________________
श्रुतस्कन्धः - १, अध्ययनं ५, उद्देशकः ६
२३७
'अत्र' अस्मिन् भावावर्ते विषयरूपे 'वेदविद्' आगमविद् 'विरमेद्' आनवद्वारनिरोधं विदध्यात्, पाठान्तरं वा 'विवेगं किट्टइ वेदवी" आनवद्वारनिरोधेन तज्जनितकर्म्मविवेकम् - अभावं 'कीर्त्तयति' प्रतिपादयति वेदविदिति । आम्रवद्वारनिरोधेन च यत्स्यात्तदाहस्रोतः- आम्रवद्वारं तद्विनेतुम् अपनेतुं 'निष्क्रम्य' प्रव्रज्य 'एष' इति प्रत्यक्षः प्रस्तुतार्थस्य चावश्यभावित्वादेष इति प्रत्यक्षवाचिना सर्वनाम्नोक्तो यः कश्चिदित्यर्थः 'महान्' महापुरुषः अतिशयिकम्र्म्मविधायी, एवम्भूतश्च किंविशिष्टः स्यादिति दर्शयति
-
- 'अकर्म्मा' नास्य कर्म्मविद्यतइत्यकर्म्मा, कर्म्मशब्देन चात्र घातिकर्म्मविवक्षितं, तदभावाच जानाति विशेषतः पश्यति च सामान्यतः सर्वाश्च लब्धयो विशेषोपयुक्तस्य भवन्तीत्यतः पूर्वं जानाति पश्चाच्च पश्यति, अनेन च क्रमोपयोग आविष्कृतः, स चोत्पन्नदिव्यज्ञानस्त्रैलोक्यललामचूडामणिः सुरासुरनरेन्द्रैकपूज्यः संसारार्णवपारवत्र्त्तीविदितवेद्यः सन् किं कुर्यादित्याह स हि ज्ञातज्ञेयः सुरासुरनरोपहितां पूजामुपलभ्य कृत्रिमामनित्यामसारां सोपाधिकां च 'प्रत्युपेक्ष्य' प्रयालीच्य हृषीकविजयजनितसुखनिःस्पृहतया तां नाकाङ्क्षति - नाभिलषतीति । किंच - 'इह' अस्मिन् मनुष्यलोके व्यवस्थितः सन् उत्पन्नज्ञानः प्राणिनामागतिं गतिं च संसारभ्रमणं तत्कारणं च ज्ञपरिज्ञया ज्ञात्वा प्रत्याख्यानपरिज्ञया निराकरोति ॥ तन्निराकरणे च यत्स्यात्तदाह
मू. (१८४) अच्चेइ जाईमरणस्स वट्टमग्गं विक्खायरए, सव्वे सरा नियट्टंति, तक्का जत्थ न विज्जइ, मई तत्थ न गाहिया, ओए, अप्पइट्टाणस्स खेयन्ने, से न दीहे न हस्से न वट्टे न तंसे न चउरंसे न परिमंडले न किण्हे न नीले न लोहिए न हालिद्दे न सुक्किल्ले न सुरभिगंधे न दुरभिगंधे । -न तित्ते न कडुए न कसाए न अंबिले न महुरे न कक्खडे न मउए न गरुए न लहुए न उहे न निद्धे न लुक्खे न काऊ न रुहे न संगे न इत्थी न पुरिसे न अन्नहा परिने सन्ने उवमा न विजए, अरूवी सत्ता, अपयस्स पयं नत्थि ।
A
वृ. 'अत्येति' अतिक्रामति जातिश्च मरणं च जातिमरणं तस्य 'वट्टमग्गं' ति पन्यानं मार्गं उपादानं कर्मेतियावत्, तदत्येति - अशेषकर्म्मक्षयंविधत्ते, तत्क्षयाच्च किंगुणः स्यादित्याह-विविधम्अनेकप्रकारं प्रधानपुरुषार्थतयाऽऽरब्धशास्त्रार्थतया तपःसंयमानुष्ठानार्थत्वेन व्याख्यातो मोक्षःअशेषकर्मक्षयलक्षणो विशिष्टाकाशप्रदेशाख्यो वा तत्र रतो व्याख्यातरतः, आत्यन्तिकैकान्तिकानाबाधसुखक्षायिकज्ञानदर्शनसंपदुपेतोऽनन्तमपि कालं संतिष्ठते ।
-किम्भूत इति चेत्, न तत्र शब्दानां प्रवृत्तिः, नच साकाचिदवस्थाऽस्ति या शब्दैरभिधीयेत इत्येतत्प्रतिपादयितुमाह- 'सर्वे' निरवशेषाः 'स्वरा' ध्वनयस्तस्मान्निवर्त्तन्ते, तद्वाच्यवाचकसम्बन्धे न प्रवर्त्तन्ते, तथाहि शब्दाः प्रवर्त्तमाना रूपरसगन्धस्पर्शानामन्यतमे विशेषे सङ्केतकालगृहीते तत्तुल्ये वा प्रवर्तेरन्, न चैतत्तत्र शब्दादीनां प्रवृत्तिनिमित्तमस्ति, अतः शब्दानभिधेया मोक्षावस्थेति । न केवलं शब्दानभिधेया, उत्प्रेक्षणीयाऽपि न सम्भवतीत्याह
-सम्भवत्पदार्थविशेषास्तित्वाध्यवसायऊहस्तर्क:- एवमेवं चैतत्स्यात्, सच यत्र न विद्यते ततः शब्दानां कुतः प्रवृत्तिः स्यात् ? । किमिति तत्र तक्कभाव इति चेदाह - मननं मतिः- मनसो व्यापारः पदार्थचिन्ता सौत्पत्तिक्यादिका चतुर्विधाऽपि मतिस्तत्र न ग्राहिका, मोक्षावस्थायाः सकलविकल्पातीतत्वात्, तत्र च मोक्षे कम्र्मांशसमन्वितस्य गमनमाहोश्चिन्निष्कर्मणः ?, न तत्र कर्भसमन्वितस्य गमनमस्तीत्येतद्दर्शयितुमाह
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org