________________
आचाराङ्ग सूत्रम् १/-/६/३/२०० प्रव्रज्यादानादारभ्य सामाचार्युपदेशदानेनाध्यापनेन च तावदनुपाल्यते यावद्गीतार्थोऽभूत्, यः पुनराचार्योपदेशमुल्य स्वैरित्वाद्यथा कथञ्चिक्रियासु प्रवर्तते स उज्जयिनीराजपुत्रवद्विनश्येदिति, तद्यथा-उज्जयिन्यां जितशत्रो राज्ञो द्वौ पुत्रौ, तत्र ज्येष्ठो धर्म्मधोषाचार्यसमीपे संसारासारतामवगम्य प्रवद्राज, क्रमेण चाधीताचारादिशास्त्रोऽवगततदर्थश्च जिनकल्पं प्रतिपित्सुः द्वितीयां सत्त्वभावनां भावयति, सा च पञ्चधा
तत्र प्रथमोपाश्रये द्वीताय तद्बहिः तृतीया चतुष्के चतुर्थी शून्यगृहे पञ्चमी श्मशाने, तत्र पञ्चमी भावनां भावयतः स कनिष्ठो भ्राता तदनुरागादाचार्यान्तिकमागत्योवाच- मम ज्यायान् भ्राता क्वास्ते ?, साधुभिरमणि - किं तेन ? स आह-प्रव्रजाम्यहं, आचार्येणोक्तो - गृहाण तावत् प्रव्रज्यां पुनर्द्रक्ष्यसि, स तु तथैव चक्रे, पुनरपि पृच्छत आचार्या ऊचुः- किं तेन दृष्टेन ?, नासी कस्यचिदुल्लापमपि ददाति, जिनकल्पं प्रतिपत्तुकाम इति, आसावाह तथाऽपि पश्यामि तावदिति, निर्बन्धे दर्शितः, तूष्णीभावस्थित एव वन्दितः, तदनुरागाच्च निषिद्धोऽ प्याचार्येण निचार्यमाणोऽप्युपाध्यायेन ध्रियमाणोऽपि साधुभिरसाम्प्रतमेतद्भवतो दुष्करं दुरध्यवसेयमित्येवं कथ्यमानेऽप्यहमपि तेनैव पित्रा जात इत्यवष्टम्भेन मोहात्तयैव तस्यै यथा ज्येष्ठो भ्रातेति, इतरो देवतयाऽऽगत्य वन्दितः, शिक्षकस्तु न वन्दितः, ततोऽसावपरिकर्मितमतित्वात्कुपितः, अविधिरितिकृत्वा देवताऽपि तस्योपरि कुपिता सती तलप्रहारेणाक्षिगोलकी बहिर्निश्चिक्षेप, ततस्तञ्ज्यायान् हृदयेनैव देवतामाह
किमित्ययमज्ञस्त्वया कदर्थितः, तदस्याक्षिणी पुनर्नवीकुरु, सा त्ववादीत् - जीवप्रदेशैर्मुक्ताविमौ गोलकौ न शक्यो पुनर्नवीकर्तु इत्युकत्वा ऋषिवचनमलङ्घनीयमित्यवधार्य तत्क्षणश्वापाकव्यापादितैलाक्षिगोलकी गृहीत्वा तदक्ष्णोश्चकार । इत्येवमनुपदेशप्रवर्त्तनं सापाय- मित्यवधार्य शिष्येण सदाऽऽचार्योपदेशवर्तिना भाव्यम्, आचार्येणापि सदा स्वपरोपकारवृत्तिना सम्यक् स्वशिष्या यथोक्तविधिना प्रतिपालनीया इति स्थितम् । इत्येतदेवोपसंहरन्नाह-यथा द्विजपोतो मातपितृभ्यामनुपालयते एवमाचार्येणापि शिष्या अहर्निशम् 'अनुपूर्वेण' क्रमेण 'वाचितैः' पाठिताः शिक्षां ग्राहिताः समस्तकार्य सहिष्णवः संसारोत्तरणसमर्थाश्च भवन्ति । इतिरधिकारपरिसमाप्तौ, ब्रवीमीति पूर्ववत् ।
२५६
अध्ययनं - ६ - उद्देशक:- ३ समाप्तः -: अध्ययनं -६ - उद्देशकः - ४ :
वृ. उक्तस्तृतीयोद्देशकः, साम्प्रतं चतुर्थ आरभ्यते, अस्य चायमभिसम्बन्धः - इहानन्तरोद्देशके शरीरोपकरणधूननाऽभिहिता, सा च परिपूर्णा न गौरवत्रिकसमन्वितस्येत्यतस्यद्धूननार्थमिदमुपक्रम्यत इत्यनेन सम्बन्धेनायातस्यास्योद्देशकस्यास्खलितादिगुणोपेतं सूत्रमुच्चारणीयं तच्चेदम्
मू. (२०१) एवं ते सिस्सा दिया य राओ य अनुपुव्वेण वाइया तेहिं महावीरेहिं पन्नाणमन्तेर्हि तेसिमंतिए पन्त्राणमुवलब्भ हिचा उवसमं फारुसियं समाइयंति, वासित्ता बंभचेरंसि आणं तं नोत्ति मन्त्रमाणा आधायं तु सुधा निसम्म, समणुन्ना जीविस्सामो एगे निक्खमंते असंभवंत विडज्झमाणा कामेहिं गिद्धा अज्झोववन्ना समाहिमाधायमजोसयंता सत्थारमेव फरुसं वयंति। यू. 'एवम्' इति द्विजपोतसंवर्द्धनक्रमेणैव 'ते शिष्याः' स्वहस्तप्रव्राजिता उपसम्पदागतः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org