिकारए' त्ति विशेषेणान्तिर्व्यन्तिः -अन्तक्रिया तस्याः कारको व्यन्तिकारकः, तस्य हि तस्मिन्नवसे सद्वेहानसादिकमौत्सर्गिकमेव मरणं, यतोऽनेनाप्यापवादिकेन मरणेनानन्ताः सिद्धाः सेत्स्यन्ति च, उपसञ्जिहीर्षुराह- 'इत्येतत्' पूर्वोक्तं वेहानसादिमरणं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org