________________
२४४
आचाराङ्ग सूत्रम् १/-/६/१/१८९ येन गण्डादिरोगाणां मरणोपपातयोश्चात्यन्तिकोऽभावो भवति, किं च कर्मणां मिथ्यात्वाविरतिप्रमादकषाययोगाहितानामबाधोत्तरकालमुदयावस्थायं परिपाकं च 'सम्यप्रेक्ष्य' शारीरमानसदुःखोत्पादकं पर्यालोच्य तदुच्छित्तये यतितव्यं ॥ स च करुणं स्तनन्तीत्यादिना ग्रन्थेनोपपातच्यवनावसानेनावेदितोऽपि पुनरपि तद्गरीयस्त्वख्यापनाय प्राणिनां संसारे निर्वेदवैराग्योत्पत्त्यर्थमभिधित्सुकाम आह
मू. (१९०) मरणं तेसिंसंपेहाए उववायं चवणं नच्चा परियागं च संपेहाए तं सुणेह जहा तहा संति पाणा अंधा तमसि वियाहिया, तामेव सई असई अइअच्च उच्चावयफासे पडिसंवेएइ, बुद्धेहिं एयं पवेइयं - संति पाणा वासगा रसगा उदए उदएचरा आगासगामिणो पाणा पाणे किलेसंति, पास लोए महब्भयं ।
॥३॥
बृ. 'तं' कर्म्मविपाकं यथावस्थितं तथैव ममावेदयतः श्रृणुत यूयं तद्यथा-नारकतिर्यङ्नरामरलक्षणाश्चतस्रो गतयः, तत्र नरकगती चत्वारो योनिलक्षाः पञ्चविंशतिकुलकोटिलक्षाः त्रयस्त्रिंशत्सागरोपमाण्युत्कृष्टा स्थितिः वेदनाश्च परमाधार्मिकपरस्परोदीरितस्वाभाविकदुःखानां नारकाणां या भवन्ति ता वाचामगोचराः, यद्यपि लेशतश्चिकथयिषोरभिधेयविषयं न वागवतरति तथाऽपि कर्म्मविपाकावेदनेन प्राणिनां वैराग्यं यथा स्यादित्येवमर्थं श्लोकैरव किश्चिदभिधीयते॥१॥“ श्रवणलवनं नेत्रोद्धारं करक्रमपाटनं, हृदयदहनं नासाच्छेदं प्रतिक्षणदारुणम् । कटविदहनं तीक्ष्णापातत्रिशूलविभेदनं, दहनवदनैः करैः समन्तविभक्षणम् ॥ २ ॥ तीक्ष्णैरसिभिर्दीप्तैः कुन्तैर्विषमैः परश्वधैश्वक्रः । परशुत्रिशूलमुद्गरतोमरवासीमुषण्ढीभिः सम्भिन्नतालुशिरस श्छिन्नभुजाश्छिन्नकर्णनासौष्ठाः । भिन्नहृदयोररान्त्रा भिन्नाक्षिपुटाः सुदुःखार्त्ताः निपतन्त उत्पतन्तो विचेष्टमाना महीतले दीनाः । नेक्षन्ते त्रातारं नैरयिकाः कर्म्मपटलान्धाः छिद्यन्ते कृपणाः कृतान्तपरशोस्तीक्ष्णेन धारासिना, क्रन्दन्तो विषवीचि (वच्छ्व) भिः परिवृताः संभक्षणव्यापृतैः । पाट्यन्तेक्रकचेन दारुवदसितिप्रच्छिन्नबाहुद्वयाः, कुम्भीषु त्रपुपानदग्धतनवो मूषासु चान्तर्गताः भृज्यन्ते ज्वलदम्बरीषहुतभुग्ज्वालाभिराराविणो, दीप्ताङ्गारनिभेषु वज्रभवनेष्वङ्गारकेषूत्थिताः । दह्यन्ते विकृतोध्वबाहुवदनाः क्रन्दन्त आर्त्तस्वनाः, पश्यन्तः कृपणा दिशो विशरणास्त्राणाय को नो भवेत् ? इत्यादि । तथा तिर्यग्गतौ पृथिवीकायजन्तूनां सप्त योनिलक्षा द्वादश कुलकोटिलक्षाः स्वकायपरकायशस्त्राणि शीतोष्णादिका वेदनाः, तथाऽकायस्यापि सप्त योनिलक्षाः सप्त च कुलकोटिलक्षाः वेदना अपि नानारूपा एव, तथा तेजस्कायस्य सप्त योनिलक्षाः त्रयः कुलकोटीलक्षाः पूर्ववद्वेदनादिकं, वायोरपि सप्त योनिलक्षाः सप्त च कुलकोटीलक्षाः वेदना अपि शीतोष्णादिजनिता
..
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
॥ ४ ॥
॥ ५॥
॥६॥