SearchBrowseAboutContactDonate
Page Preview
Page 284
Loading...
Download File
Download File
Page Text
________________ श्रुतस्कन्धः-१, अध्ययनं-८, उद्देशक:३ २८१ चावेदयेत, सत्यांच शक्तौ पञ्चावयवेनान्यथा वा वाक्येनानीदशम्-अनन्यसदृशंस्वपरक्षस्थापनाव्युदासद्वारेणावेदयेदिति, अथसामर्थ्य विकलः स्यात्कुप्यतिवा कथ्यमानेऽसावनुकूलप्रत्यनीकस्ततो वाग्गुप्तिर्विधेयेत्याह-सति सामर्थ्य शृण्वति वा दातरि आचारगोचरमाचक्षीत, 'अथवे'त्यन्यथाभावेतुवाग्गुप्तयाव्यवस्थितः सन्नात्महितमाचरन् गोचरस्य पिण्डविशुद्धयादेराचारगोचरस्य 'आनुपूर्व्या' उद्गमप्रश्नादिरूपया सम्यगशुद्धिं प्रत्युपेक्षेत, किम्भूतः ?-आत्मगुप्तः सन्, सततोपयुक्त इत्यर्थः, नैतन्मयोच्यत इत्याह - 'बुद्धैः कल्प्याकल्प्य विधिज्ञैः ‘एतत् पूर्वोक्तं प्रवेदितम् ।। एतद्वा वक्ष्यमाणमित्याह - ___ मू. (२१८) से समणुने असमणुनस्स असमणं वाजाव नो पाइजा नोनिमंतिजा नो कुज्जा वेयावडियं परं आढायमाणे तिबेभि। वृ. न केवलं गृहस्थेभ्यः कुशीलेभ्यो वाअकल्प्यमितिकृत्वाऽऽहारादिकंन गृह्णीयात्, स समनोज्ञोऽसमनोज्ञाय तत् पूर्वोक्तमशनादिकं न प्रदद्यात्, नापि परम्-अत्यर्थमाद्रियमाणोऽशनादिनिमन्त्रणतोऽन्यथा वा तेषां वैयावृत्त्यं कुर्यादिति, ब्रवीमीतिशब्दावधिकारपरिसमाप्त्यर्थो। किम्भूतस्तर्हि किम्भूताय दद्यादित्याह - मू. (२१९) धम्ममायाणह पवेइयंमाहणेण मइमया समणुन्ने समणुनस्स असणंवा जाव कुज्जा वेयावडियं परं आढायमाणे।-तिबेमि। वृ. 'धर्मं दानधर्मंजानीत यूयं प्रवेदितं कथितं, केन?-श्रीवर्द्धमानस्वामिना, किम्मूतेन 'मतिमता' केवलिना, किम्भूतं धर्ममिति दर्शयति-यथा समनोज्ञ;-साधुरुधक्तविहारीअपरस्मैसमनोज्ञाय चारित्रवते संविग्नाय साम्भोगिकायैकसामाचारीप्रविष्टायाशनादिकं चतुर्विधं तथा वस्त्रादिकमपि चतुर्द्धा प्रदद्यात्' प्रयच्छेत्, तथा तदर्थंच निमन्त्रयेत्, पेशलमन्यद्वा वैयावृत्त्यम्अङ्गमर्दनादिकंकुर्यात्, नैतद्विपर्यस्तेभ्यो गृहस्थेभ्यःकुतीर्थिकेभ्यः पार्श्वस्थादिभ्योऽसंविग्नेभ्योऽसमनोज्ञेभ्यो वेत्येतत्पूर्वोक्तं कुर्यादिति, - किन्तुसमनोज्ञेभ्य एव परम्-अत्यर्थमाद्रियमाणस्तदर्थसीदने परमुत्तप्यमानःसम्यग्वैयावृत्त्यं कुर्यात्, तदेवंगृहस्थादयः कुशीलादयस्त्याज्या इतिदर्शितम्, अयंतुविशेषो-गृहस्थेभ्योयावल्लभ्यते तावद्गृह्यते, केवलमकल्पनीयं प्रतिषिध्यते, असमनोज्ञेभ्यस्तु दानग्रहणं प्रति सर्वनिषेध इति। इति ब्रवीमिशब्दौ पूर्ववद्। अध्ययन-८ - उद्देशक-२ - समाप्त : अध्ययन-८-उद्देशकः३:वृ.उक्तोद्वितीयोद्देशकः, साम्प्रतंतृतायआरभ्यते, अस्यचायमभिसम्बन्ध;-इहानन्तरोदेशकेऽकल्पनीयाहारादिप्रतिषेधोऽभिहितस्तत्प्रतिषेधकुपितस्यदातुर्यथावस्थितपिण्डदानप्ररूपणा च, तदिहाप्याहारादिनिमित्तं प्रविष्टेन शीताधहोत्वकम्पदर्शनान्यथाभाववतो गृहपतेर्यथावस्थितपदार्थावेदनतो गीतार्थेन साधुनाऽसदारेकाऽपनेयेत्यनेन सम्बन्धनायातस्यास्योद्देशकस्यसूत्रानुगमे सूत्रमुच्चारयितव्यं, तच्छेदम् - Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003335
Book TitleAgam Sutra Satik 01 Aachar AngSutra 01
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages468
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 01, & agam_acharang
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy