________________
२४०
आचाराङ्ग सूत्रम् 9/16//१८६
वृ. स्वर्गापवर्गौ तत्कारणानि च तथा संसारं तत्कारणानि चवबुध्यमानोऽनावारकज्ञानसभावाद् इह ति मर्त्यलोके मानवेषुविषयभूतेषुधाख्याति स नरोभवोपग्राहिकर्मस
द्भावात्मनुष्यभावव्यवस्थितःसन्धर्ममाचष्टे, नपुनर्यथा शाक्यानांकुड्यादिभ्योऽपिधर्मदेशनाः प्रादुष्यन्ति, यथा वा वैशेषिकाणामुलूकमावेन पदार्थाविर्भावनम्, एवमस्माकंन, कथं ?धातिकर्मक्षयेतूत्पन्ननिरावरणज्ञानोमनुष्यभावापन्नएव कृतार्थोऽपिसत्त्वहिताय सदेवमनुजायां पर्षदि कथयतीति।
किं तीर्थकर एव धर्ममाचष्टे उतान्योऽपि ?, अन्योऽपि यो विशिष्टज्ञानः सम्यक्पदार्थपरिच्छेदी स धर्माविर्भावनं करोतीति दर्शयितुमाह-यस्यातीन्द्रियज्ञानिनः श्रुतकेवलिनो वा 'इमाः' शस्त्रपरिज्ञायां साधितत्वात् प्रत्यक्षवाचिनेदमाऽभिहिताः 'जातयः' एकेन्द्रियादयः 'सर्वतः सर्वैःप्रकारैः सूक्ष्मबादरपर्याप्तकापर्याप्तकरूपै सुष्ठु-शङ्कादिव्युदासेन 'प्रत्युपेक्षिताः' प्रति उप-सामीप्येन ईक्षिताः-ज्ञाता भवन्तिसधर्ममाचष्टेनापरइति । इदमेवाह-'आख्याति कथयति तीर्थकृत्सामा-न्यकेवली अपरो वाऽतिशयज्ञानी श्रुतकेवली वा, किमाख्याति?
'ज्ञान' ज्ञायन्ते परिच्छिद्यन्ते जीवादयः पदार्थाः येन तज्ञान-मत्यादि पञ्चधा, किम्भूतं ज्ञानमाख्याति ?- 'अनीशं' नान्यत्रेमस्तीत्यनी शं, यदिशव सकलसंशयापनयनेन धर्ममाचक्षाण एवस आत्मनो ज्ञानमनन्यसध्शमाख्याति । केषांपुनःसधर्ममाचष्ट इत्यत आह - 'स' तीर्थकृद्गणधरादिः कीर्तियति' यथावस्थितान् भावान्प्रतिपादयति 'तेषां धर्माचरणाय सम्यगुत्थितानां, यदिवा उत्थिताद्रव्यतोमावतश्च, तत्रद्रव्यतः शरीरेण भावतो ज्ञानादिभिः, तत्र स्त्रियः समवसरणस्था उभयथाऽप्युत्थिताः शृण्वन्ति, पुरुषास्तुद्रव्यतो भाज्याः, भावोस्थितानां तुधर्ममावेदयति उत्तिष्ठासूनांचदेवानां तिरश्चांच, येऽपिकौतुकादिना श्रृण्वन्ति तेभ्योऽप्याचष्टे, भावसमुत्थितान् विशिशेषयिषुराह -
निक्षिप्ताः संयमिताः मनोवाक्कायरूपाः प्राण्युपमर्दकारित्वाद्दण्डा इव दण्डा यैस्ते तथा तेषां निक्षिप्तदण्डाना, तथा समाहिताणं सम्यगाहिताः तपःसंयमउद्युक्ताः समाहिताअनन्यमनस्कास्तेषां, तथा प्रकर्षेण ज्ञायतेऽनेनेति प्रज्ञानं तद्वतां सश्रुतिकानाम् ‘इह' अस्मिन्मनुष्यलोके 'मुक्तिमार्ग ज्ञानदर्शनचारित्रात्मकंकीर्तयतीतिसम्बन्धः। तस्यचतीर्थकृत साक्षाद्धर्ममावेदयतः केचन लघुकणिस्तथैव प्रतिपद्य धर्मचरणायोद्यच्छन्त्यपरे त्वन्यथेत्येततिपादयितुमाहअपिशब्दश्चार्थे, चशब्दश्चवाक्योपन्यासार्थे, एवंचतीर्थकृताऽऽवेदिते सत्येके-लब्धकर्मविवरा विविधंसंयमसङग्रामशिरसिपराक्रमन्ते, परान्वाइन्द्रियकमरिपून आक्रमन्ते पराक्रमन्तइति
एतद्विपर्ययमाह-साक्षात्तीर्थकरे सकलसंशयच्छेत्तरि धर्ममावेदयति सत्येकान् प्रबलमोहोदयावृतान् संयमेऽवसीदतः पश्यत यूयं, किम्भूतानित्याह-नात्यने हिता प्रज्ञा येषां ते अनात्मप्रज्ञास्तानिति, कुतः पुनः संयमानुष्ठानेऽवसीदन्ति इत्यारेकायां सोऽहं ब्रवीमि । अत्र दृष्टान्तद्वारेण सोपपत्ति किं कारणमित्याह - सेशब्दस्तच्छब्दार्थे, अपिशब्दश्चार्थे, स च वाक्योपन्यासार्थः, तद्यथाच कूर्मोमहादेविनिविष्टंचित्तंयस्यासौ विनिविष्टचित्तो-गार्द्धयमुपगतः पलाशैः-पत्रैःप्रच्छनःपलाशप्रच्छनः,सूत्रेतुप्राकृतत्वात्ययः, उम्मगतिविवरंउन्मज्यतेऽनेनेति वोन्मज्यम, उद्धर्वं वा मार्गमुन्मार्ग, सर्वथा अरन्ध्रमित्यर्थः, तदसौ न लभतः इत्यक्षरार्थः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org