SearchBrowseAboutContactDonate
Page Preview
Page 278
Loading...
Download File
Download File
Page Text
________________ श्रुतस्कन्धः - १, अध्ययन - ८, उद्देशकः १ 11911 "द्वावेव पुरुषौ लोके, क्षरश्चाक्षर एव च । क्षरः सर्वाणि भूतानि कूटस्थोऽक्षर उच्यते ॥" इत्यादि, तदेवं परमार्थमजानाना अस्तीत्याद्यभ्युपगमेन लोकं विवदमानाः नानाभूता वाचो नियुञ्जन्ति, तथाऽऽत्मानमपि प्रति विवदन्ते, तद्यथा - सुष्ठु कृतं सुकृतमिति वा दुष्कृतमिति वेत्येवं क्रियावादिनः संप्रतिपद्यन्ते, तथा सुष्ठु कृतं यत् सर्वसङ्गपरित्यागतो महाव्रतमग्राहि, तथाऽपरे दुष्कृतं भवता यदसौ मुग्धमृगलोचना पुत्रमनुत्पाद्येोज्झितेति, तथा य एव कश्चित्प्रवज्योद्यतः कल्याण इत्येवमभिहितः स एवापरेण पाखण्डिकविप्रलब्धः क्लीबोऽयं गृहाश्रमपालनासमर्थोऽनपत्यः पाप इत्येवमभिधीयते, तथा साधुरिति वा असाधुरिति वा स्वमतिविकल्पितरुचिभिरभिधीयते, तथा सिद्धिरिति वा असिद्धिरिति वानरकइति वा अनरक इति वा, एवमन्यदप्याश्रित्य स्वाग्रहग्रहिणो विवदन्तइति दर्शयति, 'यदिदं विप्रतिपन्ना' यत्पूर्वोक्तं लोकादिकं तदिदमाश्रित्य विविधं प्रतिपन्ना विप्रतिपन्नाः, तथा चोक्तम् - 119 It “इच्छंति कृत्रिमं सृष्टिवादिनः सर्वमेव मितिलिङ्गम् । कृत्स्नं लोकं माहेश्वरादयः सादिपर्यन्तम् ॥ नारीश्वरजं केचित् केचित्सोमाग्निसम्भवंलोकम् । द्रव्यादिषड्विकल्पं जगदेतत्केचिदिच्छन्ति ॥ ईश्वरप्रेरितं केचित्केचिद्वह्मकृतं जगत् । अव्यक्तप्रभवं सर्वं विश्वमिच्छन्ति कापिलाः ।। याधैच्छिकमिदं सर्वं, केचिद्भूतविकारजम् । केचिच्चानेकरूपं तु, बहुधा संप्रधाविताः ॥" इत्यादि, तदेवमनवगाहितस्याद्वादोदन्वतामेकांशावलम्बिनां मतिभेदाः प्रादुष्यन्ति, तदुक्तम्"लोकोक्रियाऽऽत्मतत्त्वे विवदन्ते वादिनो विभिन्नार्थम् । अविदितपूर्वं येषां स्याद्वादविनिश्चितं तत्त्वम् ॥" येषां तु पुनः स्याद्वादमतं निश्चितं तेषामस्तित्वनास्तित्वादेरर्थस्य नयाभिप्रायेण कथञ्चिदाश्रयणात् विवादाभाव एवेति, अत्र च बहु वक्तव्यं तत्तु नोच्यते, ग्रन्थविस्तरभयाद्, अन्यत्र च सूत्रकृतादौ विस्तरेण सुविहितत्वादिति । तेच विवदन्तः परस्परतो विप्रतिपन्नाः 'मामकम् ' इत्यात्मीयं धर्म्म प्रज्ञापयन्तः स्वतो नष्टाः परानपि नाशयन्ति, तथाहि - केचित्सुखेन धर्म्ममिच्छन्ति अपरे दुःखेनान्ये स्नानादिनेति, तथा मामक एवैको धम्र्म्मो मोक्षायानिर्वाच्यश्च नापर इत्येवं वदन्तोऽपुष्टधर्माणोऽविदितपरमार्थान् प्रतारयन्ति तेषामुत्तरं दर्शयति - 'अत्रापि' अस्ति लोको नास्ति वेत्यादी जानीत यूयम् 'अकस्मादि' ति मागधदेशे आगोपालाङ्गनादिना संस्कृतस्यैवोच्चारणादिहापि तथैवोच्चारित इति, कस्मादिति हेतुर्न कस्मादकस्माद् हेतोरभावादित्यर्थः, तत्रास्ति लोक इत्युक्तेऽत्राप्येवं जानीत या न भवत्येवमकस्माद्, हेतोरभावादिति, तथाहि यद्येकान्तेनैव लोकोऽस्ति ततोऽस्तिना सह समानाधिकरण्याद्यदस्ति तल्लोकः स्याद् एवं च तव्प्रतिपक्षोऽप्यलोकोऽस्तीतिकृत्वा लोक एव लोक: स्याद्, व्याप्यसद्भावे व्यापकस्यापि सद्भावादलोकाभावः, तदभावेच तव्प्रतिपक्षभूतस्य सोकस्य Jain Education International For Private & Personal Use Only www.jainelibrary.org ॥२॥ ॥३॥ ॥४॥ २७५ 11911
SR No.003335
Book TitleAgam Sutra Satik 01 Aachar AngSutra 01
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages468
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 01, & agam_acharang
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy