________________
श्रुतस्कन्धः - १, अध्ययनं - ६, उद्देशक १
२३९
अध्ययनं -६ धूतं
वृ. उक्तं पञ्चममध्ययनं, साम्प्रतं षष्ठमारभ्यते, अस्य चायमभिसम्बन्धः - इहानन्तराध्ययने लोकसारभूतः संयमो मोक्षश्च प्रतिपादितः, स च निःसङ्गताव्यतिरेकेण कर्म्मधुननमन्तरेण च न भवतीत्यस्तव्प्रतिपादनार्थमिदमुप्रक्रम्यत इत्यनेन सम्बन्धेनायातस्यास्याध्ययनस्य चत्वार्यनुयोगद्वाराणि भवन्ति, तत्रोपक्रमेऽर्थाधिकारो द्वेधा - अध्ययनार्थाधिकार उद्देशार्थाधिकारश्च, तत्राध्ययनार्थाधिकारः प्रागभाणि, उद्देशार्थाधिकारं तु निर्युक्तिकारी बिभणिषुराह -
नि. [२५० ] पढमे नियगविहुणणा कम्माणं बितियए तइयगंमि । उवगरणसरीराणं चउत्थए गारवतिगस्स ॥
वृ. प्रथमोद्देशके निजकाः स्वजनास्तेषां विधूननेत्ययमर्थाधिकारः, द्वितीये कर्म्मणां, तृतीये उपकरणशरीराणां, चतुर्थे गौरवत्रिकस्य, विधूननेति सर्वत्र सम्बन्धनीयम्, उपसर्गाः सन्माननानि च, यथा साधुभिर्विधूतानि तथा पञ्चमोद्देशके प्रतिपाद्यत इत्यर्थाधिकारं परिसमापय्य निक्षेपमाह-स चत्रिधा, तत्रौघनिष्ठपन्नेऽध्ययनं, नामनिष्पत्रे तु धूतं तच्च चतुर्द्धा, तत्रापि नामस्थापने सुगमत्वादनाध्त्य द्रव्यभावधूतप्रतिपादनाय गाथाशकलम् -
नि. [२५१] उवसग्गा सम्माणयविहू आणि पश्ञ्चमंमि उद्देसे । दव्वधुयं क्त्याई भावधुयं कम्म अड्डविहं ।।
वृ. द्रव्यधूतं द्विधा - आगमतो नोआगमतश्च, आगमतो ज्ञाता तत्र चानुपयुक्तः, नोआगमतस्तु ज्ञशरीरभव्यशरीरव्यतिरिक्तं द्रव्यधूतं द्रव्यं च तद्वस्त्रादि धूतं च रजोऽपनयनार्थं द्रव्यधूतं, आदिग्रहणावृ क्षादि फलार्थं, भावधूतं कर्म्माष्टविधं तद्विमोक्षार्थं धूयत इति गाथाशकलार्थः ॥ पुनरप्येनमेवार्थं विशेषतः प्रतिपादयितुमाहनि. [२५२]
अहियासित्वसग्गे दिव्वे माणुस्सए तिरिच्छे य । जो विहुणइ कम्माई भावधुयं तं वियाणाहि ।।
वृ. अधिकमास ह्यात्यर्थं सोवा, कानतिसह्य ? –उपसर्गान् किंभूतान् ? - दिव्यान्मानुषांस्तैरश्चांश्च यः कर्माणि संसारतरुबीजानि विधुनाति अपनयति तद्भावधुतमित्येवं जानीहि, क्रियाकारकयोरभेदाद्वा कर्म्मधूननं भावधूतं जानीहीति भावार्थः ।। गतो नामनिष्पन्नो निक्षेपः, साम्प्रतं सूत्रानुगमेऽस्खलितादिगुणोपेतं सूत्रमुच्चारयितव्यं, तच्चेदम्
-: अध्ययनं -६- उद्देशकः-१ :
मू. (१८६) ओबुज्झमाणे इह माणवेसु आघाइ स नरे, जस्स इमाओ जाइओ सव्वओ सुपडिलेहियाओ भवंति, आघाइ से नाणमणेलिसं, से किट्ठइ तेसिं समुट्ठियाणं निक्खित्तदण्डाणं समाहियाणं पत्राणमंताणं इह मुत्तिमग्गं, एवं (अवि) एगे महावीरा विष्परिक्क मंति, पासह एगे अवसीयमाणे अणत्तपन्ने से बेमि,
--
से जहावि कुंमे हरए विणिविट्ठचित्ते पच्छन्नपलासे उम्मग्गं से नो लहइ भंजगा इव संनिवेसं नो चयंति एवं एगे अनेगरूवेहिं कुलेहिं जाया रूवेहिं सत्ता कलुणं थणंति नियाणओ ते न लभंति मुक्ख, अह पाप तेहि कुलेहिं आयत्ताए जाया,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org