________________
श्रुतस्कन्धः - १, अध्ययनं - ८, उपोद्घात :
दकषाययोगपरिणतेन जनितानि - बद्धानि यानि कर्माणि तैः पूर्वबद्धस्यानादिबन्धबद्धस्य प्रवाहापेक्षया तेन कर्मणा 'सर्वविवेक:' सर्वाभावरूपतया यो विश्लेषस्तस्य जन्तोः 'अथेत्युपप्रदर्शने एतावन्मात्र एव मोक्षो नापरः परपरिकल्पितो निर्वाणप्रदीपकल्पादिक इति गाथार्थः । उक्तो भावविमोक्षः, सच यस्य भवति तस्यावश्यं भक्तपरिज्ञादिमरणत्रयान्यतरेण मरणेन भाव्यं तत्र कार्ये कारणोपचारात् तन्मरणमेव भावविमोक्षो भवतीत्येतत्प्रतिपादयितुमाह-भत्तपरिन्ना इंगिणि पायवगमणं च होइ नायव्वं । जो र चरिममरणं भावविमुक्खं वियाणाहि ।।
नि. [२६३]
वृ. भक्तस्य परिज्ञा भक्तपरिज्ञाऽनशनमित्यर्थः, तत्र त्रिविधचतुर्विधाहारनिवृत्तिमान् सप्रतिकर्म्मशरीरो धृतिसंहननवान् यथा समाधिर्भवेत्तथाऽनशनं प्रतिपद्यते, तथेङ्गिते प्रदेशे मरणमिङ्गितमरणमिदं चतुर्विधाहारनिवृत्तिस्वरूपं विशिष्टसंहननवतः स्वत एवोद्वर्त्तनादिक्रियायुक्तस्यावगन्तव्यं, तथा परित्यक्तचतुर्विधाहारस्यैवाधिकृतचेद्यव्यतिरेकेण चेष्टान्तरमधिकृत्यैकान्तनिष्प्रतिकर्म्मशरीरस्य पादपस्येवोप- सामीप्येन गमनं वर्त्तनं पादपोपगमनमेतच्च ज्ञातव्यं भवति,
२६९
-यो हि भवसद्धिकश्चरमं - अन्तिमं मरणमाश्रित्य म्रियते स एतत्पूर्वोक्तत्रयान्यतरेण मरणेन म्रियते, नान्येन वैहानसादिना बालमरणनेत्येतच्चानन्तरोक्तं मरणं चेष्टाभेदोपाधिविशेषात् त्रैविध्यमनुभवद्भावमोक्षं विजानीहीति गाथार्थः । साम्प्रतमेतदेव मरणं सपराक्रमेतरभेदाद् द्विविधमिति दर्शयितुमाह
नि. [२६४ ] सपरिक्क मे य अपरिक्क भए य वाधाय आणुपुव्वीए । सुत्तत्यजाणएणं समाहिमरणं तु कायव्वं ॥
वृ. 'पराक्रमः' सामर्थ्यसह पराक्रमेण वर्त्तत इति सपराक्रमस्तस्मिंश्च मरणं स्यात्, तद्विपर्यये चापराक्रमे - जङ्घाबलपरिक्षीणे तद्भक्तपरिज्ञेङ्गितमरणपादपोपगमनभेदात्रिविधमपि मरणं सपराक्रमेतरभेदात् प्रत्येकं द्वैविध्यमनुभवति, तदपि व्याघातिमेतरभेदात् द्विधा भवेत्, तत्र व्याघातः सिंहव्याघ्रादिकृतोऽव्याघातस्तुप्रव्रज्यासूत्रार्थग्रहणादिकयाऽऽनुपूर्व्याविपक्किममायुष्कक्षयमनुभवतो यो भवति सोऽव्याघात इहानुपूर्वीत्युक्तं, तत्र परमार्थोपक्षेपेणोपसंहरति
व्याघातेनानुपूर्व्या वा सपराक्रमस्यापराक्रमस्य वा मरणे समुपस्थिते सति सूत्रार्थज्ञेन कालज्ञतया समाधिमरणमेव कर्त्तव्यं, भक्तपरिज्ञेङ्गित्तमरणपादपोपगमनानामन्यतरद् यथासमाधि विधेयं, न वेहानसादिकं बालमरणं कर्त्तव्यमिति गाथार्थः ॥
तत्र सपराक्रममरणं दृष्टान्तद्वारेण दर्शयितुमाहनि. [२६५ ]
सपरक्कममाएसो जह मरणं होइ अजवइराणं ।
पायवगमणं च तहा एयं सपरक्कमं मरणं ।।
वृ. सह पराक्रमेण वर्त्तत इति सपराक्रमं किं तत् ? - मरणं आदिश्यते - इत्यादेशः आचार्यपारम्पर्यश्रुत्यायात्तो वृद्धवादो यमैतिह्यमाचक्षते, स आदेशो 'यथे' त्युदाहरणोपन्यासार्थः, यथैतत्तथाऽन्यदप्यनया दिशा द्रष्टव्यं, 'आर्यवैरा' वैरस्वामिनो यथा तेषां मरणमभूत् तथा पादपोपगमनं च, एतच्च सपराक्रमं मरणमन्यत्राप्यायोज्यमिति गाथार्थः भावार्थस्तु कथानकादवसेयः, तच्च प्रसिद्धमेव यथाऽऽर्यवैरैर्विस्मृतकर्णाहितश्रृङ्गबेरैः प्रमादादवगतासन्नमृत्युभिः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org