________________
२६८
आचारागसूत्रम् 9141-1-नि.२५९] सुब्यत्ययेन वा पञ्चम्यर्थे सप्तमी, निगडादिभ्यो द्रव्येभ्यः सकाशाद्विमोक्षो द्रव्यविमोक्षः, अपरकारकवचनसम्भवस्तु स्वयमभ्यह्यायोज्यः, तद्यथा
द्रव्येणद्रव्यात्सचित्ताचित्तमिश्राद्विमोक्ष इत्यादि, क्षेत्रविमोक्षस्तुयस्मिन्क्षेत्रेचारकादिके व्यवस्थितो विमुच्यते क्षेत्रदानाद्वा यस्मिन्वा क्षेत्रे व्यावर्ण्यते स क्षेत्रविमोक्षः, कालविमोक्षस्तु चैत्यमहिमादिकेषुकालेष्वनाघातादिघोषणापादितोयान्तंकालंमुच्यतेयस्मिन्वाकालेव्याख्यायते सोऽभिधीयते इति गाथार्थः ॥भावविमोक्षप्रतिपादनायाहनि. [२६०] दुविहो भावविमुक्खो देसविमुक्खोयसव्वमुक्खोय।
देसविमुक्खा साहू सव्वविमुक्खा भवे सिद्धा। वृ. भावविमोक्षो द्विधा-आगमतो नोआगमतच, आगमतो ज्ञाता तत्र चोपयुक्तो, नोआगमतस्तु द्विधा-देशतः सर्वतश्च, तत्र देशतोऽविरतसम्यग्भ्रष्टिनामाधकषायच-तुष्कायोपशमाद्देशविरतानामाद्याष्टकषायक्षयोपशमाद्भवति, साधूनांच द्वादशकषायक्षयोपशमात्, क्षपकश्रेण्यां च यस्य यावन्मानं क्षीणं तस्य तत्क्षयाद्देशविमुक्ततेत्यतः साधवो देशविमुक्ता, भवस्थकेवलिनोऽपि भवोपनाहिसद्भावाद्देशविमुक्ता एव, सर्वविमुक्ताश्च सिद्धा भवेयुः इति गाथार्थः। ननुबन्धपूर्वकत्वान्मोक्षस्य निगडादिमोक्षवदित्याशङ्काव्यवच्छेदार्थबन्धाभिधानपूर्वक मोक्षमाहनि. [२६१] कम्मयदव्वेहि समं संजोगो होइ जो उ जीवस्स ।
सोबंधो नायब्वो तस्स विओगो भवेमुक्खो। वृ.कर्मेद्रव्यैः कर्मवर्गणाद्रव्यैः 'समंसार्द्ध यः संयोगो जीवस्य सबन्धः प्रकृतिस्थित्यनुमावप्रदेशरूपोबद्धस्पृष्टनिधत्तनिकाचनावस्थश्चज्ञातव्यः, तथैकैको ह्यात्मप्रदेशोऽनन्तानन्तैः कर्मपुद्गलैर्बद्धः, बध्यमानाअप्यनन्तानन्ताएव,शेषाणामग्रहणयोग्यत्वात्, कयंपुनरष्टप्रकार कर्मबध्नातीतिचेद, उच्यते, मिथ्यात्वोदयादिति, उक्तंच-"कहणंभंते जीवाअट्ठकम्मपगडीओ बंधति ?, गोअमा! नाणावरणिजस्स कम्मस्स उदएणं दरिसणावरणिज्जं कम्मं नियच्छन्ति, दसणमोहणिज्जस्स कम्मस्स उदएणं मिच्छत्तं नियच्छन्ति, मिच्छत्तेणं उइन्नेणं एवं खलु जीवे अट्ठकम्मपगडीओ बंधइ" यदिवा॥१॥ "नेहतुप्पिअगत्तस्स रेणुओ लग्गई जहा अंगे।
तह रागदोसनेहालियस्स कम्मपिजीवस्स" इत्यादि, तस्यैवम्भूतस्याष्टप्रकारस्यकर्मणःआस्रवनिरोधात्तपसाऽपूकरणक्षपकश्रेणिप्रक्रमेण शैलेश्यवस्थायांवायोऽसौ वियोग:-क्षयःसमोक्षो भवेदिति गाथार्थः॥अस्यच प्रधानपुरुषार्थत्वात् प्रारब्धासिधाराव्रतानुष्ठानफलत्वात् तीर्थिकैः सह विप्रतिपत्तिसद्मावाच यथावस्थितमव्यभिचारि मोक्षस्य स्वरूपं दर्शयितुमाह, यदिवा पूर्व कर्मवियोगोद्देशेन मोक्षस्वरूपमभिहितं, साम्प्रतं जीववियोगोद्देशन मोक्षस्वरूपं दर्शयितुमाहनि. [२६२] जीवस्स अत्तजणिएहि चैव कम्मेहिं पुवबद्धस्स ।
सव्वविवेगो जो तेण तस्स अह इत्तिओ मुक्खो। वृ.जीवस्यासङ्घयेप्रदेशात्मकस्य स्वतोऽनन्तज्ञानस्वभावस्यात्मनैव-मिथ्यात्वाविरतिप्रमा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org