________________
श्रुतस्कन्धः- १, अध्ययनं. ८, उद्देशक:४
२८५ एतदेव दर्शयितुमाह-नोधावेत्प्रासुकोदकेनापिनप्रक्षालयेत्, गच्छवासिनोह्यप्राप्तवर्षादी ग्लानावस्थायांवाप्रासुकोदकेनयतनयाधावनमुज्ञातं, नतुजिनकल्पिकस्येति, तथा-नधौतरक्तानि वस्त्राणिधारयेत्, पूर्वधौतानिपश्चाद्रक्तानीति, तथानामान्तरेषुगच्छन् वस्त्राण्यगोपयन्व्रजेद्, एतदुक्तं भवति-तथाभूतान्यसावन्तप्रान्तानि बिभर्ति यानि गोपनीयानि न भवन्ति, तदेवमसाववमचेलिकः, अवमं च तच्चेलं चावमचेलं प्रमाणतः परिमाणतो मूल्यतश्च, तद्यस्यास्त्यसाववमचेलिक इत्येतत्-पूर्वोक्तं 'खुः' अवधारणे, एतदेव वस्त्रधारिणः सामग्यं भवति-एषैव त्रिकल्पात्मिका द्वादशप्रकारौधिकोपध्यात्मिका वा सामग्री भवति, नापरेति ॥
शीतापगमे तान्यपि वस्त्राणि त्याज्यानीत्येतद्दर्शयितुमाह
मू. (२२५) अह पुण एवं जाणिज्जा-उवाइक्कते खलु हेमंते गिम्हे पडिवनअहापरिजुनाई वत्थाइं परिहविजा, अदुवा संतरुत्तरे अदुवा ओमचेले अदुवा एगसाडे अदुवा अचेले।
वृ. यदि तानि वस्त्राण्यपरहेमन्तस्थितिसहिष्णूनि तत उभयकालं प्रत्युपेक्षयन् बिभर्ति, यदि पुनर्जीदिश्यानिजीनीतिजानीयात् ततः परित्यजतीत्यनेन सूत्रेणदर्शयति, अथपुनरेवं जानीयाद्यथाऽपक्रान्तः खल्वयं हेमन्तोग्रीष्मःप्रतिपन्नः अपगताशीतपीडायथापरिजीर्णान्येतानि वस्त्राणि, एवमवगम्य ततः परिठापयेत् परित्यजेदिति, यदि पुनः सर्वाण्यपि न जीर्णानि ततो यद्यजीर्णं तत्तत्परिष्ठापयेत्, परिष्ठाप्य च निस्सङ्गो विहरेत्, यदि पुनरतिक्रान्तेऽपि शिशिरे क्षेत्रकालपुरुषगुणाद्मवेच्छीतं ततः किं कर्तव्यमित्याह
अपगते शीते वस्त्राणि त्याज्यानि, अथवा क्षेत्रादिगुणाद्धिमकणिनि वाते वाति सत्यात्मपरितुलनार्थं शीतपरीक्षार्थं च सान्तरोत्तरो भवेत्-सान्तरमुत्तरं-प्रावरणीयं यस्य स तथा, क्वचियावृणोतिक्वचित्पाववर्त्ति बिभर्ति, शीताशङ्कया नाद्यापिपरित्यजति, अथवाऽवमचेल एककल्पपरित्यागात् द्विकल्पधारीत्यर्थः, अथवा शनैः शनैः शीतेऽपगच्छति सति द्वितीयमपि कल्पं परित्यजेत्ततएकशाटकः संवृतः,अथवाऽऽत्यन्तिकेशीताभावेतदपिपरित्यजेदतोऽचेलो भवति, असौ मुखवस्त्रिकारजोहरणमात्रोपधिः । किमर्थसावकैकं वस्त्र परित्यजेदित्याह
म. (२२६)लाघवियं आगममाणे, तवे से अभिसमन्नागए भवइ
दृ. लघो वो लाघवं लाघवं विद्यते यस्यासौलाघविक(स्त)मात्मानमागमयन्-आपादयन् वस्त्रपरित्यागं कुर्यात्, शरीररोपकरणकर्मणि वा लाघवमागमयन् वस्त्रपरित्यागं कुर्यादिति । तस्य चैवम्भूतस्य किं स्यादित्याह-'से' तस्य वस्त्रपरित्यागं कुर्वतः साधोस्तपो।ऽभिसमन्वागतं भवति, कायक्लेशस्य तपोभेदत्वात्, उक्तंच-"पंचहिं ठाणेहि समणाणं निग्गंथाणं अचेलगत्ते पसत्थे भवति, तंजहा–अप्पा पडिलेहा १ वेसासिए रूवे २ तवे अणुमए ३ लाघवे पसत्थे ४ विउले इंदियनिग्गहे ५" ॥एतच्च भगवताप्रवेदितमिति दयितुमाह
मू. (२२७) जमेयं भगवया पवेइयं तमेव अभिसमिचा सव्वओ सव्वत्ताए सम्मत्तमेव समभिजाणिज्जा।
१.यदेतद्भगवता-वीरवर्द्धमानस्वामिना प्रवेदितंतदेवाभिसमेत्य-ज्ञात्वा सर्वतः सर्वैः प्रकारैः सर्वात्मतया सम्यकत्वमेव समत्वं वा-सचेलाचेलावस्थयोस्तुल्यतां समभिजानीयात्' आसेवनापरिज्ञया आसेवेतेति ॥ यः पुनरल्पसत्त्वतया भगवदुपदिष्टं नैव सम्यग् जानीयात्स
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org