________________
श्रुतस्कन्धः - १, अध्ययनं- ८, उद्देशक:२
२७९ अशनाद्यारम्भे प्राण्युपमर्दोऽवश्यंभावी, एतच्च समस्तं व्यस्तं वा कशअचिप्रतिपद्येत, इयं चाविशुद्धिकोटिर्गृहीता, साचेमा - ॥१॥ “आहाकम्मुद्देसिअमीसज्जा बायरा य पाहुडिआ।
पूइअ अज्झोयरगो उग्गमकोडी अछडभेआ।" विशुद्धिकोटिंदर्शयति- 'क्रीत' मूल्येन गृहीतं पामचिंतिअपरस्मादुच्छिन्नमुद्यतकंगृहीतं, बलात्कारितया वाऽन्यस्मादाच्छिद्य राजोपसृष्टो वाऽन्येभ्यो गृहिभ्यः साधोर्दास्यामीत्याच्छिन्द्यात्, तथा अनिसृष्टं परकीयं यत्तदन्तिके तिष्ठतिनच परेण तस्य निसृष्टं-दत्तं तदनिसृष्टं, तदेवंभूतमपि साधोर्दानाय प्रतिपद्यते, तथा स्वगृहादाहृत्य 'चेएमि'त्ति ददामि तुभ्यं वितरामि, एवमशनादिकमुद्दिश्य ब्रूयात्, तथा 'आवसथं वा' युष्मदाश्रयं समुच्छृणोमि-आदेरारभ्यापूर्वं करोमि संस्कारंवा करोमीत्येवंप्राञ्जलिरवनतोत्तमाङ्गः सन् अशनादिना निमन्त्रयेत्, यथा-भुशवाशनादिकं मत्संस्कृतावसथेवसेत्यादि, द्विवचनबहुवचनेअप्यायोज्ये।साधुनातुसूत्रार्थविशारदेनादीनमनस्केन प्रतिषेधितव्यमित्याह
आयुष्मन् ! श्रमण ! भिक्षो ! तं गृहपतिं समनसं सवयसमन्यथाभूतं वा प्रत्याचक्षीत, कथमितिचेद्दर्शयति-यथा आयुष्यमन! भोगृहपते! नखलु तवैवंभूतंवचनमहमाद्रिये खलुशब्दोऽ. पिशब्दार्थे, सचसमुच्चये, नापितवैतद्वचनं परिजानामि' आसेवनपरिज्ञानेन परिविदधेऽहमित्यर्थः, यस्त्वं मम कृतेऽशनादि प्राण्युपमर्दैन विदधासि यावदावसथसमुच्छ्रयं विदधासि, भो आयुष्मन् गृहपते ! विरतोऽहमेवम्भूतादनुष्ठानात्, कथम् ?- एतस्य-भवदुपन्यस्तस्याकरणतयेत्यतो भवदीयमभ्युपगमं न जाने।ऽहमिति ।। तदेवं प्रसह्याशनादिसंस्कारप्रतिषेधः प्रतिपादितो, यदि पुनः कश्चिद्विदितसाध्वभिप्रायः प्रच्छन्नमेव विदध्यात्तदपि कुतश्चिदुपलभ्य प्रतिषेधयेदित्याह -
मू. (२१६) से भिक्खुं परिक्कमिज वा जाव हुरत्या वा कहिंचि विहरमाणं तं भिक्खुं उवसंकमित्तु गाहावईआयगयाए पेहाए असणं वा ४ वत्थं वा ४ जाव आहट्टचेएइ आवसहं वा समुस्सिणाइ भिक्खू परिघासेठ, तं च भिक्खू जाणिज्जा सहसम्मइयाए परवागरणेणं अन्नेसिं वा सुच्चा-अयंखलु गाहावई मम अट्ठाए असणं वा ४ वत्थं वा ४ जावआवसहं वा समुस्सिणाइ, तंच भिक्खू पडिलेहाए आगमित्ता आणविजा अणासेवणाए -त्तिबेभि ।।
वृ. तं भिक्षु क्वचित् श्मशानादौ विहरन्तमुपसङ्क्रम्य प्राञ्जलिर्वन्दित्वा गृहपतिः प्रकृतिभद्रकादिकः कश्चिदात्मगतया प्रेक्षयाऽनाविष्कृताभिप्रायः केनचिदलक्ष्यमाणो यथाऽहमस्य दास्यामीत्यशनादिकंप्राण्युपमर्दैनारभेत, किमर्थमितिचेद्दर्शयति-तदशनादिकं भिक्षु परिघासयितुं भोजयितुं, साधुभोजनार्थमित्यर्थः,आवसथंच साधुभिरधिवासयितुमिति, तदशनादिकं साध्धर्थ निष्पादितं भिक्षुः 'जानीयात्' परिच्छिन्द्यात, कथमित्याह-स्वसन्मत्या परव्याकरणेन वा तीर्थकरोपदिष्टोपायेन वाअन्येभ्यो वा तत्परिजनादिभ्यः श्रुत्वाजानीयादिति वर्तते, यथाऽयंखलु गृहपतिर्मदर्थमशनादिकं प्राण्युपमर्दैन विधाय मह्यं ददात्यावसथंच समुच्छृणोति, तद्भिक्षुः सम्यक् 'प्रत्युपेक्ष्य' पर्यालोच्यावगम्य च ज्ञात्वा 'ज्ञापयेत्' तं गृहपतिमनासेवनया यथाऽनेन विधानेनोपकल्पितमाहारादिकं नाहं भुझे एवं तस्य ज्ञापनं कुर्याद्, यद्यसौ श्रावकस्ततो लेशतः पिण्डनियुक्ति कथयेद्, अन्यस्य च प्रकृतिभद्रकस्योद्गमादिदोषानविर्भावयेत् प्रासुकदानफलं Jain Education International
For Private & Personal Use Only
www.jainelibrary.org