________________
२६४
आचाराङ्ग सूत्रम् १/-/६/५/२०७ अनेन च मृषावादादिशेषव्रतसङ्ग्रहः, तथा 'उपशमं ' क्रोधजयाद्, अनेन चोत्तरगुणसङ्ग्रहः, तथा निर्वृतिः निर्वाणं मूलगुणोत्तरगुणयौरेहिकामुष्मिकफलभूतमाचक्षीत, तथा 'शौचं ' सर्वोपाधिशुचित्वं निर्वाच्यव्रतधारणं, तथा आर्जवं मायावक्रतापरित्यागात्, तथा मार्दवं मानस्तब्धता - परित्यागात्, तथा लाघवं स बाह्याभ्यन्तरग्रन्थपरित्यागात्, कथमाचक्षीतेति दर्शयति'अनतिपत्य' यथावस्थितं वस्त्वागमाभिहितं तथाऽनतिक्रम्येत्यर्थः केषां कथयति ?'सर्वेषां प्राणिनां दशविधाः प्राणा विद्यन्ते येषां ते प्राणिनस्तेषां सामान्यतः संज्ञिपञ्चेन्द्रियाणां, तथा 'सर्वेषां भूतानां' मुक्तिगमनयोग्येन भव्यत्वेन भूतानां व्यवस्थितानां, तथा 'सर्वेषां जीवानां' संयमजीवितेन जीवतां जिजीविषूणां च, तथा 'सर्वेषां सत्त्वानां' तिर्यङ्गनरामराणां संसारे क्लिश्यमानतया करुणास्पदानामेकार्थिकानि वैतानि प्राणादीनि वचनानि इत्यतस्तेषां क्षान्त्यादिकं दशविधं धर्मं यथायोगं प्रागुपन्यस्तं शान्त्यादिपदाभिहितम् 'अनुविचिन्त्य' स्वपरोपकाराय भिक्षणशीलो भिक्षुर्धर्म्मकथालब्धिमान् 'आचक्षीत' प्रतिपादयेदिति । यथा च धर्म्मकथयेत्तथाऽऽहमू. (२०८) अणुवीइ भिक्खू धम्माइक्खमाणे नो अत्ताणं आसाइज्जा नो परं आसाइज्जा नो अन्नाई पाणाई भूयाइं जीवाई सत्ताइं आसाइज्जा से अणासायए अणासायमाणे वज्झमाणाणं पाणाणं भूयाणं जीवाणं सत्ताणं जहा से दीवे असंदीणे एवं से भवइ सरणं महामुनी, एवं से उट्ठिए ठियप्पा अनि अचले चले अबहिल्लेसे परिव्वए संक्खाय पेसलं धम्मं दिट्ठिमं परिनिव्वुडे, तम्हा संगति पासह गंथेहिं गढिया नरा विसन्ना कामकता तम्हा लूहाओ नो परिवित्तसिज्जा, जस्सिमे आरंभा सव्वओ सव्वप्ययाए सुपरिन्नाया भवंति जेसिमे लूसिणो नो परिवित्तसंति, सेवंता कोहं च माणं य मायं च लोभं च एस तुट्टे वियाहिए- त्तिबेमि ॥
बृ. स भिक्षुर्मुमुक्षुरनुविचिन्त्य-पूर्वापरेण धर्म्यं पुरुषं वाऽऽ लोच्य यो यस्य कथनयोग्यस्तं धर्म्ममाचक्षाणः आङिति मर्यादया यथाऽनुष्ठानं सम्यग्दर्शनादेः शातना आशातना तथा आत्मानं नो आशातयेत्, तथा धर्म्ममाचक्षीत यथाऽऽत्मन आशातना न भवेत्, यदिवाऽऽत्मन आशातना द्विधा द्रव्यतो भावतञ्च, द्रव्यतो यथाऽऽहारोपकरणादेर्द्रव्यस्य कालातिपातादिकृताऽऽशातनाबाधा न भवति तथा कथयेद्, आहारादिद्रव्यबाधया च शरीरस्यापि पीडा भावाशातनारूपा स्यात्, कथयतो वा यथा गात्रभङ्गरूपा भावाशातना न स्यात् तथा कथयेदिति, तथा नो परं शुश्रूषं आशातयेद्-हीलयेद्, य; परो हीलनया कुपितः सन्नाहारोपकरणशरीरान्यतरपीडायै प्रवर्त्तेतेति, अतस्तदाशातनां वर्जयन् धर्म्म ब्रूयादिति, तथाऽन्यान् वा सामान्येन प्राणिनो भूतान् जीवान् सत्त्वान्नो आशातयेद्-बाधयेत्, तदेवं स मुनिः स्वतोऽनाशातकः परैरनाशातयन् तथाऽपरानाशातयतोऽ- ननुमन्यमानो परेषां वध्यमानानां प्राणिनां भूतानां जीवानां सत्त्वानां यथा पीडा नोत्पद्यते तथा धर्म्म कथयेदिति, तद्यथा-यदि लौकिककुप्रावचनिकपार्श्वस्थादिदानानि प्रशंसति अवटतटागादीनि वा ततः पृथिवीकायादयो व्यापादिता भवेयुः, अथ दूषयति ततोऽपरेषां अन्तरायापादनेन तत्कृतो बन्धपिताकानुभवः स्यात्, उक्तं च
119 11
"जे उदानं पसंसंति, वहमिच्छंति पाणिणं ।
जे उ णं पडिसेहिंति, वित्तिच्छेअं करिंति ते "
तस्मात्तद्दानावटतडागादिविधिप्रतिषेधव्युदासेन यथावस्थितं दानं शुद्धं प्ररूपयेत्
www.jainelibrary.org
Jain Education International
For Private & Personal Use Only