SearchBrowseAboutContactDonate
Page Preview
Page 264
Loading...
Download File
Download File
Page Text
________________ श्रुतस्कन्धः - १, अध्ययनं - ६, उद्देशक:४ २६१ परदत्तभोइणो पावं कम्पं न करेस्सामो समुट्ठाए" सुगमत्वान्न विव्रयते, इत्येवं समुत्थाय पूर्वं पश्चात् 'पश्य' निभालय 'दीनान्' श्रृगालत्वविहारिणो वान्तं जिघृक्षून् पूर्वमुत्पतितान् संयमारोहणात् पश्चात्पापोदयात् प्रतिपतत इति, किमिति दीना भवन्तीति दर्शयति-यतो 'वशार्त्ता' वशा इन्द्रियविषयकषायाणां तत आर्त्ता दशार्त्ताः तथाभूतानां च कर्म्मानुषङ्गः, तदुक्तम्- 'सोइंदियवसट्टेणं भंते! कइ कम्मपगडीओ बंधइ ?, गोयमा ! आउअवज्जाओ सत्त कम्मपगडीओ जाव अनुपरिअट्टइ। कोहवसट्टेणं भंते! जीवे एवं तं चैव" एवं मानादिष्वपीति, तथा 'कातराः ' परीषहोपसर्गोपनिपाते सति विषयलोलुपा वा कातराः । केते ? – जनाः, किं कुर्वन्ति ? - ते प्रतिभग्नाः सन्तः 'लूषका भवन्ति' व्रतानां विध्वंसका भवन्ति, को ह्यष्टादशशीलाङ्गसहस्राणि धारयिष्यतीत्येवमभिसन्धाय द्रव्यलिङ्ग भावलिङ्ग वा परित्यज्य प्राणिनां विराधका भवन्ति । तेषां च पश्चात्कृतलिङ्गानां यत्स्यात्तदाह- 'अथ' आनन्तर्ये 'एकेषां' भग्नप्रतिज्ञानामुप्रव्रजितानां तत्समनन्तरमेवान्तर्मुहूर्तेन वा पञ्चत्वापत्तिः स्याद्, एकेषां तु 'श्लोको' श्लाघूरूपः पापको भवेत्, स्वपक्षात्परपक्षाद्वा महत्ययशः - कीर्तिर्भवति, तद्यथा-स एष पितृवनकाष्ठस मानो भोगाभिलाशी व्रजति तिष्ठति वा, नास्य विश्वसनीयं यतो नास्याकर्त्तव्यमस्तीति, उक्तं च . ॥१॥ "परलोकविरुद्धानि कुर्वाणं दूरतस्त्यजेत् । आत्मानं यो न संधत्ते, सोऽन्यस्मै स्यात्कथं हितः ? 27 इत्यादि, यदिवा सूत्रेणैवाश्लाघ्यतां दर्शयितुमाह-सोऽयं श्रमणो भूत्वा विविधं भ्रान्तोभग्नः श्रमणविभ्रान्तो, वीप्सयाऽत्यन्तजुगुप्सामाह, किं च पश्यत यूयं कर्म्मसामर्थ्यम् 'एके' विश्रान्तभागधेयाः समन्वागतैरुद्युक्तविहारिभिः सह वसन्तोऽप्यसमन्वागताः- शीतलविहारिणः, तथा 'नममानैः' संयमानुष्ठानेन विनयवद्भिः 'अनममानान्' निर्घृणतया सावद्यानुष्ठायिनो, विरतैरविरता द्रव्यभूतैरद्रव्यभूताः पापकलङ्काङ्कितत्वादेवम्भूतैरपि साधुभिः सह वसन्तोऽपि, एवम्भूतान् 'अभिसमेत्य' ज्ञात्वा किं कर्त्तव्यमिति दर्शयति- 'पण्डितः ' त्वं ज्ञातज्ञेयो 'मेधावी' मर्यादाव्यवस्थितो 'निष्ठितार्थः' विषयसुखनिष्पिपासो 'वीरः' कम्र्म्मविदारणसहिष्णुर्भूत्वा 'आगमेन' सर्वज्ञप्रणीतोपदेशानुसारेण 'सदा' सर्वकालं परिक्रामयेरिति । इतिरधिकारपरिसमाप्तौ ब्रवीमीति पूर्ववद् ।। अध्ययनं -६ उद्देशकः-४ समाप्तः -: अध्ययनं -६ - उद्देशकः ५ : बृ. उक्तश्चतुर्थोद्देशकः, साम्प्रतं पञ्चम आरभ्यते, अस्य चायमभिसम्बन्धः, इहानन्तरोद्देशके कर्म्मविधूननार्थं गौरवत्रयविधूननाऽभिहिता, सा च कर्मविधूननोपसर्गविधूननामन्तरेण न सम्पूर्ण भावमनुभवति, नापि सत्कारपुरस्कारात्मकसन्मानविधूननामन्तरेण गौरवत्रयविधूनना सम्पूर्णतामियादित्यत उपसर्गसन्मानविधूननार्थमिदमुपक्रम्यते, इत्यनेन सम्बन्धेनायातस्यास्योद्देशकस्यास्खलितादिगुणोपेतं सूत्रमुच्चारणीयं तचेदम् , मू. (२०७) से गिहेसु वा गिहंतरेसु वा गामेसु वा गामंतरेसु वा नगरेसु वा नगरंतरेसु वा जण वयेसु वा जणवयंतरेसु वा गामनयरंतरे वा गामजणवयंतरे वा नगरजणवयंतरे वा संतेगइया जणा लूगा भवंति अदुवा फासा फुसंति ते फासे पुढे वीरो अहियासए, ओह समियदंसणे, दयं Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003335
Book TitleAgam Sutra Satik 01 Aachar AngSutra 01
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages468
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 01, & agam_acharang
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy