________________
श्रुतस्कन्धः - १, अध्ययनं ६, उद्देशकन्५
२६५
सावद्यानुष्ठानंचेति, एवं च ब्रुवन्नुभयदोषपरिहारी जन्तूनामाश्वासभूमिर्भवतीति, एतध्टान्तद्वारेण दर्शयति-यथाऽसौद्वीपोऽसन्दीनः शरणं भवत्येवमसावपि महामुनिः तद्रक्षणोपायोपदेशतः वध्यमानानां वधकानां च तदध्यवसायविनिवर्त्तनेन विशिष्टगुणस्थानापादनाच्छरण्यो भवति, तथाहियथोद्दिष्टेन कथाविधानेन धर्म्मकथां कथयन् कांश्चन प्रव्राजयति कांश्चन श्रावकान् विधत्ते कांश्चन सम्यग्दर्शनयुजः करोति केषाञ्चित्प्रकृतिभद्रकतमापादयति । किंगुणश्चासौ द्वीप इव शरण्यो भवतीत्याह
'एव' मिति वक्ष्यमाणप्रकारेण 'स' शरण्यो महामुनिर्भावोत्थानेन संयमानुष्ठानरूपेण उत्प्राबल्येन स्थित उत्थितः, तथा स्थितो ज्ञानादिके मोक्षाध्वन्यात्मा यस्य स स्थितात्मा, तथा स्निह्यतीति स्निहो न स्निहोऽस्निह:- रागद्वेषरहितत्वात् अप्रतिबद्ध:, तथा न चलतीत्यचलः परीषहोपसर्गवातेरितोऽपीति, तथा चलः अनियतविहारित्वात्, तथासंयमाद्वहिर्निर्तगा लेश्या अध्यवसायो यस्य स बहिर्लेश्यः यो न तथा सोऽबहिर्लेश्यः, स एवम्भूतः परि-समन्तात् संयमानुष्ठाने व्रजेत् परिव्रजेत्, न क्वचित्प्रतिबध्यमान इतियावत्, स च किमिति संयमानुष्ठाने परिव्रजेदित्याह
'संख्याय' अवधार्य 'पेशलं' शोभनं 'धर्म्म' अविपरीतार्थं दर्शनं दृष्टिः सदनुष्ठानं वा सा यस्यास्त्यसौ ६ष्टिमान्, स च कषायोपशमात् क्षयाद्वा, परिः समन्तान्निर्वृतः - ीतीभूतो । यस्त्वसङ्ख्यातवान् पेशलं धर्म्ममिथ्यादृष्टिरसौन निर्वातीति दर्शयितुमाह-इतिर्हेतौ यस्माद्विपरीतदर्शनो मिथ्याष्टिः सङ्गवान्न निर्वाति तस्मात् 'सङ्ग' मातापितृपुत्रकलत्रादिजनितं धनधान्यहिरण्यादिजनितं वा सङ्गविपाकं वा पश्यत यूयं विवेकेनावधारयत, सूत्रेणैव सङ्गमाह -त एवं सङ्गिनो नराः सबाह्याभ्यन्तरैर्ग्रन्थैर्ग्रथिता अवबद्धा विषण्णा ग्रन्थसङ्गे निमग्नाः कामैः - इच्छामदनरूपैराक्रान्ता अवष्टब्धा न निर्वान्ति, यद्येवं ततः किं कर्त्तव्यमित्याह यस्मात्कामाद्यासक्तचेतसः स्वजनधनधान्यादिमूर्च्छिताः कामजैः शारीरमानसादिभिर्दुःखैरुपतापितास्तस्माद् रूक्षात् - संयमान्निःसङ्गात्मकात् 'नो परिवित्रसेत्' न संयमानुष्ठानाद्बिभीयात्, यतः प्रभूततरदुःखानुषङ्गिणो हि सङिन इति । कस्य पुनः संयमान परि वित्रसनं सम्भाव्यत इत्याह
'यस्य महामुनेरवगतसंसारमोक्षकारणस्येमे सङ्गाः - आरम्भा अनन्तरोक्ता अविगानतः सर्वजनाचरितत्वात्प्रत्यक्षासन्नावाचिनेदमाऽभिहिताः 'सर्वतः ' सर्वात्मकतया सुपरिज्ञाता भवन्ति, किम्भूता आरम्भाः ? - येष्विमे ग्रन्थग्रथिता विषण्णाः कामभराक्रान्ता जना 'लूषिणो' लूषणशीलाः हिंसका अज्ञानमोहोदयात् 'न परिवित्रसन्ति' न बिभ्यति, योह्येवम्भूतांश्चारम्भान् ज्ञपरिज्ञया परिज्ञाय प्रत्याख्यानपरिज्ञया च परिहरति तस्यैते सुपरिज्ञाता भवन्ति । यश्चारम्भाणां परिज्ञाता स किमपरं कुर्यादित्याह
t
'स' महामुनिः पूर्वव्यार्वर्णितस्वरूपो 'वान्त्वा' त्यक्त्वा क्रोधं च मानं च मायां च लोभं चेति, स्वगतभेदसंसूचनार्थो व्यस्तनिर्देशः, सर्वानुयायित्वात् क्रोधस्य प्रथमोपादानं तत्सम्बद्धत्वान्मानस्य लोभार्थं मायोपादीयत इत्यतस्तत्कारणत्वान्मायाया लोभस्यादावुपन्यासः ततः सर्वदोषाश्रयत्वात् सर्वगुरुत्वाच्च सर्वोपरि लोभस्य, क्षपणाक्रमं वाऽऽश्रित्यायमुपन्यास इति, चकारो हीतरेतरापेक्षया समुच्चयार्थः । स एवं क्रोधादीन् वान्त्वा मोहनीयं त्रोटयति, चैषोऽपगतमोहनीयः संसारसन्ततेस्तुट्टः- अपसृतो व्याख्यातस्तीर्थकृदादिभिरितिरधिकार
स
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org