SearchBrowseAboutContactDonate
Page Preview
Page 280
Loading...
Download File
Download File
Page Text
________________ श्रुतस्कन्धः-१, अध्ययनं-८, उद्देशक: २७७ पापानुष्ठानं, ममतुनैतत्सम्मतमित्येतद्दर्शयितुमाह- तदेव एतत्पापानुष्ठानमुप-सामीप्येनातिक्रम्यअतिलध्ययतोऽहंव्यवस्थितोऽतएषमम विवेको व्याख्यातः, तत्कथमहंसर्वाप्रतिषिद्धवदारैः संभाषणमपि करिष्ये?, आस्ता तावद्वाद इत्येवमसमनुज्ञविवेकं करोतीति, अत्राह चोदकःकथं तीर्थिकाः सम्मतपापा अज्ञानिनो मिथ्यादृष्टयोऽचरित्रिणोऽतपस्विनो वेति?, -तथाहि-तेऽप्यकृष्टभूमिवनवासिनोमूलकन्दाहारावृक्षादिनिवासिनश्चेति, अत्राहाचार्य:नारण्यवासादिना धर्मः, अपि तु जीवाजीवपरिज्ञानात् तत्पूर्वकानुष्ठानाच्च, तच्च तेषां नास्तीत्यतोऽसमनोज्ञास्तेइति।किंच सदसद्विवेकिनोहिधर्मः,सचग्रामेवास्यात् अथवाऽरण्ये, नैवाधारो ग्रामोनैवारण्यं धर्मनिमित्तं, यतोभगवतान वसिममितरद्वाऽऽश्रित्य धर्मःप्रवेदितः, अपि तु जीवादित्तत्त्वपरिज्ञानात् सम्यगनुष्ठानाच्च, अतस्तं धर्ममाजानीत 'प्रवेदितं' कथितं 'माहणेणत्ति भगवता, किम्भूतेन ?___- मतिमता' मननं-सर्वपदार्थपरिज्ञानं मतिस्तद्वता मतिमता केवलिनेत्यर्थः । किंभूतो धर्मः प्रवेदित इत्याह – 'यामा' व्रतविशेषाः त्रय उदाहृताः, तद्यथा-प्राणातिपातो मृषावादः परिग्रहश्चेति, अदत्तादानमैथुनयोः परिग्रह एवान्तर्भावात् त्रयग्रहणं, यदिवायामा-वयोविशेषाः, तद्यथा-अष्टवर्षादात्रिंशतः प्रथमस्तत उर्द्धवमाषष्टेः द्वितीयस्तत उर्द्धवं तृतीय इति अतिबालवृद्धयोगुंदासो, यदिवायम्यते-उपरम्यते संसारभ्रमणादेभिरिति यामाः-ज्ञानदर्शनचारित्राणीति ते उदाहता' व्याख्याताः, यदि नामैव ततः किमित्याह येषु अवस्थाविशेषेषु ज्ञानादिषु वाइमे देशार्याअपाकृतहेयधर्मावा सम्बुध्यमानाः सन्तः समुत्थिताः,के?-ये 'निर्वृताः' क्रोद्याद्यपगमेन शीतीभूताः पापेषु कर्मसु 'अनिदाना' निदानरहिताः ते 'व्याख्याताः' प्रतिपादिता इति ।। कच पुनः पापकर्मस्वनिदाना इत्यत आह--- मू. (२१४) उड्ढे अहं तिरियं दिसासु सवओ सव्वावंति च णं पाडियक्कं जीवेहि कम्मसमारम्भेणं तंपरित्राय मेहावी नेवसयं एएहिं काएहिं दंडं समारंभिजा नेवेने एएहिं काएहिं दंडं समारंभाविजा नेवेने एएहिं काएहिं दंडं समारंभतेऽविसमनुजाणेजा जेवऽन्ने एएहिं काएहिं दंडंसमारंभंति तेसिंपिवयंलज्जामोतंपरित्रायमेहावीतंवादंडअन्नंवा नोदंडभी दंडंसमारंभिजासि -तिबेमि।। वृ.उर्द्धवमस्तिर्यग्दिक्षु सर्वतः' सर्वैः प्रकारैः सर्वायाः काश्चनदिशः चशब्दादनुदिशश्च 'णम्' इति वाक्यालङ्कारे प्रत्येकंजीवेषु एकेन्द्रियसूक्ष्मेतरादिकेषुयः कर्मसमारम्भः-जीवानुद्दिश्य य उपमर्दरूपः क्रियासमारम्भः 'णम्' इति वाक्यालङ्कारे तं कर्मसमारम्भ ज्ञपरिज्ञया ज्ञात्वा प्रत्याख्यानपरिज्ञयाप्रत्याचक्षीत, कोऽसौ? - मेघावी' मर्यादाव्यवस्थितइति, कथंप्रत्याचक्षीतेत्याह नैव स्वयमात्मना ‘एतेषु चतुर्दशभूतग्रामावस्थितेषु 'कायेषु पृथिवीकायादिषु दण्डम्' उपमर्द समारभेत, नचापरेण समारम्भयेत्, नैवान्यान् समारभमाणान् समनुजानीयात्, येचान्ये दण्ड समारमन्ते, सुब्यत्ययेन तृतीयार्थे षष्ठी, तैरपि वयं लज्जाम इत्येवं कृताध्यवसायः सन् तज्जीवेषु कर्मसमारम्भ महतेऽनर्थाय 'परिज्ञाय' ज्ञात्वा 'मेघावी' मर्यादावान्, तथा पूर्वोक्तं दण्डमन्यद्वामृषावादादिकंदण्डाद्विभेतीति दण्डभीः सन्नो 'दण्डं' प्राण्युपमर्दादिकं समारभेताः, करणत्रिकयोगत्रिकेण परिहरेदिति, इतिरधिकारपरिसमाप्तौ ब्रवीमीति पूर्ववत् । अध्ययन-८-उद्देशकः-१ समाप्तः Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003335
Book TitleAgam Sutra Satik 01 Aachar AngSutra 01
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages468
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 01, & agam_acharang
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy