________________
२५५
श्रुतस्कन्धः- १, अध्ययन-६, उद्देशकः३ कुतस्तमरतिर्विन विधारयेदित्याह-क्षणे क्षणेऽव्यवच्छेदेनोत्तरोत्तरं संयमस्थानकण्डकं संदधानः सम्यगुत्थितः समुत्थितःउत्तरोत्तरंगुणस्थानकंवा संदधानोयथाख्यातचारित्राभिमुखःसमुत्थितोऽसावतस्तमरतिःक विधारयेदिति? सचैवम्भूतोन केवलमात्मनातापरेषामप्यरतिविधारकत्वात् आणायेत्येतद्दर्शयितुमाह-द्विर्गता आपोऽस्मिन्निति द्वीपः, स च द्रव्यभावभेदात् द्वेधा
तत्र द्रव्यद्वीप आश्वासद्वीपः, आश्वास्यतेऽस्मिन्नित्याश्वासः आश्वासश्चासौ द्वीपश्वाश्वासद्वीपो, यदिवाआश्वसनमाश्वासः,आश्वासाय द्वीपआश्वासद्वीपः, तत्रनदीसमुद्रबहुमध्यप्रदेशे भित्रबोहित्थादयस्तमवाप्याश्वसन्ति, असावपि द्वेधा-सन्दीनोऽसन्दीनश्चेति, यो हि पक्षमासादावुदकेन प्लाव्यतेससन्दीनो, विपरीतस्त्वसन्दीनः सिंहलद्वीपादिः, यथा हि सांयात्रिकास्तंद्वीपमसन्दीनमुदन्वदादेरुत्तितीर्षवः समवाप्याश्वसन्ति एवं तं भावसंधानायोत्थितं साधुमवाप्यापरे प्राणिनःसमाश्वस्युः, यदिवादीपइति प्रकाशदीपः, प्रकाशायदीपः प्रकाशदीपः, स चादित्यचन्द्रमण्यादिरसन्दीनोऽपरस्तु विद्युदुल्कादिः सन्दीनो, यदिवा प्रचुरेन्धनतया विवक्षितकालावस्थाय्यसन्दीनोविपरीतस्तुसन्दीनइति, यथाह्यसौस्थवपुटाद्यावेदनतोहेयोपादेयहानोपादानवतां निमित्तभावमुपयाति तथा क्वचत्समुद्राधन्तर्वर्तिनामाश्वासकारीच भवति एवं ज्ञानसंधानायोस्थितः परीषहोपसर्गाक्षोभ्यतयाऽसन्दीनः साधुर्विशिष्टोपदेशदानतोऽपरेषामुपकारायेति, अपरे भावद्वीपं भावदीपं वा अन्यथा व्याचक्षते-तद्यथा
भावद्वीपः सम्यकत्वं, तच्च प्रतिपातित्वादौपशमिकं क्षायोपशमिकंचसंदीनो भावद्वीपः, क्षायिकं त्वसन्दीनं इति, तं द्विविधमवाप्य परीतसंसारत्वात् प्राणिन आश्वसन्ति, भावदीपस्तु सन्दीनः श्रुतज्ञानम् असंदीनस्तु केवलमिति, तच्चावाप्य प्राणिनोऽवश्यमाश्वसन्त्येवेति, अथवा धर्मसंदधानः समुत्थितः सन्नरतेर्दुष्प्रधृष्यो भवतीत्युक्ते कश्चिच्चोदयेत्-किम्भूतोऽसौ धर्मो ? यत्सन्धानायसमुत्थित इति, अत्रोच्यते, यथाऽसौ द्वीपोऽसन्दीनः-असलिलप्लुतोऽवरुग्णवाहनानामितरेषां च बहूनां जन्तूनां शरण्यतयाऽऽश्वासहेतुर्भवत्येवमसावपि धर्मः ‘आर्यप्रदेशितः' तीर्थकरप्रणीतः कषतापच्छेदनिटतोऽसन्दीनः, यदिवाकुताप्रघृष्यतयाऽसन्दीन:-अक्षोभ्यः प्राणिनां त्राणायाश्वासभूमिर्भवति । तस्य चार्यदेशितस्य धर्मस्य किं सम्यगनुष्ठायिनः केचन सन्ति?,ओमित्युच्यते, यदि सन्ति किम्भूतास्त इत्यत आह
'ते' साधवोभावसन्धानोद्यताःसंयमारतेः प्रणेदकामोक्षनेदिष्ठाभोगाननवकान्तो धर्मे सम्यगुस्थानवन्तःस्युरिति, एतदुत्तरत्रापियोज्यम्, तथाप्राणिनोऽनतिपातयन्तः, उपलक्षणार्थत्वात् शेषमहाव्रतग्रहणमायोज्यं, तथा कुशलानुष्ठानप्रवृत्तत्वाद्दयिताः सर्वलोकानां, तथा मेधाविनो' मर्यादाव्यवस्थिताः पण्डिताः' पापोपादानपरिहारितया सम्यक्पदार्थज्ञाधर्माचरणायसमुत्थिता भवन्तीति। ये पुनस्तथाभूतज्ञानाभावात् सम्यग्विवेकविकलतया नाद्यापिपूर्वोक्तसमुत्थनवन्तः स्युः ते तथाभूता आचार्यादिभिः सम्यगनुपाल्या यावद्विवेकिनोऽभूवन्नित्येतद्दर्शयितुमाह
"एवम् उक्तविधिना तेषाम्' अपरिकर्मितमतीनां भगवतो वीरवर्द्धमानस्वामिनोधर्मे सम्यगनुत्थाने सति तत्परिपालनतस्तथा सदुपदेशदानेन परिकर्मितमतित्वं विधेयमिति, अत्रैव दृष्टान्तमाह-द्विजः-पक्षी तस्यपोतः-शिशुः द्विजपोतःसयथा तेन द्विजेनगर्भप्रसवात्प्रभृत्यण्डकोच्छ्नोच्छूनतरभेदादिकास्ववस्थासु यावन्निष्पन्नपक्षस्तावत्पाल्यते एवमाचार्येणापि शिक्षकः
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org