________________
२५४
आचाराङ्ग सूत्रम् १/-/६/३/१९९
॥१॥
"निम्माणेइ परो चिय अप्पाण उ ण वेयणं सरीराणं । अप्पाणी चिअ हिअयस्स न उण दुक्खं परो देइ'
12
इत्यादि, शरीररस्य तु पीडा भवत्येवेति दर्शयितुमाह-प्रतनुके च मांसं च शोणितं च मांसशोणिते द्वे अपि, तस्य हि रूक्षाहारत्वादल्पाहारत्वाच्च प्रायशः खलत्वेनैवाहारः परिणमति, नरसत्वेन, कारणाभावाच प्रतन्वेव शोणितं तत्तनुत्वान्मांसमपीति ततो मेदादीन्यपि, यदिवा प्रायशो रूक्षं वातलं भवति, वातप्रधानस्य च प्रतनुतैव मांसशोणितयोः, अचेलतया च तृणस्पर्शादिप्रादुर्भावेन शरीरोपतापात् प्रतनुके मांसशोणिते भवत इति सम्बन्धः, 'संसार श्रेणी' संसारावतरणी रागद्वेषकषायसंततिस्तां क्षान्त्यादिना विश्रेणीं कृत्वा, तथा 'परिज्ञाय' ज्ञात्वा च समत्वभावनया, तद्यथा
जिनकल्पिकः कश्चिदेककल्पधारी द्वौ त्रीन् वा बिभर्त्ति स्थविरकल्पिको वा मासार्द्धमासक्षपकः तथा विकृष्टाविकृष्टतपश्चारी प्रत्यहं भोजी कूरगडुको वा एते सर्वेऽपि तीर्थकृद्वचनानुसारतः परस्परानिन्दया समत्वदर्शिन इति, उक्तं च
7
11901
"जोवि दुवत्थतिवत्थो एगेण अचेलगो व संथरइ ।
न हु ते हीर्लेति परं सव्वेवि हु ते जिणाणाए "
तथा जिनकल्पिकः प्रतिमाप्रतिपन्नो वा कश्चित्कदाचित् षडपि मासानात्मकल्पेन भिक्षां नलभेत तथाऽप्यसौ कूरगडुकमपि यथौदनमुण्डस्त्वमित्येवं न हीलयति । तदेवं समत्वदृष्टिप्रज्ञया विश्रेणीकृत्य 'एषः उक्तलक्षणो मुनिः तीर्णः संसारसागरं एष एव मुक्तः सर्वसङ्गेभ्यो विरतः सर्वसावद्यानुष्ठानेभ्यो व्याख्यातो नापर इति । ब्रवीमीतिशब्दी पूर्ववत् ॥ तदेवं संसार श्रेणी विश्लेषयित्वा यः संसारसागरतीर्णवत्तीर्णो मुक्तवन्मुक्तो विरतो व्याख्यातः, तं च तथाभूतं किमरतिरभिभवेदुत नेति, अचिन्त्यसामर्थ्यात् कर्म्मणोऽभिभवेदित्येतदेवाह
यू. (२००) विरयं भिक्खु रीयंतं चिरराओसियं अरई तत्थ किं विधारए ?, संघेमाणे समुट्ठिए, जहा से दीवे असंदीणे एवं से धम्मे आरियपदेसिए, ते अनवकंखमाणा पाणे अनइवाएमाणा जइया मेहाविणो पंडिया, एवं तेसिं भगवओ अनुट्ठाणे जहा से दियापोए एवं ते सिस्सा दिया य राओ य अनुपुव्वेण वाइय- तिबेमि- ॥
बृ. विरतमसंयमा भिक्षणशीलं भिक्षु 'रीयमाणं' निस्सरन्तमप्रशस्तेभ्योऽसंयमस्थानेभ्यः प्रशस्तेष्वपि गुणोत्कर्षादुपर्युपरि वर्त्तमानं चिररात्रं- प्रभूतं कालं संयमे उषितश्चिररात्रोषितस्तमेवंगुणयुक्तम् 'अरतिः' संयमोद्विग्नता 'तत्र' तस्मिन् संयमे प्रवर्त्तमानं 'किं विधारयेत्' किं प्रतिस्खलयेत् ?, किंशब्दः प्रश्ने, किं तथाभूतमपि मोक्षप्रस्थितं प्रणाय्य विषयमरतिर्विधारयेत्, ओमित्युच्यते, तथाहि - दुर्बलान्यविनयवन्ति चेन्द्रियाण्यचिन्या मोहशक्तिर्विचित्रा कर्म्मपरिणतिः किं न कुर्यादिति, उक्तं च
॥१॥
"कर्माणि नूनं घणचिक्क णाई गरुयाई वइरसाराई । नाणअपि पुरिसं पंथाओ उप्पहं निंति "
"
दिवा किंक्षेपे, किं तथाभूतं विधारयेदरतिः ?, नैव विधायरयेदित्यर्थः तथाहि असी क्षणे क्षणे विशुद्धतरचरणपरिणामतया विष्कम्पितमोहनीयोदयत्वाल्लघुकर्म्मा भवतीति,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org