________________
श्रुतस्कन्धः - १, अध्ययनं - ५, उद्देशकः ६
परिणामलब्धात्मलाभानां
२३५
तदतिरिक्तेश्वरादिकारणपरिकल्पनायामतिप्रसङ्गः स्यात्, तथा घटपटादीनांदण्डचक्रचीवरसलिलकुलालतुरीवेमशलाकाकुविन्दादिव्यापारानन्तरावाप्तात्मलाभानां तदनुपलब्धव्यापारेश्वरस्य कारणपरिकल्पनायां रासभादेरपि किं न स्यात् ?, तनुकरणादीनामप्यवन्ध्यस्वकृतकर्म्मापादितं वैचित्र्यं, कर्म्मणोऽनुपलब्धेः कुत एतदिति चेत्, समानः पर्यनुयोगः, अपि च- तुल्ये मातापित्रादिके कारणेऽपत्यवैचित्र्यदर्शनात्तदधिकेन निमित्तेन भाव्यं, तबेश्वराभ्युपगमेऽप्यध्टमेवेष्टव्यं नान्यथासुखदुःखसुभगदुर्भगादि जगद्वैचित्र्यं स्यादिति । तथा साङ्ख्या एवमाहुः
यथा 'सत्त्वरजस्तमसां साम्यावस्था प्रकृतिः, प्रकृतेर्महांस्ततोऽहङ्कारः, तस्मादेकादशेन्द्रियाणि पञ्च तन्मात्राणि, तन्मात्रेभ्यः पञ्चभूतानि, बुद्धयध्यवसितमर्थं पुरुषश्चेतयते, स चाकर्ता निर्गुणश्चेति, तथा प्रकृतिः करोति पुरुष उपभुङ्कते ततः कैवल्यावस्थायां हृष्टाऽस्मीति निवर्त्तते' इत्यादिकं युक्तिविकलत्वान्निरन्तराः सुहृदः प्रत्येष्यन्ति, तथाहि प्रकृतेरचेतनत्वात् कुत आत्मोपकाराय क्रियाप्रवृत्तिः स्यात् ?, कुतो वा टेत्यात्मोपकाराय प्रवृत्तिर्न स्यात् ?, अचेतनायास्तद्विकल्पा- सम्भवात्, नित्यायाश्च प्रवृत्तिनिवृत्त्यभावात्, पुरुषस्याप्यकर्तृत्वे संसारोद्वेगमोक्षौत्सुक्यभोक्तृ - वाद्यभावः स्यादिति, उक्तं च
11911
"न विरक्तो न निर्विण्णो, न भीतो भवबन्धनात् । न मोक्षसुखकाङ्क्षीवा, पुरुषो निष्क्रियात्मकः ॥ कः प्रव्रजति साङ्ख्यानां, निष्क्रिये क्षेत्रभोक्तरि । निष्क्रियत्वात्कथं वाऽस्य, क्षेत्रभोक्तृत्वमिष्यते ? ॥”
इति । तथा शौद्धोदनिशिष्यका यत्सत्तत्सर्वं क्षणिकमित्येवं व्यवस्थिताः तत्रोत्तरम्, यदि निरन्वयो विनाशः स्यात् ततः प्रतिनियतः कार्यकारणभाव एव न स्यात्, एकसन्तानान्तर्गतत्वात्स्यादिति चेत्, अशिक्षितस्योल्लापः, तथाहि-न सन्तानिव्यतिरेकेण कश्चित्सन्तानोऽस्ति, तथा च सति पूर्वकालक्षणावस्थायित्वमेव कारणत्वम्, एवं च सर्वं सर्वस्य कारणं स्यात्, सर्वस्य पूर्वकालक्षणावस्थायित्वाद्यात्किञ्चिदेतदिति, किंच
॥२॥
11911
॥२॥
कर्त्तरि जातविनष्टे धर्माधर्म्मक्रिया न सम्भवति । तदभावे बन्धः को बन्धाभावे च को मोक्षः ? ॥"
-
इत्यादि । बार्हस्पत्यानां तु भूतवादेनात्मपुण्यपापपरलोकाभाववादिनां निर्म्मर्यादतया जनतातिगानां न्यक्कारपदव्याघानमनुत्तरमेवोत्तरमिति । अपि च "अब्रह्मचर्यरक्तैर्मूढैः परदारर्षणाभिरतैः । मायेन्द्रजालविषवत्प्रर्त्तिवतमसत्किमप्येतत् ॥” (तथा) -
11911
“यज्जातमात्रमेव प्रध्वस्तं तस्य का क्रिया कुम्भे ? | नोत्पन्नमात्रभग्ने क्षिप्तं सन्तिष्ठते वारि ॥
॥२॥
"मिथ्या च दृष्टिर्भवदुः खधात्री, मिथ्यामतिश्चापि विवेकशून्या । धर्म्माय येषां पुरुषाधमानां, तेषामधर्मो भुवि कीद्दशोन्यः ? ॥" इत्यनया दिशा सर्वेऽपि तीर्थिकवादाः सर्वज्ञवादमनुश्रित्य निराकार्या इति स्थितं ।
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International