________________
२८०
आचाराङ्ग सूत्रम् १/-1८/२/२१६ च प्ररूपयेत्, यथाशक्तितो धर्मकथां च कुर्यात्, तद्यथा॥१॥ "काले देशे कल्प्यं श्रद्धायुक्तेन शुद्धमनसा च ।
सत्कृत्य च दातव्यं दानं प्रयतात्मना सम्यः ॥" (तथा) - ॥२॥ "दानं सत्पुरुषेषु स्वल्पमपि गुणाधिकेषु विनयेन ।
वटकणिकेव महान्तं न्यग्रोधं सत्फलं कुरुते॥ ॥३॥ दुःखसमुद्रं प्राज्ञास्तरन्ति पात्रार्पितेन दानेन।
लघुनेव मकरनिलयं वणिजः सद्यानपात्रेण ॥" इत्यादि, इतिरधिकारपरिसमाप्ती, ब्रवीमीत्येतत्पूर्वोक्तं वक्ष्यमाणं चेत्याह --
मू. (२१७) भिक्खं च खलु पुट्ठा वा अपुट्ठा वा जे इमे आहच्च गंथा वा फुसंति, से हंता हणह खणह छिंदह दहह परयह आलुपह विलुपह सहसाकारेह विप्परामुसह, ते फासे धीरो पुट्ठो अहियासए अदुवा आयारगोयरमाइक्खे, तकियानमणेलिसंअदुवावइगुत्तीएगोयरस्स अनुपुवेण संमं पडिलेहणं आयतगुत्ते बुद्धेहिं एयं एवेइयं।
वृ.'चः' समुच्चये 'खलुः' वाक्यालङ्कारे भिक्षणशीलो भिक्षुस्तं भिक्षु पृष्टवा कश्चिद्यथा भो भिक्षो ! भवदर्थमशनादिकमावसथं वा संस्करिष्येऽननुज्ञातोऽपि तेनासौ तत्करोत्यवश्यमयं चाटुभिर्बलात्कारेण वा ग्राहयिष्यते, अपरस्त्वीषत्साध्वाचारविधिज्ञोऽतोऽपृष्टैव छद्मना ग्राहयिष्यामीत्याभिसन्धायाशनादिकं विदध्यात्, सचतदपरिभोगेश्रद्धाभङ्गाच्चाटुशताग्र-हणाच रोषावेशानिःसुखदुःखतयाऽलोकज्ञाइत्यनुशयाच्च राजानुसृष्टतयाचन्यकारभावनातःप्रद्वेषमुपगतो हननादिकमपि कुर्यादिति दर्शयति-एकाधिकारे बहतिदेशाद्य इमे प्रश्नपूर्वक- मप्रश्नपूर्वकं वा आहारादिकं 'ग्रन्थात् महतो द्रव्यव्ययाद् ‘आहृत्य दौकित्वाआहृतग्रन्थावा-व्ययीकृतद्रव्याचा तदपरिभोगे 'स्पृशन्ति' उपतापयन्ति, कथमिति चेद्दर्शयति
___ 'स' ईश्वरादिः प्रद्विष्टः सन् हन्ता स्वतोऽपरांश्च हननादौ चोदयति, तद्यथा-हतैनं साधु दण्डाभि-क्षणुत'व्यापादयत छिन्नहस्तपादादिकं दहत अग्न्यादिना पचत उरुमांसादिकं लुम्पत वस्त्रादिकं विलुम्पत सर्वस्वाः पहारेण सहसात्कारयत-आशुपञ्चत्वं नयत तथा विविधंपरामृशतनानीपीडाकरणैधियत, तांश्चैवम्भूतान् ‘स्पर्शान्' दुःखविशेषान् ‘धीरः' अक्षोभ्यः तैः स्पर्शः स्पृष्टः सन्नधिसहेत, तथापरैः क्षुत्पिपासापरीषहैः स्पृष्टः सन्नधिसहेत, नतुपुनरुपसर्गःपरीषहैर्वा तर्जितो विक्लवतामापनस्तदुद्देशिकादिकमभ्युपेयादनुकूलैर्वासान्त्ववादादिभिरुपसर्गितो नादद्याद्, अपितु सति सामर्थ्य जिनकल्पिकादन्यः आचारगोचरमाचक्षीतेत्याह-नानाविधोपसर्गजनितान् स्पर्शानधिसहेत, अथवासाधूनामाचारगोचरम्-आचारानुष्टानविषयंमूलोत्तरगुणभेदभिन्नमाचक्षीत, न पुनर्नयैर्द्रव्यविचारं, तत्रापि मूलगुणस्थैर्यार्थमुत्तरगुणान् तत्रापि पिण्डैषणाविशुद्धिमाचक्षीत, अत्र च पिण्डैषणासूत्राणि पठितव्यानि, अपि च॥१॥ “यत्स्वयमदुःखितं स्यान्न च परदुःखे निमित्तभूतमपि ।
केवलमुपगर्हकरं धर्मकृते तद्भवेद्देयम् ॥" .. किं सर्वस्य सर्वंकथयेत् ?, नेति दर्शयति- 'तर्कयित्वा' पर्यालोच्य पुरुषं, तद्यथा--कोऽयं पुरुषःकञ्चनतोऽभिगृहीतोऽनभिगृहीतोमध्यस्थप्रकृतिभद्रको वेत्येवमुपयुज्य यथार्ह यथाशक्ति
www.jainelibrary.org
Jain Education International
For Private & Personal Use Only