________________
आचाराङ्ग सूत्रम् १/-/३/४/२०५
वृ. अर्थोऽस्यास्तीत्यर्थी, अधर्मोणार्थी अधर्म्मार्थी, यतो नाम त्वमेवम्भूतोऽतोऽनुशास्यसे, कुतोऽधम्र्म्मार्थी ? यतो 'बालः' अज्ञः, कुतो बालो ?, यत 'आरम्भार्थी' सावद्यारम्भप्रवृत्तः, कुतः आरम्भार्थी ?, यतः प्राण्युपमर्दवादाननुवदनैतद् ब्रूषे, तद्यथा जहि प्राणिनोऽपरैरेवं घातयन् घ्नतश्चापि समनुजानासि गौरवत्रिकानुबद्धः पचनापाचनादिक्रियाप्रवृत्तांस्तत्पिण्डत तत्समक्षं ताननुवदसि - कोऽत्र दोषो ? न ह्यशरीरैर्द्धर्म्मः कर्तु पार्य्यते, अतो धर्माधारं शरीरं यलतः पालनीयमिति, उक्तं च
$
119 11
२६०
“शरीरं धर्म्मसंयुक्तं, रक्षणीयं प्रयत्नतः । शरीराज्जायते धर्म्मो, यथा बीजात्सदङ्कुरः "
इति, किं चैवं ब्रवीषि त्वं, तद्यथा- 'घोरः' भयानको धर्म्मः सर्वास्रवनिरोधात् दुरनुचरः उत्-प्राबल्येनेरितः-- कथितः प्रतिपादितस्तीर्थकरणगणधरातिभिरित्येवमध्यवसायी भवांस्तमनुष्ठानत् 'उपेक्षते' उपेक्षां विधत्ते, 'णम्' इति वाक्यालङ्कारे, 'अनाज्ञया' तीर्थकरगणधरानुपदेशेन स्वेच्छया प्रवृत्त इति, क एवम्भूत इति दर्शयति
'एष' इत्यनन्तरोक्तोऽधर्म्मार्थी बाल आरम्भार्थी प्राणिनां हन्ता घातयिता घ्नतोऽनुमन्ता धम्मपिक्षक इति, विषण्णः कामभोगेषु, विविधंत्तर्दतीति वितर्दो - हिंसकः 'तर्दहिंसाया' मित्यस्मात् कर्त्तरि पचाद्यच्, संयमे वा प्रतिकूलो वितर्दः इत्येवरूपस्त्वमेष व्याख्यात इत्यतोऽहं ब्रवीमि त्वं मेधावी धर्म जानीया इता ॥ एतच्च वक्ष्यमाणमहं ब्रवीमीत्यत आह
मू. (२०६) किमनेन भो ! जनेन करिस्सामित्ति मन्त्रमाणे एवं एगे वइत्ता मायरं पियरं हिचा नायओ य परिग्गहं वीरायमाणा समुट्ठाए अविहिंसा सुव्वया दंता पस्स दीणे उप्पइए पडिवयमाणे वसट्टा कायरा जणा लूसगा भवंति, अहगमेगेसिं सिलोए पावए भवइ, से समणी भवित्ता विब्यंते २ पासहेगे समन्नागएहिं सह असमन्नागए नममाणेहिं अनममाणे विरएहिं अविरए दविएहिं अदविए अभिसमिच्चा पंडिए मेहावी निट्टियट्टे वीरे आगमेणं सया परक्क मिज्जासि-त्तिवेमि । यू. केचन - विदितवेद्या वीरायमाणाः सम्यगुत्थानेनोत्थाय पुनः प्राण्युपमर्दका भवन्तीति, कथमुत्थाय ? किमहमनेन 'भोः' इत्यामन्त्रणे 'जनेन' मातापितृपुत्रकलत्रादिना स्वार्थपरेण परमार्थतोऽनर्थरूपेण करिष्यामीति, न ममायं कस्यचिदपि कार्यस्य रोगापनयनादेरलमित्यतोऽनेन किमहं करिष्ये?, यदिवा प्रविव्रजिषुः केनचिदभिहितः किमनया सिकताकवलसन्निभया प्रवज्यया करिष्यति भवान्? अध्ष्टवशायातं तावद्भोजनादिकं भुङ्खवेत्यभिहितो विरागतामापन्नो ब्रवीति
-
किमहमनेन भोजनादिना करिष्ये?, भुक्तं मयाऽनेकशः संसारे पर्यटतातथापि तृप्तिर्नाभूत्, तत्किमिदानीमनेन जन्मना भविष्यतीत्येवं मन्यमाना एके विदितसंसारस्वभावा उदित्वाऽप्येवं ततो 'मातरं' जननीं 'पितरं जनयितारं 'हित्वा' त्यकत्वा 'ज्ञातयः' पूर्वापरसम्बन्धिनः स्वजनास्तान् परिगृह्यत इति परिग्रहः- धनधान्यहिरण्यद्विपदचतुष्पदादिः तं किम्भूताः ? - वीरमिवात्मानमाचरन्तो वीरायमाणाः, सम्यक् संयमानुष्ठानेनोत्थाय समुत्थाय विविधैरुपायैर्हिसा विहिंसा न विद्यते विहिंसा येषां तेऽविहिंसाः, तथा शोभनं व्रतं येषां ते सुव्रताः, तथेन्द्रियदमाद्दान्ताः इत्येवं समुत्थाय, नागार्जुनीयास्तु पठन्ति
"समणा भविस्सामो अनगारा अकिंचना अपुत्ता अपसूया अविहिंसगा सुव्वया दंता
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International