________________
२३६
आचाराङ्ग सूत्रम् १/-/५/६/१८० तन्निराकरणंच सर्वज्ञप्रवादं निराकार्यं च तीर्थिकप्रवादमेभिस्त्रिभिः प्रकारैर्जानीयादित्याह - मननं मतिः-ज्ञानं ज्ञानावरणीयक्षयक्षयोपशमान्यतरसद्भावानन्तरमेव सहसा --तत्क्षणमेव मत्या प्रातिभबोधावध्यादिज्ञानेन परिच्छिन्द्यात् सहवा ज्ञानेन ज्ञेयं सच्छोभनया मिथ्यात्वकलङ्काङ्करहितया मत्याऽवगच्छेत्, स्वपरावभासकत्वान्मतेरिति, कदाचित्परव्याकरणेनाप्यवगच्छेत् परः - तीर्थकृतस्य तेन वा व्याकरणं यथावस्थितार्थप्रज्ञापनम् आगमः परव्याकरणं तेन वा जानीयात्, तथाऽप्यनवगमेऽन्येषामाचार्यादीनां अन्तिके श्रुत्वा यथावस्थितवस्तुसद्भावमवधारयेद् ।।
अवधार्य च किं कुर्यादित्याह -
मू. (१८१) निद्देसं नाइवट्टेखा मेहावी सुपडिलेहिया सव्वओ सव्वष्पणा सम्मं समभिण्णाय, इह आरामो परिव्वए निट्ठियट्ठी वीरे आगमेण सया परक्क मेज्जासि-त्तिबेमि ।
बृ. निर्दिश्यत इति निर्देशः तीर्थकराद्युपदेशस्तं नातिवर्तेत 'मेघावी' मर्यादावानिति । किं कृत्वा निर्देशं नातिवर्तेतेत्यत आह-सुष्ठु प्रत्युपेक्ष्य हेयोपदेयतया तीर्थिकवादान् सर्वज्ञवादं च 'सर्वतः सर्वैः प्रकारैर्द्रव्यक्षेत्रकालभावरूपैः सर्वात्मनासामान्यविशेषात्मकतया पदार्थान् पर्यालोच्य सहसन्मत्यादित्रिकेण परिच्छिद्य सदाऽऽचार्यनिर्देशवर्ती तीर्थिकप्रवादनिराकरणं कुर्यात्, किंच कृत्वेत्यत आह-सम्यगेव स्वपरतीर्थिकवादान् 'समभिज्ञाय' बुद्धवा ततो निराकरण कुर्यात् । किं च - 'इह' अस्मिन् मनुष्यलोके आरमणमारामो रतिरित्यर्थः, स चारामः परमार्थचिन्तायामात्यन्तिकैकान्तिकरतिरूपः संयमः तमासेवनपरिज्ञया परिज्ञाय आलीनो गुप्तश्च 'परिव्रजेत् संयमानुष्ठाने विहरेत्, किंभूत इत्याह-निष्ठितो- मोक्षस्तेनार्थी यदिवा निष्ठितः परिसमाप्तः अर्थ, प्रयोजनं यस्य स निष्ठितार्थः 'वीरः' कर्मविदारणसहिष्णुः सन् 'आगमेन' सर्वज्ञप्रणीताचारादिना 'सदा' सर्वकालं 'पराक्रमेथाः' कभरिपून् प्रति मोक्षाध्वनि वा गच्छेः । इत्यधिकारपरिसमाप्ती, ब्रवीमीति पूर्ववत् । किमर्थं पुनः पौनःपुन्येनोपदेशदानमित्याह
मू. (१८२)
उड्ढ सोया अहे सोया, तिरियं सोया वियाहिया । एए सोया विअक्खाया, जेहिं संगति पासह ॥
वृ. श्रोतांसि-कर्म्मानवद्वाराणि तानि च प्रतिभवाभ्यासाद्विषयानुबन्धादीनि गृह्यन्ते, तत ऊध्र्वं श्रोतांसि वैमानिकाङ्गनाऽभिलाषेच्छा वैमानिकसुखनिदानं वा, अधो भवनपतिसुखाभिलाषिता, तिर्यग्व्यन्तरमनुष्तिर्यग्विषयेच्छा, यदिवा प्रज्ञापकापेक्षयोध्वं गिरिशिखरप्राग्भारनितम्बप्रपातोदकादीनि अधोऽपि श्वभ्रनदीकूलगुहालयनादीनि तिर्यगप्यारामसभाऽऽवसथादीनि प्राणिनां विषयोपभोगस्थानानि विविधमाहितानि प्रयोगविनाभ्यां स्वकर्म्मपरिणत्या वा जनितानि व्याहितानि ।
एतानि च कर्म्मानवद्वाराणीतिकृत्वा श्रोतांसव स्रोतांसि, एभिश्च त्रिभिः प्रकारैरप्यन्यैश्च पापोपादानहेतुभूतैर्यैः 'सङ्गं' प्राणिनामासक्ति कम्र्मानुषङ्गं वा पश्यत, इतिर्हेती, तस्मात्कर्मानुषङ्गात् कारणादेतानि स्रोतांसीत्यतोऽपदिश्यते, आगमेन सदा पराक्रमेथा इति ॥ किंच
-
मू. (१८३) आवट्टं तु पेहाए इत्थ विरामिज वेयवी, विणइत्तु सोयं निक्खम्म एसमहं अकम्पा जाणइ पासइ पडिलेहाए नावकखइ इह आगई गई परित्राय ।
वृ. रागद्वेषकषाविषयावर्त्त कर्म्मबन्धावर्त्त वा तुशब्दः पुनः शब्दार्थे भावावर्त्त पुनरुठप्रेक्ष्य
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International