________________
२३८
आचाराङ्ग सूत्रम् 9-1५/६/१८४ 'ओजः' एकोऽशेषमलकलारहितः, किंच-न विद्यते प्रतिष्ठानमौदारिकशरीरादेः कर्मणो वा यत्र सोऽप्रतिष्ठानो-मोक्षस्तस्य 'खेदज्ञो' निपुणो, यदिवा अप्रतिष्ठानो-नरकस्तत्र स्थित्यादिपरिज्ञानतयाखेदज्ञो, लोकनाडिपर्यन्तपरिज्ञानावेदनेनचसमस्तलोकखेदज्ञताआवेदिता भवति।सर्वस्वरनिवर्तनंच येनाभिप्रायेणोक्तवांस्तमभिप्रायमाविष्कुर्वनाह-'स' परमपदाध्यासी लोकान्तक्रोशषड्भागक्षेत्रावस्थानोऽनन्तज्ञानदर्शनोपयुक्तः संस्थानमाश्रित्य न दीर्घो न ह्रस्वो नवृत्तो न त्र्यम्रोन चतुरस्रोन परिमडण्लो वर्णमाश्रित्य न कृष्णो न नीलो नलोहितोन हारिद्रोन शुक्लो गन्धमाश्रित्य न सुरभिगन्धो न दुरभिगन्धो।
-रसमाश्रित्यन तिक्तो न कटुको न कषायो नाम्लो न मधुरः स्पर्शमाश्रित्य न कर्कशोन मृदुर्न लघुर्न गुरुर्न शीतो नोष्णो न स्निग्धो न रुक्षो 'न काऊ इत्यनेन लेश्या गृहीता, यदिवा न कायवान् यथा वेदान्तवादिनाम्-“एक एव मुक्तात्मा तत्कायमपरे क्षीणक्लेशा अनुप्रविशन्ति आदित्यरश्मय इवांशुभन्तमिति, तथा न रुहः 'रुह बीजजन्मनि प्रादुर्भावेच' रोहतीति रुहः, न रुहोऽरुहः, कर्मवीजाभावादनपुनर्भावीत्यर्थः,नपुनर्यथाशाक्यानांदर्शननिकारतोमुक्तात्मनोऽपि पुनर्भवोपादानमिति, उक्तं च॥१॥ "दग्धेन्धनः पुनरुपैति भवंप्रमथ्य, निर्वाणमप्यनवधारितभीरुनिष्ठम् ।
मुक्तिः स्वयंकृतभवश्च परार्थशूरस्त्वच्छासनप्रतिहतेष्विह मोहराज्यम्॥"
तथाचन विद्यतेसङ्गोऽमूर्तत्वाद्यस्य स तथा, तथानस्त्रीनपुरुषो नान्यथेति-न नपुंसकः, केवलं सर्वैरात्मप्रदेशैः परिः-समन्ताद्विशेषतोजानातीतिपरिज्ञः, तथा सामान्यतः सम्यग्जानातिपश्यतीतिसंज्ञः,ज्ञानदर्शनयुक्तइत्यर्थः,यदिनामस्वरूपतोनज्ञायतेमुक्तात्मा तथाऽप्युमपाद्वारेणादित्यगतिरिवज्ञायत एवेतिचेत्, तन्न, यतआह-उपमीयतेसाश्यात् परिच्छिद्यतेययासोपमातुल्यता सा मुक्तात्मनस्तज्ञानसुखयोर्वा न विद्यते, लोकातिगत्वात्तेषा, कुत एतदिति चेदाह -
-तेषां मुक्तात्मनांया सत्तासाअरूपिणी, अरूपित्वंच दीर्घादिप्रतिषेधेन प्रतिपादितमेव किंच-न विद्यतेपदम् अवस्थाविशेषोयस्यसोऽपदः, तस्य पद्यते-गम्यतेयेनार्थस्तत्पदम्-अभिधानं तच 'नास्ति' न विद्यते, वाच्यविशेषाभावात्, तथाहि-योऽभिधीयतेसशब्दरूपगन्धरसस्पर्शान्यतरविशेषेणाभिधीयते, तस्य च तदभाव इत्येतद्दर्शयितुमाह, यदिवा दीर्घ इत्यादिना रूपादिविशेषनिराकरणं कृतं, इह तु तत्सामान्यनिराकरणं कर्तुकाम आह
मू. (१८५) से न सद्दे न रुवे न गंधे न रसे न फासे, इच्छेव-तिबेमि।।
वृ.'स' मुक्तात्मानशब्दरूपः नरूपात्मान गन्धः नरसः नस्पर्श इत्येतावन्त एव वस्तुनो भेदाः स्युः, तप्रतिषेधाच नापरः कश्चिद्विशेषः सम्भाव्यते येनासौ व्यपदिश्यतेति भावार्थः । इतिरधिकारपरिसमाप्ती, ब्रवीमीति पूर्ववत् । गतः सूत्रानुगमः तद्गतौ चापवर्गमाप्त उद्देशकः तदपवर्गावाप्तौ च नयवक्तव्यताऽतिदेशात्समाप्तं ।
अध्ययनं-५-उद्देशकः-६ समाप्त ः
अध्ययनं-५-समाप्तम् मुनि दीपरल सागरेण सम्पादिता-संशोधिता शीलाचार्येणविरधिता
प्रथमश्रुतस्कन्ये पंचमअध्ययनटीका परिसमाप्ताः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org