________________
आचाराङ्ग सूत्रम् 9/19/9/३ स एवंभूत आत्मा ममास्ति नास्तीति चएवंभूता संज्ञा केषाञ्चिदज्ञानावष्टब्धचेतसां न जायत इति तथा ‘कोऽहं' नारकतिर्यग् मनुष्यादिः पूर्वजन्मन्यासं?, को वा देवादिः 'इतो' मनुष्यादेर्जन्मः 'च्युतो' विनष्टः 'इह' संसारे 'प्रेत्य' जन्मान्तरे 'भविष्यामि' उत्पत्स्ये इति, एषा च संज्ञा न भवतीति ।। इह च यद्यपि सर्वत्र भावदिशाऽधिकारः प्रज्ञापकदिशा च, तथापि पूर्वसूत्रे साक्षाप्रज्ञापकदिगुपात्ताऽत्रतुभावदिगित्यवगन्तव्यम्। ननुचात्रसंसारिणां दिग्विदिगागमनादिजा विशिष्टा संज्ञा निषिध्यते न सामान्यसंज्ञेति, एतच्च संज्ञिनी धर्मिण्यात्मनि सिद्धे सति भवति, 'सति धम्मिणि धम्माश्चिन्त्यन्त' इति वचनात्, सच प्रत्यक्षादिप्रमाणगोचरातीतत्वाहुरुपपादः, तथाहि - नासावध्यक्षेणार्थसाक्षात्कारिणा विषयीक्रियते, तस्यातीन्द्रियत्वाद्, अतीन्द्रियत्वं च स्वभावविप्रकृष्टत्वाद्, अतीन्द्रियत्वादेव च तदव्यभिचारिकार्यादिलिङ्गसम्बन्धग्रहणासम्भवात् नाप्यनुमानेन, तस्याप्रत्यक्षत्वे तत् सामान्यग्रहणशक्त्यनुपपत्तेः नाप्युपमानेन, आगमस्यापि विवक्षायांप्रतिपाद्यमानायामनुमानान्तभीवाद्अन्यत्रच बाह्येऽर्थेसम्बन्धाभावादप्रमाणत्वं,प्रमाणत्वे वापरस्परविरोधित्वान्नाप्यागमेन, तमन्तरेणापिसकलार्थोपत्ते प्यर्थापत्त्या, तदेवंप्रमाणपञ्चकातीतत्वात्षष्ठप्रमाणविषयत्वादभाव एवात्मनः ।
प्रयोगश्चायम्-नास्त्यात्मा प्रमाणपञ्चकविषयातीतत्वात्, खरविषाणवदिति, तदभावेच विशिष्टसंज्ञाप्रतिषेधाभावसम्भवेनुत्थानमेव सूत्रस्येति, एतत्सर्वमनुपासितगुरोर्वचः, तथाहि - प्रत्यक्ष एवात्मा, तद्गुणस्य ज्ञानस्य स्वसंवित्सिद्धत्वात्, स्वसंविनिष्ठाश्च विषयव्यवस्थितयो, घटपटादीनामपिरूपादिगुणप्रत्यक्षत्वादेवाध्यक्षत्वमिति, मरणाभावप्रसङ्गाच्चन भूतगुणश्चैतन्यमाशङ्कनीयं, तेषां सदा सन्निधानसम्भवादिति, हेयोपादेयपरिहारोपादानप्रवृत्तेश्चानुमानेन परात्मनि सिद्धिर्भवतीति, एवमनयैवदिशोपमानादिकमपि स्वधिया स्वविषये यथासम्भवमायोज्यं, केवलं मौनीन्द्रेणानेनैवागमेन विशिष्टसंज्ञानिषेधद्वारेणाहमिति चात्मोल्लेखेनात्मसद्भावः प्रतिपादितः, शेषागमानां धानाप्तप्रणीतत्वादप्राणाण्यमेवेति । अत्र चास्त्यात्मेत्यनेन क्रियावादिनः सप्रभेदा नास्तीत्यनेन चाक्रियावादिन एतदन्तःपातित्वाच्चाज्ञानिकवैनयिकाश्च सप्रभेदा उपक्षिप्ताः,तेचामी ॥१॥ 'असियसयं किरियाणं अकिरियवाईण होइ चुलसीई।
अन्नाणिय सत्तट्ठी वेणइयाणंच बत्तीसा॥" तत्र जीवाजीवाश्रवबन्धपुण्यपापसंवरनिर्जरामोक्षाख्या नव पदार्थाः स्वपरभेदाभ्यां नित्यानित्यविकल्पद्वयेन च कालनियतिस्वभावेश्वरात्माश्रयणादशीत्युत्तरं भेदशतं भवति क्रियावादिनाम्, एते चास्तित्ववादिनोऽभिधीयन्ते, इयमत्र भावना-अस्ति जीवः स्वतो नित्यः कालतः १ अस्ति जीवः स्वतोऽनित्यः कालतः २ अस्ति जीवः परतो नित्यः कालतः ३ अस्ति जीवः परतोऽनित्यःकालतः ४इत्येवंकालेन चत्वारोभेदालब्धाः,एवं नियतिस्वभावेश्वरात्मभिरप्येकैकेन चत्वारश्चत्वारो विकल्पालभ्यन्ते, एतेच पञ्चचतुष्कका विंशतिर्भवति, इयंचजीवपदार्थेन लब्धा, एवमजीवादयोऽप्यष्टौ प्रत्येकं विंशतिभेदा भवन्ति, ततश्च नव विंशतयः शतमशीत्युत्तरं भवति १८० । तत्र स्वत इति स्वेनैव रूपेण जीवोऽस्ति, न परोपाध्यपेक्षया । ह्रस्वत्वदीर्घत्वे इव, नित्यः-शाश्वतो न क्षणिकः, पूर्वोत्तरकालयोरवस्थितत्वात्, कालत इति काल एव विश्वस्य स्थित्युत्पत्तिप्रलयकारणम् । उक्तं च
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org