________________
श्रुतस्कन्धः - १, अध्ययनं-६, उद्देशक:५
२६३ प्रोषितभर्तृकाभिः सकलां रजनीमेकैकया प्रतियाममुपसर्गितो न चासौ तासु लुलुभे मन्दरवनिष्पकम्पोऽभूदिति ४।
__-तैर्यग्योनाअपिभयप्रद्वेषाहारापत्यसंरक्षणभेदाच्चतुर्दैव, तत्रभयात्सादिभ्यः,प्रद्वेषाद्यथा भगवतश्चण्डकौशिकात, आहारात् सिंहव्याघ्रादिभ्यः, अपत्यसंरक्षणात् काक्यादिभ्य इति । तदेवमुक्तविधिनोपसर्गापादकत्वाजना लूषका भवन्ति, अथवा तेषु ग्रामादिषु स्थानेषु तिष्ठतो गच्छतोवास्पर्शाः-दुःखविशेषाआत्मसंवेदनीयाःस्पृशन्ति-अभिभवन्ति, तेचतुर्विधाः-तद्यथाघट्टनताऽक्षिकणुकादेः पतनता भ्रमिमूच्र्छादिना स्तम्भनता वातादिना श्लेषणता तालुनः पातादगुल्यादेवस्यिात्, यदिवा वातपित्तश्लेष्मादिक्षोभात् स्पर्शाः स्पृशन्ति, अथवा निष्क्रिश्चनतया तृणस्पर्शदंशमशकशीतोष्णाद्यापादिताःस्पर्शा:-दुःखविशेषाः कदाचित्स्पृशन्ति-अभिभवन्ति, तैश्च स्पृष्टः परीषहैस्तान् स्पर्शान-दुःखविशेषान् ‘धीरः' अक्षोभ्योऽधिसहेत नरकादिदुःखभावनयाऽवन्यध्यकर्मोदयापादितं पुनरपि मयैवैतत्सोढव्यमित्याकलय्य सम्यक् तितिक्षेतेति। __-कीक्षोऽधिसहेतेत्यत आह, यदिवास एवम्भूतो न केवलमात्मनाता सदुपदेशदानतः परेषामपीति दर्शयितुमाह-'ओजः' एको रागादिविरहात् सम्यग् इतं-गतं दर्शनमस्येति समितदर्शनः, सम्यग्दृष्टिरित्यर्थः, यदिवा 'शमितम्' उपशमं नीतं 'दर्शन' पृष्टिनिमस्येति शमितदर्शनः, उपशान्ताध्यवसाय इत्यर्थः, अथवासमतामितंगतंदर्शन-दृष्टिरस्येति समितदर्शनः, समष्टिरित्यर्थः, एवम्भूतः स्पर्शानधिसहेत, यदिवा धर्ममाचक्षीतेत्युत्तरक्रियया सह सम्बन्धः, किमभिसन्धायधर्ममाचक्षीतेति दर्शयति-'दयां कृपां लोकस्य जन्तुलोकस्योपरिद्रव्यतो ज्ञात्वा क्षेत्रतः प्राचीनं प्रतीचीनं दक्षीणमुदीचीनमपरानपि दिग्विभागानभिसमीक्ष्य सर्वत्र दयां कुर्वन् धर्ममाचक्षीत, कालतोयावजीवं, भावतोऽरक्तोऽद्विष्टः, कथमाचक्षीत? -तद्यथा-सर्वेजन्तवो दुःखद्विषः सुखलिप्सवः आत्मोपमया सदा द्रष्टव्या इति, उक्तंच
“न तत्परस्य संदध्यात्, प्रतिकूलं यदात्मनः ।
एष सङ्गाहिको धर्मः, कामादन्यः प्रवर्तते" इत्यादि,तथाधर्मामाचक्षाणो 'विभजेत्' द्रव्यक्षेत्रकालभावभेदैराक्षेपण्यादिकथाविशेषैर्वा प्राणातिपातमृषावादादत्तादानमैथुनपरिग्रहरात्रीभोजनविरतिविशेषैर्वा धर्मविभजेत्, यदिवा कोऽयं पुरुषःकंनतो देवता विशेषमभिगृहीतोऽनभिगृहितोवा? एवं विभजेत्, तथाक्रीत्तयेव्रतानुष्ठान फलं, कोऽसौ कीर्तर्यद् ? वेदविद् आगमवदिति । नागार्जुनीयास्तु पठन्ति- “जे खलु समणे बहुस्सुए बज्झागमे आहरणहेउकुसले धर्मकहालद्धिसम्पन्ने खेत्तं कालं पुरिसं समासज्ज केऽयं पुरिसे कं वा दरिसणमभिसम्पन्नो? एवंगुणजाइए पभू धम्मस्स आघवत्तए" इति, कण्ठ्यं । स पुनः निमित्तभूतेषु कीर्तयेदित्याह
'स' आगमवित् स्वसमयपरसमयज्ञः ‘उत्थितेषु वा' भावोत्थानेन यतिषु, वाशब्दः उत्तरापेक्षया पक्षान्तरद्योतकः, पाश्र्वानाथशिष्येषु चतुर्यामोत्थितेष्वेव वर्द्धमानतीर्थाचार्यादिः पञ्चयामंधर्मप्रवेदयेदिति, स्वशिष्येषु वा सदोस्थितेष्वज्ञातज्ञापनायधर्मप्रवेदयेदिति, अनुत्थितेषु वा' श्रावकादिषु 'शुश्रूषमाणेषु' धर्मश्रोतुमिच्छत्सु गुदिः पर्युपास्ति कुर्वत्सु वा संसारोत्तारणाय धर्मांप्रवेदयेत् । किम्भूतं प्रवेदयेदित्याह-शमनं शान्तिः, अहिंसेत्यर्थः, तामाचक्षीत, तथा विरतिम्,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org