________________
२४५
श्रुतस्कन्धः-१, अध्ययन-६, उद्देशक नानारूपाएव, प्रत्येकवनस्पतेर्दशयोनिलक्षाःसाधारणवनस्पतेश्चतुर्दशउभयरूपस्याप्यष्टाविंशतिः कुलकोटीलक्षाः, तत्रचगतोऽसुमनानन्तमपिकालं छेदनभेदनमोटनादिजनितानानारूपावेदना अनुभक्त्रास्ते, विकलेन्द्रियाणामपिद्वौद्वौयोनिलक्षौ कुलकोट्यस्तुद्वीन्द्रियाणांसप्तत्रीन्द्रियाणामष्टी चतुरिन्द्रियाणां नव, दुःखं तु क्षुत्पिपासाशीतोष्णादिजनितमनेकधाऽध्यक्षमेव तेषामिति, पञ्चेन्द्रियतिरश्चामपिचत्वारोयोनिलक्षाः कुलकोटीलक्षास्तुजलचराणामर्द्धत्रयोदशा पक्षिणांद्वादश चतुष्पदानांदशउरःपरिसप्पाणांदश भुजपरिसणांनववेदनाश्चनानारूपायास्तिश्चां रसम्भवन्ति ताः प्रत्यक्षा एवेति, उक्तंच॥१॥ "क्षुत्तृहिमात्युष्णभयार्दिताना, पराभियोगव्यसनातुराणाम्।
अहो ! तिरश्चामतिदुः-खितानां, सुखानुषङ्गः किल वार्तमेतद्" इत्यादि। मनुष्यगतावपि चतुर्दश योनिलक्षा द्वादश कुलकोटीलक्षाः, वेदनास्त्वेवम्भूता इति
“दुःखं स्त्रीकुक्षिमध्ये प्रथममिह भवे गर्भवासे नराणां, बालत्वे चापि दुःखं मललुलिततनुस्त्रीपयःपानमिश्रम् । तारुण्ये चापि दुःखं भवति विरहजं वृद्धभावोऽप्यसारः,
संसारे रे मनुष्या! वदत यदि सुखं स्वल्पमप्यस्ति किञ्चित् ॥२॥ बाल्यात्यमृति च रोगैर्दष्टोऽभिभवश्च यावदिह मृत्युः ।
शोकवियोगायोगैर्दुगतदोषैश्च नैकविधैः ॥३॥ क्षुहिमोष्णानिलशीतदाहदारिद्मशोकप्रियविप्रयोगैः ।
दौर्भाग्यमौख्यानभिजात्यदारयवैरुप्यरोगादिभिरस्वतन्त्रः" इत्यादि । देवगतावपिचत्वारोयोनिलक्षाः षड्विंशतिः कुलकोटीलक्षाः तेषामपीष्याविषादमत्सरच्यवनभयशल्यवितुधमानमनसा दुःखानुषङ्ग एव, सुखाभासाभिमानस्तु केवलमिति, उक्तंच॥१॥ "देवेषुच्यवनवियोगदुःखितेषु, क्रोधेष्यामदमदनातितापितेषु।
आर्या! नस्तदिह विचार्य संगिरन्तु, यत्सौख्यं किमपि निवेदनीयमस्ति"
इत्यादि । तदेवंचतुर्गतिपतिताः संसारिणोनानारूप कर्मविपाकमनुभवन्तीत्येतदेव सूत्रेण दयितुमाह-सन्ति विद्यन्ते प्राणाः'प्राणिनः 'अन्धा' चक्षुरिन्द्रियविकला भावान्धाअपिसद्विवेकविकलाः 'तमुसि' अन्धकारे नरकगत्यादौ भावान्धकारेऽपि च मिथ्यात्वाविरतिप्रमादषायादिके कर्मविपाकापादिते व्यवस्थिता व्याख्याताः
किं च-तामेवावस्थां कुष्ठाद्यापादितामेकेन्द्रियापर्याप्तकादिकां वा सकृदनुभूय कर्मोदयात्तामेव असकृद्-अनेकशोऽतिगत्योच्चवचान्-तीव्रमन्दान् स्पर्शन-दुःखविशेषान् 'प्रतिसंवेदयत्ति' अनुभवति । एतच तीर्थकृभिरावेदितमित्याह-'बुद्धैः' तीर्थकृभिः 'एतद्' अनन्तरोक्तं प्रकर्षणादौ वा वेदितं प्रवेदितम् । एतच्च वक्ष्यमाणं प्रवेदितमित्याह-'सन्ति' विद्यन्ते 'प्राणाः'प्राणिनो वासकाः' 'वासूशब्दकुत्सायां वासन्तीतिवासकाः-भाषालब्धिसम्पन्ना द्वीन्द्रियादयः,तथारसमनुगच्छन्तीतिरसगाः-कटुतिक्तकषायादिरसवेदिनः संज्ञिनइत्यर्थः, इत्येवम्भूतः कर्मविपाकः संसारिणांसम्प्रेक्ष्य इति सम्बन्धः, तथा-'उदके' उदकरुपाएवैकेन्द्रिया जन्तवः पर्याप्तकापर्याप्तकभेदेन व्यवस्थिताः, तथा उदकेचरन्तीत्युदकचराः-पूतरकच्छेदनकलोडणकत्रसा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org