________________
२७०
आचारा सूत्रम् 9/1८1-1-[नि. २६५] सपराक्रमैरेव रथावतशिखरिणि पादपोपगमनकारीति । साम्प्रतपराक्रमं दर्शवितुमाहनि. [२६६] अपरक्कममाएसोजह मरण होइ उदहिनामाणं।
पाओवगमेऽवितहा एवं अपरक्कम मरणं॥ वृ. न विद्यते पराक्रमः- सामर्थ्यमस्मिन्नित्यपराक्रम, किं तत् ?- मरणं, तच्च यथा जबाबलपरिक्षीणानामुदधिनाम्नाम्-आर्यसमुद्राणांमरणमभूद, अयमादेशो-६ष्टान्तोवृद्धवा-दायात इति, पादपोपगमनेऽपि तथैवादेशं जानीया यथा पादपोपगमनेन तेषां मरणमभूदिति, एतद्अपराक्रमं मरणं यदार्यसमुद्राणां सञ्जातमेवमन्यत्राप्यायोज्यमिति गायाऽक्षरार्थः॥
__ भावार्थस्तुकथानकादवसेयः, तच्चेदम्-आर्यसमुद्राआचार्याःप्रकृतिकृशा एवासन, पश्चाच्च तैर्जवाबलपरिक्षीणैः शरीराल्लाभमनपेक्ष्य तत्तित्यक्षुभिर्गच्छस्थैरेवानशनं विधाय प्रतिश्रयैकदेशे निर्हारिमं पादपोपगमनकारि ॥ साम्प्रतं व्याघातिममाहनि. [२६७] वाघाइयमाएसो अवरद्धो हुन्ज अन्नतरणं ।
तोसलि महिसीइ हओएयं वाघाइयं मरणं ।। वृ. विशेषेणेणाघातो व्याघातः-सिंहादिकृतः शरीरविनाशस्तेन निर्वृत्तं तत्र वा भवं व्याघातिमं, कश्चित्सिहाद्यन्यतरेणापराद्धो भवेद्-आरब्यो भवेत्तेन यन्मरणं तद्वयाघातिमं, तत्र वृद्धवादायातआदेशो-दृष्टान्तः, यथा-तोसलिनामाचार्योमहिष्याऽऽरब्धश्चतुर्विधाहारपरित्यागेन मरणमभ्युपग-तवान् एतद्व्याघातिमंमरणमितिगाथाऽक्षरार्थो, भावार्थस्तुकथानकादवसेयः, तच्छेदम्-तोसलिनामाचार्योऽरण्यमहिषीभिःप्रारब्धः, तोसलिदेशेवा बबयो महिष्यः सम्भवन्ति, ताभिश्चकदाचिदेक; साधुरटव्यन्तर्वत्यारब्धः, सचताभिः क्षुधमानोऽनिर्वाहमवगम्य चतुर्विधाहारं प्रत्याख्यातवानिति ॥ साम्प्रतमव्याघातिमप्रति-पादनेच्छयाऽऽहनि. [२६८] अनुपुब्बिगमाएसो पध्वजासुत्तअत्थकरणंच।
वीसज्जिओ(योनिन्तो मुक्को तिविहस्स नीयस्स। दृ.आनुपूर्वी क्रमस्तंगच्छतीत्यानुपूर्वीगः, कोऽसौ?-आदेशो-वृद्धवादः, सचायं, तद्यथापूर्वमुस्थितस्य प्रव्रज्यादानं, ततः सूत्रकरणंपुनरर्थग्रहणं, ततस्तदुभयनिर्मातः सुपात्रनिक्षिप्तसूत्रार्थः गुदिनाऽनुज्ञातोभ्युद्यतोमरणत्रिकान्यतराय निर्यन्' निर्गच्छन् त्रिविधस्याहारोपधिशय्याख्यस्य नित्यपरिभोगानित्यस्य मुक्तो भवति,
तत्र यद्याचार्यस्तदा शिष्यान्निष्पाद्याऽपरमाचार्य विधायोत्सर्गेण द्वादशसांवत्सरिक्या संलेखनया संलिख्य ततो गच्छविसर्जित गच्छानुज्ञया स्वस्थापिताचार्यविसर्जितो वा अभ्युधतमरणायापराचार्यान्तिकमियात्, एवमुपाध्यायः प्रवर्तिः स्थविरो गणावच्छेदक: सामान्यसाधुर्वाऽऽचार्यविसर्जितः कृतसंलेखनापरिकर्मा भक्तपरिज्ञादिकं मरणमभ्युपेयात्, तत्रापि भावसंलेखनां कुर्यात् ।। द्रव्यसंलेखनायांतु केवलायां दोषसम्भवादित्याहनि. [२६९] पडिचोइओ य कुविओ रणो जह तिक्क सीयला आणा।
तंबोले य विवेगो घट्टणया जा पसाओय।। वृ. प्रतिचोदितः सन्नाचार्येण पुनरपिसंलिखेत्येवमभिहितः ‘कुपितः क्रुद्धोयथाचराज्ञः पूर्वतीक्ष्णाज्ञा पश्चाच्छीतलीभवतिएवमाचार्यस्यापि, तम्बोले नागवल्लीपत्रेचकुथिते शेषरक्षणाय
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org