________________
२७६
आचारागसूत्रम् 9/10/9/२१२
प्रागेवाभावः सर्वगतत्वं वालोकस्यस्यादिति, अथवा लोकोऽस्ति, नचलोको भवति, लोकोऽपि नामास्ति, नच लोकोऽलोकाभाव इत्येवं स्याद्, अनिष्टं चैतत्, किंच
अस्तेव्यापकत्वे लोकस्य घटपटादेरपिलोकत्वप्राप्तिः, व्याप्यस्य व्यापकसद्भावनान्तरीयकत्वात्, किं च-अस्ति लोकः इत्येषापि प्रतिज्ञा लोक इतिकृत्वा हेतोरप्यस्तित्वात्, प्रतिज्ञाहेत्वोरेकत्वावाप्तिः, तदेकत्वे हेत्वभावः, तदभावे कि केन सिद्धयतीति?, उतास्तित्वादन्यो लोकइत्येवंचप्रतिज्ञाहानिः स्यात, तदेवमेकान्तेनैवलोकास्तित्वेऽम्युपगम्यमानेहेत्वभावःप्रदर्शितः, एवं नास्तित्वप्रतिज्ञायामपि वाच्यं, तथाहि-नास्ति लोक इति ब्रुवन, वाच्यः-किं भवानस्तुयुत नेति?, यद्यस्ति किंलोकान्तर्वर्ती न वेति, यदि लोकान्तर्गतः कथं नास्ति लोक इति ब्रवीषि?,
अथ बहिर्भूतस्ततः स्वरविषाणवदसद्भूत एवेति कस्य मयोत्तरं दातव्यम्, इत्यनया दिशैकान्तवादिनःस्वयमभ्यूह्यप्रतिक्षेप्तव्याइति, एव' मिति यथाऽस्तित्वनास्तित्ववादस्तेषामाकस्मिको नियुक्तिकः,एवंध्रुवाध्रुवादयोऽपिवादा नियुक्तिकःएवेति, अस्माकंतुस्याद्वादवादिनां कथञ्चिदभ्युपगमात्र यथोक्तदोषानुषङ्गो, यतःस्वपरसत्ताव्युपदासोपादानापाद्यं हिवस्तुनोवस्तुत्वम्, अतः स्वद्रव्यक्षेत्रकालस्वभावतोऽस्ति परद्रव्यादिचतुष्टयानास्तीति, उक्तंच॥१॥ “सदेव सर्वंको नेच्छेत्, स्वरूपादिचतुष्टयात् ?!
असदेव विपर्यासान चेन्न व्यवतिष्ठते॥" इत्यादि, अलमतिप्रसङ्गेनाक्षरगमनिकार्थत्वात्प्रयासस्य,एवंध्रुवाध्रुवादिष्वपिपञ्चावयवन दशावयवेनवाऽन्यथा वैकान्तपक्षं विक्षिप्य स्याद्वादपक्षोऽभ्यूह्यायोज्य इति। साम्प्रतमुपसंहरति - “एवं उक्तनीत्यातेषामेकान्तवादिनांनस्वाख्यातोधर्मोभवति, नापिशास्त्रप्रणयनेन सुप्रज्ञापितो भवति ।। किं स्वमनीषिकिया भवतेदमभिधीयते?, नेत्याह-यदिवा किम्भूतस्तर्हि सुप्रज्ञापितो धर्मो भवतीत्याह -
मू. (२१३) सेजहेयं भगवया पवेइयंआसुपनेणजाणया पासयाअदुवा गुत्तीवओगोयरस्स त्तिबेमि सव्वत्य संमयं पावं, तमेव उवाइक्वम्म एस महं विवेगे वियाहिए, गामे वा अदुवा रणे नेव गामे नेव रण्णे धम्ममायाणह पवेइयं माहणेण मइमया, जामा तिन्नि उदाहिया जेसु इमे आयरिया संबुज्झमाणा समुट्ठिया, जे निव्वुया पावेहि कम्मेहिं अनियाणाते वियाहिया।
इ. तद्यथा 'इदं स्याद्वादरूपं वस्तुनो लक्षणं समस्तव्यवहारानुयायि कचिदप्यप्रतिहतं 'भगवता' श्रीवर्द्धमानस्वामिनाप्रवेदितम्, एतद्वाऽनन्तरोक्तं भगवताप्रवेदितमिति, किम्भूतेनेति दर्शयति-आशुप्रज्ञेन, निरावरणत्वात्, सततोपयुक्तेनेत्यर्थः, किं योगपद्येन ?, नेति दर्शयति'जानता' ज्ञानोपयुक्तेन, तथा पश्यता' दर्शनोपयुक्तेनैतप्रवेदितं, यथा नैषामेकान्तवादिनां धर्मः स्वाख्यातो भवति, अथवा गुप्तिर्वाग्गोचरस्य-भाषासमितिः कार्येत्येतप्रवेदितं भगवता, यदिवा अस्तिनास्तिध्रुवाध्रुवादिवादिनांवादायोस्थितानांत्रयाणांत्रिषष्टयधिकानांप्रावादुकशतानां वादलब्धिमतांप्रतिज्ञाहेतुदृष्टान्तोपन्यासद्वारेण तदुपन्यस्तदूषणोपन्यासेनचतत्पराजयापादनतः सम्यगुत्तरं देयम्, अथवा गुप्तिर्वाग्गोचरस्य विधेयेत्येतदहं ब्रवीमि, वक्ष्यमाणं चेत्याह--
तान् वादिनो वादायोत्थितानेवं ब्रूयाद्-यथा भवतां सर्वेषामपि पृथिव्यप्तेजोवायुवनस्पत्यारम्भः कृतकारितानुमतिभिरनुज्ञातोऽतः सर्वत्र सम्मतम्' अभिप्रेतमप्रतिषिद्धं पापं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org