SearchBrowseAboutContactDonate
Page Preview
Page 24
Loading...
Download File
Download File
Page Text
________________ श्रुतस्कन्धः - १, अध्ययनं-१, उद्देशक, तथा तिर्यञ्चो द्वीन्द्रियास्वीन्द्रियाश्चतुरिन्द्रियाः पञ्चेन्द्रियाश्चेति चतुर्द्धा, कायाः पृथिव्यप्तेजोवायवश्चत्वारः, तथाऽग्रमूलस्कन्धपर्वबीजाश्चत्वारएव, एतेषोडशदेवनारकप्रक्षेपादष्टादश, एभिभविर्भवनाजीवोव्यपदिश्यत इति भावदिगष्टादशभेदेति।।अत्रचसामान्यदिग्ग्रहणेऽपियस्यां दिशि जीवानामविगानेन गत्यागती स्पष्टे सर्वत्र सम्भवतस्तयैवेहाधिकार इति तामेव नियुक्तिकृत्साक्षाद्दर्शयति, भावादिक्चाविनाभाविनी सामर्थ्यादधिकृतैव, यतस्तदर्थमन्या दिशश्चिन्त्यन्त इत्यत आह - नि. [६१] पन्नवगदिसट्टारस भावदिसाओऽवितत्तिया चेव। इक्विकं विंधेजा हवंति अट्ठारसऽद्वारा ।।। नि. [६२] पण्णवगदिसाए पुणअहिगारो एत्थ होइ नायव्यो। जीवाण पुग्गलाण य एयासु गयागई अस्थि ।। वृ. प्रज्ञापकापेक्षयाअष्टादशभेदा दिशः, अत्रच भावदिशोऽपि तावप्रमाणाएव प्रत्येक सम्भवन्तीत्यतः एकैकां प्रज्ञापकदिशं भावदिगष्टादशकेन विन्धयेत् ताडयेद्, अतोऽष्टादशाष्टादशकाः, तेचसंख्यात्रीणि शतानिचतुर्विशत्यधिकानि भवन्तीति, एतच्चोपलक्षणंतापदिगादावपि यथासम्भवमायोजनीयमिति । क्षेत्रदिशि तु चतसृष्वेव महादिक्षु सम्भवो न विदिगादिषु, तासामेकप्रदेशिकत्वाच्चतुष्प्रदेशिकत्वाचेतिगाथाद्वयार्थः।।अयंचदिक्संयोगकलापः 'अण्णयरीओ दिसाओ आगओ अहमंसी'त्यनेन परिगृहीतः, सूत्रावयवार्थश्चायम्-इह दिग् ग्रहणात् प्रज्ञापकदिशश्चतन, पूर्वादिकाऊवधिोदिशौच परिगृह्यन्ते, भावदिशस्त्वष्टादशापि, अनुदिग् ग्रहणात्तुप्रज्ञापकविदिशो द्वादशेति,तत्रासंज्ञिनांनैषोऽवबोधोऽस्ति, संज्ञिनामपिकेषाञ्चिद्भवति कंषाञ्चिन्नेति, यथाऽहममुष्या दिशः समागत इहेति । 'एवेमेगेसिं णो णायं भवइत्ति' 'एव' मित्यनेन प्रकारेण, प्रतिविशिष्टष्टदिग्विदिगागमनं नैकेषां विदितं भवतीत्येतदुपसंहारवाक्यम्, एतदेव नियुक्तिकृदाहनि. [६३] केसिंचि नाणसण्णा अस्थि केसिंचि नस्थि जीवाणं। कोऽहं परंमि लोए आसी कयरा दिसाओ वा?॥ केषाञ्चिजीवानां ज्ञानावरणीयक्षयोपशमवतांज्ञानसंज्ञाऽस्ति, केषाञ्चित्तु तदावृत्तिमितां नभवतीति। यागमूता संज्ञान भवति तांदर्शयति-कोऽहंपरस्मिन् ‘लोके जन्मनिमनुष्यादिरासम्, अनेन भावदिग् गृहीता, कतरस्या वा दिशः समायात इत्यनेन तु प्रज्ञापकदिगुपात्तेति, यथा कश्चिन्मदिरामदधूर्णितलोललोचनोऽव्यक्तमनोविज्ञानोरथ्यामानिपतितस्यच्छाकृष्टश्वगणापलिह्यमानवदनो गृहमानीतोमदात्ययेनजानाति कुतोऽहमागत इति, तथा प्रकृतोमनुष्यादिरपीति गाथार्थः । न केवलमेषैव संज्ञा नास्ति अपराऽपि नास्तीति सूत्रकृ दाह - मू. (३) अस्थि मे आया उववाइए, नस्थि मे आया उववाइए, के अहं आसी? केवा इओ चुए इह पेचा भविस्सामि? वृ. 'अस्ति' विद्यते 'ममे'त्यनेन षष्ठन्तेन शरीरं निर्दिशति, ममास्य शरीरकस्याधिष्ठाता, अतति-गच्छति सततगतिप्रवृत्त आत्मा-जीवोऽस्तीति, किंभूतः ?-'औपपातिकः' उपपातःप्रादुर्भावोजन्माजन्मतरसंक्रान्तिः, उपपातेभव औपपातिकइति,अनेन संसारिणः स्वरूपं दर्शयति, Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003335
Book TitleAgam Sutra Satik 01 Aachar AngSutra 01
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages468
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 01, & agam_acharang
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy