________________
२४६
आचाराङ्गसूत्रम् 9/14/9/१९०
मत्स्यकच्छपादयः, तथास्थलजाअपिकेचनजलाश्रितामहोरगादयः पक्षिणश्च केचनतद्मतवृत्तयो द्रष्टव्याः, अपरे तु आकाशगामिनः पक्षिणः, इत्येवं सर्वेऽपि प्राणाः' प्राणिनोऽपरान् प्राणिनः आहाराद्यर्थंमत्सरादिना वाक्लेशयानिउपतापयन्तिायद्येवंततः किमित्यतआह-पश्य' अवधारय 'लोके' चतुर्दशरज्वात्मके, कर्मविपाकासकाशात् ‘महद्भयं' नानागतिदुःखक्लेशविपाकात्मकमिति ॥ किमिति कर्मविपाकान्महद्भयमित्याह
मू. (१९१) बहुदुक्खा हुजन्तवो, सत्ता कामेसु माणवा, अवलेण वहं गच्छन्ति सरीरेण पभंगुरेण अट्टे से बहुदुक्खे इइ बाले पकुब्बइ एए रोगा बहू नचा आउरा परियावए नालं पास, अलं तवेएहि, एयं पास मुनी ! महब्मयं नाइवाइज कंचनं।
वृ. बहूनि दुःखानि कर्मविपाकापादितानि येषां जन्तूनां ते तथा, हुर्यस्मादेवं तस्मात्तत्राप्रमादवता भाव्याकिमित्येवं भूयो भूयोऽपदिश्यतइत्यतआह-यस्मादनादिभवाभ्यासेनागणितोत्तरपरिणामाः 'सक्ताः' गृद्धाः 'कामेषु' इच्छामदनरूपेषु 'मानवाः' पुरुषा इत्यतो न पुनरुक्तदोषानुषङ्गः । कामासक्ताश्च यदवाप्नुवन्ति तदाह-बलरहितेन निःसारेण तुषमुष्टिकल्पेनौदारिकेणशरीरेण प्रभङ्गुरेण स्वतएव भङ्गशीलेन तत्सुखाधानाय कर्मोपचित्याऽनेकशो वधं गच्छन्ति, कः पुनरसौ विपाककटुकेषु कामेषु यो रतिं विदध्यादित्याह-मोहोदयादातः अगणितकार्याकार्यविवेकः सोऽसुमान्बहुदुःखप्राप्तव्यमनेनेति बहुदुःखइत्येनंकामानुषपंप्राणिनां क्लेशंवा 'बालो' रागद्वेषाकुलितः प्रकर्षेण करोति प्रकरोति, तज्जनितकर्मविपाकाच अनेकशो वधं गच्छति, यदिवा रोगेषु सत्सु इत्येतद्वक्ष्यमाणं बालोऽज्ञः प्रकरोति तदाहएतान्गण्डकुष्ठराजयक्ष्मादीन् रोगान् बहुमूत्पन्नानिति ज्ञात्वा तद्रोगवेदनया आतुराः सन्तः चिकित्साय प्राणिनः परितापयेयुः, “लावकादिपिशिताशिनः किल क्षयव्याध्युपशमः स्यादि' त्यादिवाक्याकर्णनाञ्जीविताशयागरीयस्यपिप्राण्युपमर्देप्रक्र्तेरन्, नैतदबधारयेयुः यथा-स्वकृताबन्ध्यकर्मविपा. कोदयादेतत्, तदुपशमाचोपशमः, प्राण्युपमर्दचिकित्सया च किल्बिषानुषङ्ग एवेति, एतदेवाहपश्यैतद्विमलविवेकावलोकनेन यथा 'नालं नसमर्थाः चिकित्साविधयः कर्मोदयोपशमं विधातुं, यद्येवं ततः किं कर्वयमिति दर्शयति___ 'अलं' पर्याप्तं तव' सदसद्विवेकिनः ‘एभिः' पापोपादानभूतैश्चिकित्साविधिभिरिति । किं च-'एतत् प्राण्युपमर्दादिकं पश्य' अवधारय हे 'मुने' ! जगत्त्रयस्वभाववेदिन, महद्बृहद्भयहेतुत्वाद्भय, यद्येवंततः किंकुर्यादितिदर्शयति-नातिपातयेत् नहन्यातकञ्चन ग्राणेनं, यत एकस्मिन्नपि प्राणिनि-हन्यमानेऽष्प्रकारमपि कर्म बध्यते, तच्चानुत्तारसंसारगमनायेत्यतो महाभयमिति, यदिवा एए रोगे बहू नच्चेत्यादिको ग्रन्थः कामानधिकृत्य नेयः, एतान् रोगरूपान् कामान् बहून् ज्ञात्वा आसेवनाप्रज्ञयेति आतुरा:-कामेच्छान्धा अपरान् प्राणिनः परितापयेयुः इत्यादिनापरक्रमेणेति। तदेवंरोगकामातुरतयासावधानुष्ठानप्रकृतानामुपदेशदानपुरस्सरं महाभयं प्रदर्श्य तद्विपर्यस्तानां सस्वरूपां गुणवत्ता दिदर्शयिषुः प्रस्तावमारचयन्नाह
मू. (१९२) आयाण भोसुस्सूस! भोधूयवायंपवेयइस्सामि इह खलु अत्तताए तेहिं तेहिं कुलेहि अभिसेएणअभिसंभूया अभिसंजायाअभिनिबुडाअभिसंवुड्ढाअभिसंबुद्धाअभिनिता अनुपुब्वेण महामुनी।
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org